By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : आविश्वे सोत्साहं योगदिवस: आचरित:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : आविश्वे सोत्साहं योगदिवस: आचरित:
राष्ट्रीयवार्ताः

National News : आविश्वे सोत्साहं योगदिवस: आचरित:

डॉ मनोज शैल
Last updated: 2024/06/21 at 11:26 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News : आविश्वे सोत्साहं योगदिवस: आचरित:

प्रधानमन्त्री नरेन्द्रमोदी अन्ताराष्ट्रीययोगदिवसस्य अवसरे जम्मू-कश्मीरस्य श्रीनगरात् उत्सवस्य नेतृत्वं कृतवान्

दशम: अन्तराष्ट्रिय-योगदिवसः सम्पूर्ण विश्वे परिपालित:। प्रमुखकार्यक्रमः जम्मूकश्मीरस्य श्रीनगरस्य शेर-कश्मीर- अन्ताराष्ट्रिय-सम्मेलनकेन्द्रे आयोजितवान्। प्रधानमन्त्री नरेन्द्रमोदी श्रीनगरतः अस्य कार्यक्रमस्य नेतृत्वं कृतवान्। आहत्य सप्तसहस्रं जनाः प्रधानमन्त्रिणा सह डलजलाशय तटे एकत्रिताः अभवन्। प्रधानमन्त्रिणाः नेतृत्वयुते एतस्मिन् कार्यक्रमे जम्मूकश्मीरस्य उपराज्यपालः मनोजसिन्हाः केन्द्रीयमन्त्री प्रतापराव गणपतरावजाधवः अन्येच गणमान्याः जनाः उपस्थिताः असीत्। अस्य वर्षस्य योगदिवसस्य शीर्षको वर्तते स्वस्मै समाजाय च योगः इति अस्य कार्यक्रमस्योद्देश्यं योगाभ्यासद्वारा वैश्विक स्वास्थ्य-कल्याणं च संवर्धयितुं सहसाधिक प्रतिभागिनां एकत्रीकरणं अभवत्। कार्यक्रमावधी प्रधानमन्त्री जनसभागमपि सम्बोधितवान्। अपिच सामान्ययोगमपि सम्बोधितवान्। अपिच सामान्ययोगसत्रे भागं भजितवान् यस्मिन् शारीरिक-मानसिक-आध्यात्मिकविकासस्य प्रतिपोषणे योगमहत्वं प्रतिपादितम्। प्रधानमंत्री नरेन्द्र मोदी जम्मूकश्मीरस्य द्विदिवसीययात्रायां अस्ति। श्रीमोदी पञ्चशताधिकैकसहस्रकोटि-रूप्यकाणां चतुरशीतिः प्रमुखासां विकासपरियोजनानां शिलान्यास उद्घाटनं कृतवान्।

वित्तमन्त्री निर्मला सीतारमणः अद्य नवीदिल्लीनगरे ५३ तमाया: जीएसटीपरिषद- सभायाः अध्यक्षतां करिष्यति

हिमसंस्कृतवार्ता: – प्रवीण कुमार:

वित्तमंत्री निगमकार्यमन्त्री च निर्मला सीतारमणः अद्य नवीदिल्लीनगरे ५३ तमा- जीएसटीपरिषद- सभायाः अध्यक्षतां करिष्यति। नूतनसर्वकारस्य निर्माणानन्तरं जीएसटी परिषदस्य एषा प्रथमा सभा अस्ति।

जीएसटी-परिषदस्य अन्तिमसभा गतवर्षस्य अक्तूबरमासस्य ७ दिनाङ्के अभवत्। अस्मिन् काले परिषदेन अनेके निर्णयाः कृताः आसन्। जीएसटी परिषद इत्यनेन प्रस्तावितानां जीएसटी अपीलीय- न्यायाधिकरणानाम् अध्यक्षस्य सदस्यानां च नियुक्तेः  पात्रतायाः आयुः च विषये संशोधनस्य अनुशंसा कृता आसीत्। परिषद- इत्यनेन बाजरापिष्टात् निर्मितानाम् आहारस्य शून्यदरः अपि अनुशंसिता आसीत्।  इक्षुकृषकाणां कृते बकाया शीघ्रं भुक्तिं कर्तुं, पशुभोजनस्य निर्माणस्य व्ययस्य न्यूनीकरणाय च गुडस्य जीएसटी २८ प्रतिशतात् ५ प्रतिशतं यावत् न्यूनीकर्तुं परिषदः अपि निर्णयं कृतवती आसीत्।

