Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- अन्ताराष्ट्रीययोगदिवसस्य अवसरे जम्मू-कश्मीरस्य श्रीनगरात् उत्सवस्य नेतृत्वं प्रधानमन्त्री नरेन्द्रमोदी कृतवान् ।
- योग-उत्साहिन: आविश्वे सोत्साहं योगदिवसम् आचरितवन्त:।
- दिल्ली उच्चन्यायालयेन कथितं मद्यनीतिप्रबंधना प्रकरणे मुख्यमंत्रिणः अरविन्द केजरीवालस्य याचिका स्थगिता कृता।
- वाङ्ङ्गलादेशस्य प्रधानमन्त्री शेखहसीना द्विदिवसीययात्रायै नवदिल्लीनगरम् आगता।
- टैनिस्-क्रीडायां अद्य सायं इली-देशे डब्ल्यू ए-वेने-ओपन-क्रीडायाः महिला एकल-प्रागु पांत्य चक्र- क्रीडायां स्वि (जलैंडड्-देशस्य सुसान-वण्डेच्चि-इत्यस्य भारतस्य अंकिता संसती-इत्यनया सह स्पर्धा भविष्यति।
हिमाचलवार्ता:
- विश्वयोगदिवसस्य अवसरे शुक्रवासरे हिमाचलप्रदेशस्य सर्वेषु जनपदेषु बहूनां कार्यक्रमाणाम् आयोजनं कृतम्। मुख्यकार्यक्रमस्य आयोजनं राज्यस्य आयुषविभागेन शिमलानगरस्य ऐतिहासिके रिजस्थले कृतम्। तत्र राज्यपालेन शिवप्रतापशुक्लवर्येण सहितं प्रायः एकसहस्रजनाः कूले योगाभ्यासं कृतवन्तः। कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः राज्यपालः अवदत् यत् योगः भारतस्य परम्परायां वर्तते।
- ये हिमाचलप्रदेशे द्विवर्षीयं नर्सरीशिक्षकप्रशिक्षणं कुर्वन्त: प्रारम्भिकबालपालनशिक्षाप्रशिक्षकाः भविष्यन्ति। मन्त्रिमण्डलस्य सभायाम् अनुमोदनानन्तरं शिक्षाविभागेन हिमाचले ६२९७ नियुक्त्यर्थं नियमान् निर्मातुं सज्जता आरब्धा।
- देहराविधानसभात: मुख्यमंत्रिण: सुखविंदरसिंहसुक्खो: पत्नी एवं कांग्रेसप्रत्याशी कमलेशठाकुर शुक्रवासरे नामांकनं पूरितवती। अस्मिन्नवसरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: काङ्ग्रेसप्रदेशाध्यक्षा प्रतिभासिंह च उपस्थितौ आस्ताम्। तस्मिन् एव काले निर्दलीयरूपेण निर्वाचनं प्रतिस्पर्धयितुं घोषितः पूर्वकाङ्ग्रेस-प्रत्याशी राजेशशर्मा अपि नामाङ्कनसमये उपस्थितः आसीत्। तत्रैव भाजपा प्रत्याशी होशियारसिंहः अपि देहरा विधानसभा उपनिर्वाचनार्थं नामाङ्कनं कृतवान्। हमीरपुर विधानसभासनतः डॉ. पुष्पेन्द्रवर्मा अपि शुक्रवासरे हमीरपुरे नामाङ्कनं कृतवान्।
- अन्ताराष्ट्रीययोगदिवसस्य शुभावसरे केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली इत्यस्य हिमाचलप्रदेशे स्थिते वेदव्यासपरिसरे विविधानां यौगिकक्रियाकलापानाम् आयोजनम् अभवत्। प्रातः ०६.१५ वादनात् आरभ्य रात्रिं यावत् परिसरस्य वातावरणं योगमयम् अभवत्। अस्मिन् क्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवारखेड़ीवर्यः स्वसम्बोधने उक्तवान् यत् अस्माभिः सङ्कल्पः करणीयः यत् २०४७ पर्यन्तं विश्वस्य सर्वेषु देशेषु सर्वेषु मानवेषु च योगस्य माहात्म्यं गच्छेत्, येन आविश्वे जायमानानां समस्यानां समाधानं भवेत् । तेनोक्तं यत् विकसितभारतस्य संकल्पना योगद्वारा एव पूर्णा भविष्यति।