By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: KSDSU : संस्कृतविश्वविद्यालये विज्ञानप्रदर्शनी उद्घाटिता, विवरणं श्रुत्वा अतिथयः विस्मिताः अभवन्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > KSDSU : संस्कृतविश्वविद्यालये विज्ञानप्रदर्शनी उद्घाटिता, विवरणं श्रुत्वा अतिथयः विस्मिताः अभवन्
प्रादेशिकवार्ताराष्ट्रीयवार्ताः

KSDSU : संस्कृतविश्वविद्यालये विज्ञानप्रदर्शनी उद्घाटिता, विवरणं श्रुत्वा अतिथयः विस्मिताः अभवन्

डॉ मनोज शैल
Last updated: 2024/06/13 at 10:39 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

KSDSU : संस्कृतविश्वविद्यालये विज्ञानप्रदर्शनी उद्घाटिता, विवरणं श्रुत्वा अतिथयः विस्मिताः अभवन्

हिमसंस्कृतवार्ताः दरभङ्गा राघवनाथझा।

आवासीयसंस्कृत-प्रशिक्षणवर्गे बुधवासरे संस्कृत-विज्ञान-प्रदर्शनी आयोजिता। अपराह्ने त्रिसमये प्रशिक्षण-हालमध्ये नगरस्य प्रसिद्धचिकित्सकः डॉ.मृदुलकुमारशुक्लः, विश्वविद्यालयपरिसरे स्टेट-बैंक-शाखाप्रबन्धकः प्रवीणचन्द्रझः च संयुक्तरूपेण सूत्रं छित्वा प्रदर्शनीमिमां उद्घाटितवन्तौ।

उक्तविवरणं प्रदाय पीआरओ निशिकान्तः उक्तवान् यत् प्रदर्शनीमध्ये संस्कृत-ग्रन्थेषु शास्त्रेषु च वर्णितानि दृष्टान्तानि आधुनिकविज्ञानः कथं स्वीकृतवान्, तस्य सुन्दरं चित्रणं कृतम् अस्ति।

प्रदर्शन्याः अवलोकनं कुर्वन्तः चिकित्सकः डॉ.शुक्लः उक्तवान् यत् “संस्कृते विज्ञानस्य अद्भुतसमागमं दृष्ट्वा मनः प्रफुल्लितम् अभवत्”। प्रशिक्षणवर्गे उपस्थितानां छात्राणां संख्या एवं सम्पूर्णपरिसरस्य संस्कृतमय-पर्यावरणं दृष्ट्वा सः वर्गे सर्वसम्भवसहाय्यं करिष्यामीति आश्वासनं दत्तवान्। तस्य चिकित्सालये अनेकाः चिकित्सकाः सहकर्मिणः च प्रशिक्षणवर्गस्य प्रतिभागिनां स्वास्थ्यपरीक्षणे निरन्तरं यतमानाः सन्ति। शाखाप्रबन्धकः प्रवीणचन्द्रझः उक्तवान् यत् “विज्ञानप्रदर्शनीस्यायोजनं अस्मिन्नेव वर्गेण समाजाय सुखदं संदेशं दास्यति। आधुनिकतायाः धावने अस्या संस्कृतविज्ञानप्रदर्शनीस्य महती भूमिका अस्ति। युवानः अत्र आगत्यास्याः प्रदर्शनीमवलोकयितुं यतिष्यन्ते।”

तत्र, सीनेटसदस्यः अंजीतकुमारचौधरी विज्ञानप्रदर्शनीं संस्कृत-प्रशिक्षणवर्गं च संस्कृतविश्वविद्यालये शैक्षणिक-पर्यावरण-निर्माणाय अभूतपूर्वप्रयत्नं इति उक्तवान्। एवं डॉ.शिवकिशोररायः अपि विज्ञानप्रदर्शनीं, पुस्तकप्रदर्शनीं च प्रचलन्तं प्रशिक्षणकार्यं दृष्ट्वा इदं दरभङ्गायाः ऐतिहासिकं कार्यमिति उक्तवान्।

उद्घाटनसमारोहे डॉ.शिवलोचनझः, डॉ.दिनेशझः, डॉ.महानन्दठाकुरः, डॉ.घनश्याममिश्रः, डॉ.दयानाथझः, डॉ.त्रिलोकझः, डॉ.सुधीरकुमारझः, डॉ.विभाकरदूवे, प्रान्तमन्त्री डॉ.रमेशकुमारझः, सहमन्त्री डॉ.अभिषेकद्विवेदी, देव निरञ्जनदीक्षितः, मनीषकुमारः, राजकिशोरः, अमितकुमारझः, डॉ.वीरसनातनपूर्णेन्दुरायः, डॉ.छविलालः, डॉ.सुधीरकुमारः समेत अनेके उपस्थिताः आसन्।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: Bihar News, Darbhanga News, Darbhanga Sanskrit University, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, KSDSU, sanskrit University, कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालय, दरभंगा, बिहार समाचार, संस्कृत विश्वविद्यालय, संस्कृत समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Bihar News : राजभवने योगस्पर्धायै प्रतिभागिनः चयनिताः
Next Article National News : राष्ट्रीयवार्ता:  PM Modi Italy Tour : प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित:।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?