विश्व-योग-दिवसः – योग-उत्साहिन: आविश्वे सोत्साहं योगदिवसम् आचरितवन्त:

विश्व-योग-दिवसः सम्पूर्ण-विश्वे उत्साहेन परिपालित:। बांग्लादेशे अंताराष्ट्रीय-योग-दिवसस्य अवसरे ढाका-नगस्य मीरपुर क्षेत्रे शाहीद- सुहरावर्दी-इन्डोर क्रीडाङ्ग्णे भारतीय उच्चायोगेन भव्ययोगकार्यक्रमः आयोजितः। आयोजनस्थले उपस्थितान् योगानुरागिणः सम्बोधयन् कार्यवाहकः उच्चायुक्तः डॉ. बिनॉय-जॉर्जः प्रोक्तवान् यत् योगः भारतस्य बांग्लादेशस्य च जनानां शारीरिक-मानसिक-स्वास्थ्यस्य प्रवर्धनं कुर्वन् एकीकृत-शक्तिरूपेण कार्य कर्तुं शक्नोति। दुबई-देशे आयोजिते अंताराष्ट्रिय-योग- दिवस्य समारोहे पञ्चाशत्याधिक-एकशत तः अधिकाः जनाः भागं भजितवन्तः। श्रीलंकादेशे ऐतिहासिक गैले-दुर्गे अन्तर्राष्ट्रीययोगदिवसः आचर्यते। हम्बनटोटा-नगरस्य भारतस्य महावाणिज्य दूतावासेन गैल-नगरस्य यूनेस्को विश्वविरासत-स्थले अस्य समारोहस्य व्यवस्था कृता अस्ति।

मद्यनीतिप्रबंधना प्रकरणे मुख्यमंत्रिणः अरविन्द केजरीवालस्य याचिका स्थगिता कृता – दिल्ली उच्चन्यायालय:

दिल्ली-उच्चन्यायालयेन कथितं मद्य-नीति-प्रकरणे मुख् यमंत्रीणः अरविंद केजरीवालस्य मुक्ति-याचिका स्थागिता। न्यायालयेन प्रोक्तं यत् मुख् यमंत्रीणम् अरविंद केजरीवालम् मुक्ति-दातुं विशेष न्यायालयस्य आदेशं तथावत् प्रभार्थी न भविष्यति यथावत् सः अस्मिन् प्रकरणे प्रवर्तन निदेशालयस्य समाह्वान याचिकासु वादश्रवणं न करिष्यति। विरामः

बाङ्गलादेशस्य प्रधानमन्त्री शेखहसीना द्विदिवसीययात्रायै नवदिल्लीनगरम् आगता।

बांग्लादेशीया प्रधानमन्त्री शेख हसीना-इत्येषा अद्यारभ्य भारतस्य द्विदिवसीय यात्रां प्रति आयाति। स्व-यात्रावधी प्रधानमन्त्रिणा नरेन्द्र मोदिना सह द्विपक्षीयविचारविमर्शान् अतिरिच्य सा राष्ट्रपतिना द्रौपदीमुर्मु इत्यनया उपराष्ट्रपतिना जगदीपधनखडेन च सह मेलनं करिष्यति। विदेशमन्त्रिणा एस. जयशंकरेण सह तस्याः पारस्परिकोपवेशनं सुनिश्चितं अस्ति।

नीटपरीक्षाया: अंतर्गतं जायमाना प्रक्रिया निवर्तिता 

सर्वोच्च न्यायालयः चिकित्सक-स्नातक-प्रवेश-परीक्षाया (नीट-यूजी) अस्मिन् वर्षे जायमानां काउंसलिंगा चयन)-प्रक्रियां निवर्तयितुं निरस्तीकृतवान् । तथा च राष्ट्रीय परीक्षा-संस्थानां सूचना-पत्रम् अपि प्रेषितवान्। न्यायालयः नूतनां याचिकां विद्यमान-याचिकाभिः सह सम् बद्धं कृत्वा वादश्रवण-प्रक्रिया जुलाई मासस्य अष्टदिनांके भविष्यति इति निर्णयं कृतवान्‌।

