By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राजनैतिकवार्ताराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/05/26 at 10:32 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • लोकसभा-निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते।भाजपादलस्य वरिष्ठो नेता प्रधानमन्त्री च नरेन्द्रमोदी रविवासरे उत्तरप्रदेशस्य मिर्जापुरे एकस्यां जनसभायाम् अवोचत् यत् देशस्य जनैः स्पष्टनीति-कारणेन तृतीयवारं भाजपादलसस्य नेतृत्वे राष्ट्रिय जनतान्त्रिक-संयुतेः प्रशासन-विरचनस्य निर्णयः स्वीकृतः।
  • रेमल चक्रवातस्य प्रभावः अद्य रात्रौ बङ्गदेशस्य खेपूपुरायाम् अथ पश्चिम बङ्गालस्य च सागरतटे दृष्टिम् आगमिष्यति।
  • गुजरातस्य राजकोटे दुरापादितस्य अग्निकांडस्य अन्वीक्षणाय विशेषान्वीक्षणदलं संघटितम्। गुजरातोच्च न्यायालये भविष्यति वादश्रवणम्।
  • राजधान्यां नव-दिल्ल्यां विवेक-विहार-क्षेत्रे एकस्मिन् बाल-चिकित्सालये दुरापादितायां अग्नि दुर्घटनायां षड् नवजातशिशवः मृत्युमुपगताः। घटनायां राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च शोकं प्रकटितवन्तः।
  • आई पी एल् क्रिकेट्-स्पर्धा-मालिकायां निर्णायके द्वन्द्वे अद्य कोलकाता नाइट्-राइडर्स-दलं सनसाइजम्-हैदराबाद-दलेन सह क्रीडिष्यति।

हिमाचलवार्ता: 

  • हिमाचलप्रदेशस्य सिरमौरजिल्लामुख्यालयस्य नाहानस्य चम्बाप्राङ्गणे सभां सम्बोधयन् सांसदराहुलगान्धी दिल्लीमाध्यमेषु आक्षेपं कृतवान्। राहुलगान्धी उक्तवान् यत् देशस्य मीडिया मोदी, अदानी, अम्बानी च सह सहभागितारूपेण चाल्यते। मीडियायाः विश्वसनीयता नष्टा अस्ति।
  • वरिष्ठः काङ्ग्रेसनेता सांसदः च राहुलगान्धी ऊनायां निर्वाचनसभां सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी भ्रष्टाचारस्य केन्द्रबिन्दुः इति अवदत्। देशस्य सर्वे भ्रष्टाः नेतारः तस्य दलेन सम्मिलिताः सन्ति। प्रजानां मध्ये गच्छन्त्यैव एव ते उत्सर्जिताः भवन्ति । इलेक्ट्रोल् बाण्ड् योजनायां विशालः भ्रष्टाचारः अभवत्, केन्द्रसर्वकारः दानं दत्तानां नाम किमर्थं न प्रकाशयति? अस्याः योजनायाः माध्यमेन बृहत्कम्पनीभ्यः ईडी-सीबीआइ-इत्यनेन सचेतना दत्त्वा दानं गृहीतम् अस्ति ।
  • सिरमौरजनपदस्य नाहननगरे विशालां जनसभां सम्बोधयन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् भाजपा जनमताधिकारम् क्रेतुम् इच्छति। सः अवदत् यत् स्वातन्त्र्यार्थं दीर्घकालं यावत् संघर्षस्य अनन्तरं काङ्ग्रेसपक्षेण देशवासिनां कृते मतदानस्य अधिकारः दत्तः, परन्तु अधुना भाजपा मतदानस्य मूल्यं कर्तुम् इच्छति। अतः जनभावनासम्बद्धं मूल्यं कर्तृदलाय जूनमासस्य प्रथमदिनाङ्के पाठं पाठयितुं समयः आगतः।
  • आगामिषु चतुर्दिनेषु हिमाचलप्रदेशः अत्यन्तं तापस्य सम्मुखीकरणं कर्तुं प्रवृत्तः भविष्यति। अस्मिन् काले राज्ये तापतरङ्गः प्रबलः भवितुम् अर्हति। राज्यस्य समतल-मध्य-उच्च-पर्वत-क्षेत्रेषु मई-मासस्य ३१ दिनाङ्के वर्षायाः सम्भावना वर्तते। मतदानदिने जूनमासस्य प्रथमदिने राज्ये लघुवृष्टेः सम्भावना वर्तते।
  • हिमाचलप्रदेशे काङ्गड़ाजनपदस्य देहरा- उपमण्डलान्तर्गतं ढलियारायां तीक्ष्णवृत्ते निजीबसयानं दुर्घटनाग्रस्तम् अभवत्। बसयाने प्रायः ६० भक्ताः आसन्, ते चिन्तपूर्णी मातु: दर्शनं कृत्वा ज्वालाजीमन्दिरं गच्छन्ति स्म। भक्ताः मध्यप्रदेशस्य मन्दसौरमण्डलस्य निवासिनः सन्ति।

You Might Also Like

इस्लामाबादनगरे ईरान-अमरीकादेशयोः मध्ये प्रचलतः युद्धविराम-वार्तायाः प्रथमः चरणः समाप्तः

मथुरा-ः लुधियाना-नगरस्य नव पर्यटकानां मृत्युः, स्टीमर-नौकायाः विपर्ययेन अभवत् भीषणं दुर्घटनम्

मतदानं संवैधानिकः अधिकारः, मतदाता-सूच्याः ‘फ्रीजिंग’ विरुद्धं याचिकायाः श्रवणं १३ दिनाङ्के

उत्तरप्रदेशस्य ‘SIR’ अन्तिम-सूच्यां 2.04 कोटि-नामानि निरस्तानि,

निर्वाचनम् 2026: त्रिषु राज्येषु मतदानस्य कीर्तिमानम्, असमस्य इतिहासे प्रथमवारं 85.38 प्रतिशतं मतदानम्

TAGGED: election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, National News, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, लोकसभा चुनाव, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Lok Sabha Election : चीनदेशः भारतस्य सीम्नि अधिग्रहणं करोति, गृहाणि निर्मीयन्ते, मोदी मौनम् उपविष्टः अस्ति – मल्लिकार्जुनखड़गे 
Next Article National News : लोक-निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते , राजधान्यां नव-देहल्या़ विवेक-विहारे बाल-चिकित्सालये अग्निदुर्घटना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?