By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Central Sanskrit University IYD 2024 : विकसितभारतस्य संकल्पना  योगद्वारा एव पूर्णा भविष्यति – कुलपति प्रो. श्रीनिवासवारखेड़ी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Central Sanskrit University IYD 2024 : विकसितभारतस्य संकल्पना  योगद्वारा एव पूर्णा भविष्यति – कुलपति प्रो. श्रीनिवासवारखेड़ी
हिमाचलवार्ता

Central Sanskrit University IYD 2024 : विकसितभारतस्य संकल्पना  योगद्वारा एव पूर्णा भविष्यति – कुलपति प्रो. श्रीनिवासवारखेड़ी

डॉ मनोज शैल
Last updated: 2024/06/22 at 12:02 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Central Sanskrit University IYD 2024 : विकसितभारतस्य संकल्पना  योगद्वारा एव पूर्णा भविष्यति – कुलपति प्रो. श्रीनिवासवारखेड़ी

हिमसंस्कृतवार्ता: – काङ्गड़ा।

अन्ताराष्ट्रीययोगदिवसस्य शुभावसरे केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली इत्यस्य हिमाचलप्रदेशे स्थिते वेदव्यासपरिसरे विविधानां यौगिकक्रियाकलापानाम् आयोजनम् अभवत्।  प्रातः ०६.१५ वादनात् आरभ्य रात्रिं यावत् परिसरस्य वातावरणं योगमयम् अभवत्।   उद्घाटनकार्यक्रमे राष्ट्रीयस्वंयसेवकसंघस्य अखिलभारतीयप्रचारटोली प्रमुखः मुकुलकानिटकरः मुख्यातिथित्वेन प्रतिभागितां कुर्वन् स्वकीये सम्बोधने उक्तवान यत्  भारते सूर्यनमस्कारस्य  १८ प्रकाराः प्रचलने सन्ति। तेनोक्तं यत् योगः शारीरिकक्रिया न अपितु मानसिकक्रिया अस्ति। मानसिकचिन्तने परिष्कारः, पवित्रता च योगस्य प्रयासः भवितुमर्हति। तेनोक्तं यत् अन्ताराष्ट्रीययोगस्य परिकल्पना भारतं विश्वगुरुत्वेन स्थापयन्नस्ति।  अस्मिन् क्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवारखेड़ीवर्यः स्वसम्बोधने उक्तवान् यत् अस्माभिः सङ्कल्पः करणीयः यत् २०४७ पर्यन्तं विश्वस्य सर्वेषु देशेषु सर्वेषु मानवेषु च योगस्य माहात्म्यं गच्छेत्, येन आविश्वे जायमानानां समस्यानां समाधानं भवेत् । तेनोक्तं यत् विकसितभारतस्य संकल्पना योगद्वारा एव पूर्णा भविष्यति। कार्यक्रमस्य द्वितीयसत्रस्य शुभारम्भः वैदिकमंगलाचरणेन सरस्वत्यापूजनेन चाभवत्।  बलाहरपरिसरस्य निदेशिका प्रो.सत्यकुमारी सर्वेषां स्वागतं कृतवती।  सत्रेऽस्मिन्  १८ जूनदिनाङ्कात् आरभ्य २० जूनपर्यन्तं जायमानासु राष्ट्रीयप्रतियोगितासु प्रथमद्वितीयतृतीयस्थानं प्राप्तवन्तः भारतस्य विविधेभ्यः कोणेभ्यः समागता प्रतिभागिनः पुरस्कृताः। अस्मिन् सत्रे डॉ.सत्यदेवः  कुशलमञ्चसञ्चालनं कृतवान।  कार्यक्रमेऽस्मिन् परिसरस्य विभिन्नानां विभागानां पत्रिकाणामपि विमोचनं जातम्, तत्रैव विद्याभारती संस्था हिमाचलप्रदेशः केन्द्रीयविश्वविद्यालयः, नवदेहली इत्यनयोः संस्थयोः मध्ये एमओयू इति हस्ताक्षराणि जातानि। कार्यक्रमे विशिष्टातिथिषु प्रो.बनमालीमिश्रमहोदयः प्रो.मदनमोहनझा सदृशाः गणमान्या उपस्थिता आसन्। अत्रैव प्रो.मदनमोहनझावर्यस्य निर्देशने सामाजिकानां कृते संस्कृतम् ओपम्पियाड इत्यस्य प्रकल्पस्य शुभारम्भः कुलपतेः करकमलाभ्यां जातः। ज्ञातव्यं यत् अन्तर्राष्ट्रीययोगमहोत्सवस्य शुभावसरे देशस्य विभिन्नराज्येभ्यः प्रायः २०० प्रतिभागिनः मार्गदर्शकैः सह वेदव्याससङ्कुलस्य बलाहारे उपस्थिताः आसन्, ये विभिन्नप्रकारस्य योगमुद्राभिः सर्वान् प्रभावितं कृतवन्तः। अस्मिन् काले अतिथिभिः सह विश्वविद्यालयस्य मार्गदर्शकाः, प्राध्यापकाः, प्रतिभागिनः, कर्मचारिणश्च सामूहिकरूपेण योगस्य अभ्यासं कृतवन्तः ।   अस्य भव्यकार्यक्रमस्य संयोजकः डॉ. पुरुषोत्तमः सर्वेषाम् आभारं प्रकटितवान्। कार्यक्रमे प्रो.मञ्जुनाथभट्टः, प्रो.शीशरामः इत्यादयः गणमान्या उपस्थिता आसन्।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Central Sanskrit University, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, IYD 2024, Kangra News, sanskrit University, Yoga Day celebration, केन्द्रीय संस्कृत विश्वविद्यालय, योग दिवस, संस्कृत विश्वविद्यालय, संस्कृत समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Bye Election : देहरात: कमलेश, होशियारसिंह: च हमीरपुरत: डॉ. पुष्पेन्द्रवर्मा नामांकनं कृतवन्त:
Next Article IYD 2024 Celebration : लघ्वीकाश्यां मण्ड्यां बिजन-ढलवानविद्यालये आचरित: योगदिवस:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?