By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : लोक-निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते , राजधान्यां नव-देहल्या़ विवेक-विहारे बाल-चिकित्सालये अग्निदुर्घटना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : लोक-निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते , राजधान्यां नव-देहल्या़ विवेक-विहारे बाल-चिकित्सालये अग्निदुर्घटना
राष्ट्रीयवार्ताः

National News : लोक-निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते , राजधान्यां नव-देहल्या़ विवेक-विहारे बाल-चिकित्सालये अग्निदुर्घटना

डॉ मनोज शैल
Last updated: 2024/05/26 at 10:57 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National News : लोकसभानिर्वाचनम् – लोकसभा-निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते

लोकसभा-निर्वाचनस्य सप्तम चरणाय प्रचाराभियानं सजवं विधीयते। भाजपादलस्य वरिष्ठो नेता प्रधानमन्त्री च नरेन्द्रमोदी रविवासरे उत्तरप्रदेशस्य मिर्जापुरे एकस्यां जनसभायाम् अवोचत् यत् देशस्य जनैः स्पष्टनीति-कारणेन तृतीयवारं भाजपादलसस्य नेतृत्वे राष्ट्रिय जनतान्त्रिक-संयुतेः प्रशासन-विरचनस्य निर्णयः स्वीकृतः। प्रधानमन्त्रिणा उक्तं यत् इण्डि-संयुतेः विपक्षिणः प्रधानमन्त्रिपदम् उपहासास्पदं विधातुं प्रयतन्ते। अपि च भाजपाध्यक्षः जे.पी नड्डा जहानाबाद-क्षेत्रे जनसभायाम् अवोचत् यत् राष्ट्रिय- जनतान्त्रिक-संयुतिः लोकसभानिर्वाचने प्रबल-बहुमतं प्राप्स्यसि। अपरत्र कांग्रेसनेता राहुलगाँन्धी हिमाचलप्रदेशस्य सिरमौर जनपदे एकां जनसभां समबोधयन् अवोचत् यत् प्रथमोयं अवसरः यदा कांग्रेस- दलं संविधान-रक्षायै निर्वाचने प्रयत्नं विदधाति ।

राजधान्यां नव-देहल्या़ विवेक-विहारे बाल-चिकित्सालये दुरापादितायां अग्नि दुर्घटनायां षड् नवजातशिशवः मृत्युमुपगताः

राजधान्यां नवदेहल्यां विवेक-विहारे एकस्मिन् बाल-चिकित्सालये दुरापादिते अग्निकाण्डे षड्-नवजात शिशवः मृत्युमुपगताः। नैके च व्रणिताः। अस्मिन् अग्निकाण्डे द्वादश शिशवः सुरक्षिताः।

अग्निकाण्डस्य कारणानि अधुना अपि न ज्ञातानि। घटनायाः सूचना गत रात्रौ सार्ध एकादशवादने अग्निशमनविभागेन दूरभाषमाध्यमेन प्राप्ता। राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च घटनामालक्ष्य गभीर-शोकं

प्रकटितवन्तः। अपरत्र गुजरातस्य राजकोटे दुरापादिते अग्निकाण्डे मृतकानां संख्या समेध्य सप्तविंशतिः संजाता। घटनायाः अन्वीक्षणाय विशेष अन्वीक्षणदलं संघटितम्। अस्मिन् विषये सोमवासरे गुजरात-उच्चन्यायालये वादश्रवणं भविष्यति। अत्रान्तरे प्रधानमन्त्री नरेंद्र मोदी अद्य दिल्ली गुजरातयोः

अग्निघटनयोः मृतकानां परिजनेभ्यः साहाय्यम् उदघोषयत्। प्रधानमन्त्रि कार्यालयेन एकस्मिन् सामाजिक-सञ्चार-पटले प्रोदीरितं यत् प्रधानमन्त्रि राष्ट्रिय-सहाय्यकोषात् द्वि-लक्ष रूप्यकाणाम् अनुग्रह

राशिः प्रदास्यते। सममेव व्रणितेभ्यः पञ्चाशत् सहस्र रूप्यकाणि प्रदास्यन्ते।

रेमल चक्रवातस्य प्रभावः रात्रौ बङ्गदेशस्य खेपूपुरायाम् अथ पश्चिम बङ्गालस्य च सागरतटे दृष्टिम् आगच्छत् 

पश्चिम बंगाल-प्रशासनेन रेमल चक्रवातं सम्मुखीकर्तुं सर्वविधोपायाः विहिताः सन्ति। रेमल चक्रवातः सम्प्रति प्रबल चक्रवात रूपेण परिवर्तितः। अस्य प्रभावः रविवासरे रात्रौ बङ्गदेशस्य खेपूपुरायाम् अथ पश्चिम बङ्गालस्य च सागरतटे दृष्टिम् आगमिष्यति। अरब-भाषायाः रेमल इति शब्दस्य अर्थः बालुका वर्तते। अयं हि प्रथमः चक्रवातः अस्ति यत् प्रावृट् कालात् पूर्वं बङ्गाल-खात्याम् आगमिष्यति। भारतीय ऋतु विज्ञानविभागेन पश्चिम बङ्गालस्य तटवर्ति-जनपदेषु ओडिशियां उत्तरभागे अद्य श्वः च प्रवल वृष्टेः सम्भावना प्रकटिता अस्ति। सममेव असमे मेघालये च वृष्ट्या सह मणिपुरे नगालंडे अरूणाचल प्रदेशे त्रिपुरायां च प्रबल वृष्टिः अनुमानिता। अत्रान्तरे कोलकाता-विमान-पत्तन प्राधिकरणेन अद्य मध्याह्नात् एकविंशतिः होरावधये कोलकाता-विमान-पत्तने विमान सञ्चालनं स्थगितम्।

