By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : राष्ट्रीयवार्ता:  PM Modi Italy Tour : प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित:।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : राष्ट्रीयवार्ता:  PM Modi Italy Tour : प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित:।
राष्ट्रीयवार्ताः

National News : राष्ट्रीयवार्ता:  PM Modi Italy Tour : प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित:।

डॉ मनोज शैल
Last updated: 2024/06/13 at 8:55 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News : राष्ट्रीयवार्ता: 

PM Modi Italy Tour : प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित:।

 

हिमसंस्कृतवार्ता: – नवदेहली।

प्रधानमन्त्री नरेन्द्रमोदी जी-सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित: । विदेश-सचिवः विनय- मोहन-क्वात्रा राजधान्यां नव-दिल्ल्यां वार्ताहरान् उक्तवान् यत् भारतं सम्पर्क-देशरूपेण शिखर सम्मेलने आमन्त्रितम्। तृतीयवारं पदग्रहणानन्तरं प्रधानमन्त्रिणः मोदिनः एषा प्रथमा विदेशयात्रा भविष्यति। श्री क्वात्रा उक्तवान् यत् सम्मेलने वैश्चिकनेतृभिः सह भारताय अल्प-विकसित-देशानां च कृते महत्त्वपूर्ण-विषयेषु चर्चायाः महत्त्वपूर्णः अवसरः भविष्यति।

भाजपाया: पेमाखण्डुः  अनवरतं तृतीयवारं अरुणाचलप्रदेशस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्

हिमसंस्कृतवार्ता: – नवदेहली।

भारतीयजनतापाटीति-दलस्य वरिष्ठनेता पेमाखण्डुः अद्य अनवरतं तृतीयवारं अरुणाचल प्रदेशस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्। राजस्य राजधान्याम् इटानगर्यां आयोजिते समारोहे पेमाखण्डुः इत्यमुना एकादश अन्य-विधायकैः अपि मन्त्रीरूपेण शपथं गृहीतम्। राज्यपालः लेफ्टिनेंट जनरल के. टी. पट नाइकः मुख्यमन्त्रिणे अन्येभ्यः मन्त्रिभ्यः च पदस्य गोपनीयतायाः शपथं प्रतिज्ञापयत् । अत्रावसरे केन्द्रीयो गृहमन्त्री अमित शाहः स्वास्थ्यमन्त्री जेपी नड्डा केन्द्रीयमन्त्री किरेन रिजिजू असम-सिक्किम-राज्ययोः मुख्यमन्त्रिणौ अन्ये च गणमान्याः उपस्थिताः आसन्। वार्ताहरैः सह भाषमाणः खाण्डुमहोदयः अवदत् यत् राज्यस्य विकासाय दलस्य निर्वाचनघोषणापत्रे कृतानि वचनानि पूरयितुं राज्यसर्वकारः कार्य करिष्यति।

NEET-RETEST : त्रयोविंशतिः दिनाङ्‌के भविष्यति NEET-UG परीक्षायां संलग्नानां सर्वेषां त्रिषष्ठयाधिक-पञ्चशतोत्तर-एकसहसाभ्यर्थीनां पुनः परीक्षणम् 

