Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्वे केन्द्रीय मन्त्रिमण्डल-हेतु मन्त्रिभ्यः: विभागानाम् घोषणा। राजनाथ सिंह: रक्षामन्त्री अमितशाह: गृहमन्त्री, शिवराजसिंह चौहान: कृषिमंत्री जगतप्रकाशनड्डा च स्वास्थ्यमन्त्री भविष्यन्ति।
- नरेन्द्रमोदी तृतीयवारं प्रधानमन्त्रीपदं स्वीकृत्य किसानसम्मननिधे: १७तमाशं विमोचितवान्। एष अंश: नवकोटि ३० लक्षं कृषकाणां कृते प्रायः विंशतिसहस्रकोटिरूप्यकाणां लाभं प्रदास्यति।
- निर्वाचनायोगेन सप्तराज्येषु त्रयोदश- विधानसभासनेषु उपनिर्वाचनानां समयसूची घोषिता। एतेषु चत्वारि विधानसभाक्षेत्राणि पश्चिमबङ्गप्रदेशे, हिमाचलप्रदेशे त्रीणि, उत्तराखण्डे द्वे, बिहार- तमिलनाडु- मध्यप्रदेश- पञ्जाबप्रदेशे च एकैकं निर्वाचनक्षेत्राणि सन्ति।
- आतङ्कवादीनाम् आक्रमणस्य विषये राष्ट्रपतिः द्रौपदी मुर्मूः उपराष्ट्रपतिः जगदीपधनखड़: च शोकं प्रकटितवन्तौ
हिमाचलवार्ता:
- हिमाचलप्रदेशस्य बिलासपुरजनपदस्य भाजपादलस्य राष्ट्रीयाध्यक्षः जगतप्रकाशनड्डा इत्यस्मै मोदीसर्वकारे स्वास्थ्यमन्त्रालयस्य दायित्वं दत्तम् अस्ति। जेपीनड्डा इत्यनेन पूर्वं २०१४ तः २०१९ पर्यन्तं केन्द्रीयस्वास्थ्यमन्त्रीरूपेण कार्यं कृतम् अस्ति ।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः पत्रकारैः सह अनौपचारिकवार्तालापस्य समये अवदत् यत् राज्यसर्वकारः दिल्लीसर्वकारेण सह कृतेन वचनेन दिल्लीप्रान्ताय जलं प्रदातुं प्रतिबद्धः अस्ति। त्रिषु विधानसभाक्षेत्रेषु भवितुं शक्नुवन्तः उपनिर्वाचनानां विषये सः अवदत् यत् एतेषु क्षेत्रेषु मतदातृभिः स्वतन्त्रविधायकाः निर्वाचिताः ये विधानसभायां विविधविषयेषु राज्यसर्वकारस्य वा विपक्षस्य वा समर्थनं कर्तुं शक्नुवन्ति स्म। तदपि ते सदस्यतायाः त्यागपत्रस्य निर्णयं केन आधारेण कृतवन्त: इति जनसामान्यस्य समक्षं स्थापयितव्यम्।
- राज्यकाङ्ग्रेस-अध्यक्षा प्रतिभासिंह प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वेन देशे नवसङ्घटितस्य एनडीए-सर्वकारस्य अभिनन्दनं कुर्वन्ती आशां प्रकटितवती यत् सर्वकार: राज्यस्य काङ्ग्रेस-सर्वकाराय विना किमपि भेदभावं पूर्णं समर्थनं दास्यति इति। सा उक्तवती यत् लोकतन्त्रे निर्वाचितस्य कस्यापि सर्वकारस्य जनमतस्य प्रमुखः भागः भवति, तस्य पूर्णतया आदरं करणीयम्।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे हिमाचलपथपरिवहननिगमस्य (एचआरटीसी) सभायाः अध्यक्षतां कुर्वन् राज्यस्य जनानां कृते परिवहनसुविधां प्रदातुं निगमस्य सर्वाधिकमहत्त्वपूर्णां भूमिकां निर्वहति इति अवदत्। निगमस्य संचालनाय राज्यसर्वकारः सर्वसम्भवं समर्थनं करिष्यति इति आश्वासनं दत्तवान्। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् यात्रिकाणां सुविधायै निगमः २५ नवीनानि वोल्वो- बसयानानि, ५० टेम्पो-ट्रैवलरयानानि च क्रेष्यन्ते।