“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः
(हिमसंस्कृतवार्ताः – दिलीप: (नादौनम्)
नवीनसर्वकारे पोर्टफोलियोवितरणस्य कारणात् प्रथमं विपण्यां समेकनं दृष्टम् । प्रारम्भिकव्यापारे उच्चाभिलेखमधिगत्य सेन्सेक्सः निफ्टी च उपरितः स्खलित्वा स्थगितौ अभवताम् । मिडकैप् सूचकाङ्कस्य सम-समापनं दृष्टम् । यत्र सेन्सेक्स: २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः । निफ्टी च ३१ अंकैः पतित्वा २३,२५९ अंकैः समागत्य समाप्तः अभवत् ।
रुप्यक: १४ पैसा: दुर्बलतरं जातम्
सोमवासरे भारतीय मुद्रा रूप्यक: दुर्बलतां प्राप्य १४ पैसा: न्यूनं जातम्। रुप्यकाः १४ पैसे दुर्बलाः भूत्वा ८३.५१/$ इति मूल्ये समाप्ताः अभवनत् ।
सुवर्ण रजतौ
यदि भवन्त: सुवर्णे निवेशं कर्तुं चिन्तयति अथवा स्वस्य कृते सुवर्णस्य आभूषणं क्रेतुं इच्छन्ति तर्हि अत्र क्रयणपूर्वं आवश्यका: सर्वा: महत्त्वपूर्णा: सूचना: प्राप्तुं शक्नुवन्ति।
सोमवासरे देशे २४ कैरेट्, २२ कैरेट् सुवर्णस्य नवीनतममूल्यानि पश्यन् वयं अनुभवं कर्तुमिच्छन्ति यत् महार्घता कारणात् स्वर्ण क्रयणं कठिनं अस्ति ।
सोमवासरे आदेशे २४ कैरेट् इत्यस्य सुवर्णस्य मूल्य: ७१,१८० रुप्यकाणि, तथा च २२ कैरेट् इत्यस्य ६५,२०० रूप्यकाणि च आसीत् ।
“Sensex” उच्चतमं अभिलेखं स्पर्शं कृत्वा सेन्सेक्सः २०३ अंकैः पतित्वा ७६,४९० अंकैः समाप्तः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
1 Comment
1 Comment

महोदय ! भवान् संस्कृतस्य सत्यरूपसेवकोऽस्ति । धन्योऽस्ति श्रीमान् भवान् तु ।