हिमसंस्कृतवार्ता: – नवदेहली। 

NEET-UG परीक्षायां संलग्नानां सर्वेषां त्रिषष्ठयाधिक पञ्चशतोत्तर-एकसहस्राभ्यर्थीनां पुनः परीक्षणम् अस्य मासस्य त्रयोविंशतिः दिनाङ्‌के भविष्यति। ये परीक्षायां अनुग्रहः अथवा प्रतिपूरक अङ्‌कानि प्राप्ताः। अद्य प्रसारिते अधिसूचनाया राष्ट्रियपरीक्षणअभिकरणस्य कथनमस्ति यत् सः शीघ्रमेव सार्वजनिकसूचना प्रसारयिष्यति तथा च एतेषां अभ्यर्थीनां कृते ईमेलमाध्यमेनापि सम्पर्क करिष्यत्ति यत् ते आधिकारिकसञ्चारं प्राप्नुवन्ति इति सुनिश्चितं करिष्यति। एनटीए इत्यनेन उक्तं यत्, एनटीए-उच्चसमितेः प्रतिवेदने सर्वोच्चन्यायालयस्य आदेशानुसारं पुनः परीक्षणस्य निर्णयः कृतः अस्ति, सर्वेषां त्रिषष्ठयाधिक- पञ्चशतोत्तर-एकसहस्राभ्यर्थीनां कृते प्रदत्ताः अनुग्रहः अथवा प्रतिपूरक अड्‌ङ्कानि प्रत्यावर्तितानि सन्ति। इदानीं केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानेन NEET-UG परीक्षाप्रश्नपत्राणां कथितस्य पूर्वप्रसारस्य खण्डनं कृतम्। नीट् परीक्षायां भ्रष्टाचारः नास्ति इति सः बोधितवान्। अद्य नवदिल्ल्यां वार्ताहरान सम्बोधयन् प्रधानमहोदयः NEET विषये सर्वोच्चन्यायालयस्य निर्णयस्य स्वागतं कृतवान्। नीट् परीक्षायां कथितानां विसंगतानां विषये प्रधानमहोदयः अवदत् यत् परीक्षायां समस्यां जनयितुं उत्तरदायीजनानाम् उपरि उचित कार्याचरणं भविष्यति। सः छात्रान् अभिभावकान् च आश्वासितवान् यत् केन्द्रं तेभ्यः न्यायं दातुं प्रतिबद्धम् अस्ति।

Yoga Day : प्रधानमन्त्रिणा एक्सपटले ताडासनस्य दृश्याङ्कनं प्रसारितम् 

हिमसंस्कृतवार्ता: – नवदेहली।

अस्य मासस्य एकविंशे दिने जगति योगदिवसाचरणं विधास्यते। अन्ताराष्ट्रिय-योगदिवसस्य दशम संस्करणस्य सज्जता- दृष्ट्या प्रधानमन्त्री नरेन्द्रमोदी एक्स् इत्यत्र ताडासनस्य दृश्याङ्कनं प्रसारयत् । यत्र ताडासनस्य विधिः स्वास्थ्यलाभाः च विशदीकृतः। प्रधानमन्त्रिणा उक्तं यत् ताडासनः शरीराय अतीव उत्तमः अस्ति। एतत् आसनम् अस्मभ्यम् अधिकं बलं ददाति।

कुवेत-अग्निदुर्घटना : विदेश-राज्य-मन्त्री कीर्ति-वर्धन-सिंहः कुवैत-नगरस्य मनगाफ-क्षेत्रं प्राप्तवान्

हिमसंस्कृतवार्ता: – नवदेहली।

विदेश-राज्य-मन्त्री कीर्ति-वर्धन-सिंहः मनगाफ-क्षेत्रं प्राप्तवान् यत्र सः अग्निदुर्घटनयाम् आहतानां सहायतायाः निरीक्षणं करिष्यति। तस्य यात्रायाः उद्देश्यं दुर्घटनायां मृतकानां पार्थिवशरीराणि प्रत्यानयन-विषये स्थानीयाधिकारिभिः सह समन्वयं स्थापनं वर्तते। कुवैतं प्राप्य कीर्तिवर्धनसिंहः तत्क्षणमेव जाबिर-चिकित्सालयम् उपेत्य अग्निदुर्घटनायां प्रभावित-जनैः सह अमिलत्। चिकित्सालये उपचर्यमाणैः षट् व्रणित-जनैः सह संवादं निकाय कुवैत नगरे भारतीय दूतावासं सूचयत् यत् सर्वे व्रणिताः सुरक्षिताः सन्ति। अत्रान्तरे कुवैते दुरापादिताम् अग्निदुर्घटनां निध्याय केरले मन्त्रिमण्डलस्य विशेषोपवेशने राज्यसस्य प्रत्येकं पीडित परिवाराय पञ्चलक्ष-रूप्यकाणां प्रत्येकं व्रणिताय च एक-लक्ष-रूप्यकाणाम् अनुग्रह-राशि-प्रदानस्य निर्णयः स्वीकृतः। केरलस्य कतिपय- प्रवासि-व्यवसायिभिरपि अतिरिक्त राशि-प्रदानस्य निर्णयो विहितः।