भारत-देशे सर्वाधिक विश्वसनीय वार्ता-ब्रांड उपाधि मन्यते आकाशवाणी वार्ता

आकाशवाणी वार्ता भारत-देशे सर्वाधिक विश्वसनीय वार्ता-ब्रांड उपाधि इति मन्यते। ऑक्सफोर्ड विश्वविद्यालय ‘रॉयटर्स- इंस्टीट्यूट फॉर व स्टडी ऑफ जर्नालिज्म’ इत्यस्य सर्वेक्षणे पुष्टिं देशस्य वार्ता-जगति आकाशवाणी वार्तायाः श्रेष्ठतायाः पृष्ठि कृतम्। प्रसार-भारती इत्यस्य अध्यक्ष-नवनीत-कुमार सहगलेन प्रोक्तं यत् अस्यां उल् लेखनीय उपलब्धी सर्वासु स्थितीषु सतयां-प्रमाणिकी च वार्ता- प्रसारणाय एषा आकाशवाणी- वार्ता सुदृढतायाः प्रतिबद्धतायाः च प्रमाणं अस्ति।

आगामिषु पञ्चदिवसेषु अतिवृष्टेः पूर्वानुमानम् – ऋतुविज्ञानविभाग:

भारतस्य ऋतु-विभागेन आगामिषु पञ्चदिवसेषु केरल राज्यस्य तटीयक्षेत्रे कर्नाटकस्य दक्षिण-क्षेत्रे कोङ्कन-क्षेत्रे च अतिवृष्टेः पूर्वानुमानं कृतम्। आई.एम.डी. इत्यनेन प्रोक्तं यत् पूर्वोत्तर-असमस्य उपरि तत्समीपस्थेषु क्षेत्रेषु चक्रवात-सञ्चारस्य निर्माणस्य सम्भावना वर्तते तथा च तस्य प्रभावेण अरूणचल प्रदेश असम-मेघालय, नागालैण्ड, मणिपुर, मिजोरम, त्रिपुरा प्रदेशेषु, उपरि- हिमालयक्षेत्रे पश्चिमबङगाले च मध् यम-वृष्टिः सम्भाव्यते।

विश्व-संगीत दिवस

शुक्रवासरे विश्व-संगीत-दिवसः आचरित:। एषः दिवसः ‘फेत डे ला म्यूजिक इत्यनेन नामना अपि प्रसिद्धः अस्तिा अयं वार्षिकः उत्सवः वर्तते चा संगीतस्य शक्ति तस्य सार्वत्रिकं भाषां च प्रवर्धप्यति। विश्व संगीत दिवसे विश्वस्य संगीतकाराः संगीतप्रेमिणः च एकास्थले आगत्य विभिन्नां संगीत-विधानानां प्रदर्शनं कृत्वा आनन्दं लभन्ते।

टैनिस क्रीडायां भारतस्य अंकिता रैना स्विटजरलैण्ड-देशस्य सुसान बंदेची इत्यनेन सह स्पर्धयिष्यते।

टेनिस् क्रीडायां अद्य सायं इटली-देशस्य गाइबा-नगरे डब्ल्यूटीए बेनेटो-ओपन टेनिस-स्पर्धाश्रृखलायाः महिला-एकल- प्रामुपान्त्यचक्ने भारतस्य अंकिता रैना स्विटजरलैण्ड-देशस्य सुसान बंदेची इत्यनेन सह स्पर्धयिष्यते। प्र-प्रागुपान्त्य-चक्रे अंकिता रोमानिय देशस्य इरिना बारां षड्-द्वि, द्वि-षड्, षड्-शून्य अंकैः पराजितवती।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article IYD 2024 विश्वयोगदिवसः- हिमाचलस्य सहस्रश: जनाः योगस्य अभ्यासं कृत्वा स्वस्थः भवितुं सन्देशं दत्तवन्तः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?