Defence Minister : भारतेन इदानी एकविंशतिः सहस्र-रूप्यकाधिक- रक्षोपकरणानां निर्यातो विहितः – राजनाथसिंह: 

हिमसंस्कृतवार्ता: – नवदेहली।

सर्वकारेण आगामि-पञ्च-वर्षेषु देशस्य रक्षा निर्यातं समेध्य पञ्चाशत्-सहस्र-कोटि-रूप्यकाणां लक्ष्यं स्थापितम्। मन्त्रालयस्य पदभार ग्रहणानन्तरं रक्षा मन्त्रिणा राजनाथ सिंहेनोक्तं यत् भारतेन इदानी यावत् एकविंशतिः सहस्र-रूप्यकाधिक- रक्षोपकरणानां निर्यातो विहितः। तेनेदमपि कथितं यत् सर्वकारः एकं दृढम् आत्मनिर्भर च भारतं विकसितुम् इच्छति। सहैव देशस्य रक्षा सुरक्षाबलानां कल्याणं च सर्वकारस्य प्राथमिकता वर्तते ।

केन्द्रीययुवाक्रीडामन्त्री  पेरिस् ओलम्पिक-क्रीडा-सज्जतायाः समीक्षां कृतवान्

हिमसंस्कृतवार्ता: – नवदेहली।

केन्द्रीययुवाक्रीडामन्त्री डॉ. मनसुख मण्डविया अद्य दिल्लीनगरे भारतीय ओलम्पिक सङ्घस्य कार्यालयाधिकारिभिः सह उपवेशनं कृत्वा ऐषमः पेरिस् ओलम्पिक-क्रीडा-सज्जतायाः समीक्षां कृतवान्। अस्मिन् उपवेशने राज्यमन्त्री रक्षा खड्से इत्यनयां समेत्य मन्त्रालयस्य वरिष्ठाः अधिकारिणः अपि उपस्थिताः आसन्। उपवेशनस्य अनन्तरं वार्ताहरैः सह संवादन्ती भारतीय ओलम्पिक- सङ्घस्य अध्यक्षा पी.टी. उषा उक्तवती यत् सर्वाः सज्जाः कृताः। सर्वोच्चप्राथमिकतायां क्रीडकेभ्यः सर्वविधं सौविध्यं प्रदत्तम्। तया इदमपि उक्तं यत् भारतीय-ओलम्पिक सङ्घः अस्मिन् समये टोक्यो ओलम्पिक क्रीडापेक्षया अधिकानि पदकानि अपेक्षते ।

क्रिकेटम् :  विंशतिः प्रतिविंशतिः क्रिकेट विश्वचषक स्पर्धामालिकायाम् अद्य बङ्ग्लादेश-दलं नीदरलैण्डदलेन सह योत्स्यति ।

विंशतिः प्रतिविंशतिः क्रिकेट विश्वचषक स्पर्धामालिकायाम् अद्य बङ्ग्लादेश-दलं नीदरलैण्डदलेन सह योत्स्यति । एषा स्पर्धा वैस्टइंडिज-देशस्य किंग्सटाउन इत्यत्र भविष्यति।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, PM Modi, pmo, Rajnath Singh, Sanskrit news, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, संस्कृत समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article KSDSU : संस्कृतविश्वविद्यालये विज्ञानप्रदर्शनी उद्घाटिता, विवरणं श्रुत्वा अतिथयः विस्मिताः अभवन्
Next Article HP News : बद्दी-बरोटीवाला-क्षेत्रयो: भूजलस्य कर्करोगजनकविषाक्ततत्त्वानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?