प्रशासनेन अन्ताराष्ट्रियं छद्मव्यवहारं निवारयितुं दूरसञ्चार-सेवाप्रदातृभ्यः निर्देशाः प्रदत्ताः

प्रशासनेन दूरभाषमाध्येन अन्ताराष्ट्रियं छद्मव्यवहारं निवारयितुं दूरसञ्चार-सेवाप्रदातृभ्यः निर्देशाः प्रदत्ताः। सञ्चार-मन्त्रालयेन प्रोक्तं यत् छलिनः भारतीयनागरिकान् वञ्चितुम् अन्ताराष्ट्रिय-दूरभाष-सङ्ख्यानां प्रयोगं कुर्वन्ति। अनेन माध्यमेन ते अन्तर्जालीयापराधघटनाः, वित्तीयापराधान् च कुर्वन्ति। एताषां घटनानां निवारणाय दूरसंचार विभागेन दूरभाष उपभोक्तृभ्यः एका प्रणाली विनिर्मितास्ति।दूरभाष उपभोक्तृणां दूरभाषेषु एतादृशं अन्ताराष्ट्रिय-छद्म-दूरसञ्चारं निवारयितुं दूरसञ्चार सेवा-समवायेभ्यः निर्देशाः प्रदत्ताः।

हजयात्रा – भारतीयहजयात्रिणः रविवासरे हज यात्रायै जेद्दाह-विमानपत्तनं प्राप्ताः

भारतीयहजयात्रिणः अद्य हज यात्रायै जेद्दाह-विमानपत्तनं प्राप्ताः। अयं प्रथमः अवसरः यदा इमे हजयात्रिणः बस यानस्य स्थाने रेल यानेन मक्का क्षेत्रं प्रस्थिताः। जद्दाह स्थले भारतस्य महावाणिज्य- दूतावासेन सऊदी अरबस्य सम्बद्ध अधिकारिभिः सह भारतीय हजयात्रिभ्यः अयं सौविध्यं सुलभायितम्। अनुमानम् अस्ति यत् अस्मिन् वर्षे द्वात्रिंशत् सहस्र-भारतीयहजयात्रिणः विशेष सेवायाः करिष्यन्ति।

पायल-कपाडिया कॉस चलचित्र- महोत्सवे ग्रैंड पिक्स इत्याख्यः पुरस्कारः प्राप्त:

चलचित्र निर्देशिका पायल कपाडिया ऐतिह्यं विरच्य प्रथमा भारतीय संवृत्ता यया कॉस चलचित्र- महोत्सवे ग्रैंड पिक्स इत्याख्यः पुरस्कारः विजितः। गुरुवासरे रात्रौ प्रदार्शितेन चलचित्रेण द्वितीये क्रमे अयं पुरस्कारः प्राप्तः। अवधेयं यत् त्रिंशत् वर्षेषु अयं प्रथमः अवसरः यदा कस्यापि भारतीय महिला-चलचित्र- निर्देशिकायाः चलचित्रम् अस्मिन् महोत्सवे प्रदर्शितम्। एतत् चलचित्रं प्रभा नामन्या परिचारिकायाः जीवन-सम्बद्धं वर्तते। अस्मिन् एव चलचित्र महोत्सवे अभिनेत्री अनसूया सेनगुप्ता उत्तम अभिनयाय पुरस्कार-विजेत्री प्रथमा भारतीया संवृत्ता। तया अयं पुरस्कारः द शेमलेस इत्यस्मिन् चलचित्रे अनसर्टेन रिगार्ड श्रेण्यां प्राप्तः।

विश्व पैरा एथलेटिक्स चैंपियनशिप-स्पर्धामालिकायां सिमरन शर्मा  स्वर्णपदकं विजितवती

भारतस्य सिमरन शर्मा जापानसिय कोबे नगरे अनुवर्तमानायां विश्व पैरा एथलेटिक्स चैंपियनशिप स्पर्धामालिकायां स्वर्णपदकं विजितवती। सिमरनेन ह्यः महिलानां द्विशत-मीटर-टी 12 इति स्पर्धायां 24.95 पल-समये स्वीय सर्वश्रेष्ठ-प्रदर्शनेन स्वर्ण पदकं विजितम्। भारतेन विश्व पैरा एथलेटिक्स चैंपियनशिप-स्पर्धायां षड् स्वर्ण पदकानि समेत्य सप्तदश-पदकानि विजितानि। अङ्क-तालिकायां भारतं षष्ठे क्रमे विद्यते।

आई पी एल

आई पी एल् क्रिकेट्-स्पर्धा-मालिकायां निर्णायके द्वन्द्वे  कोलकाता नाइट्-राइडर्स-दलं सनसाइजर्स हैदराबाद-दलेन सह क्रीडिष्यति। एषा निर्णायक-स्पर्धा चेन्नई-नगरस्थे एम ए चिन्ना-स्वामी क्रीडाङ्गणे भविष्यति। भारतीय समयानुसारेण स्पर्धा सायं सार्ध सप्तवादनात् आरप्स्यते।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: delhi, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, अन्तर्राष्ट्रीय समाचार, दिल्ली समाचार, राष्ट्रीय समाचार, लोकसभा चुनाव, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HP Election : ‘भाजपा मताधिकारम् क्रेतुम् इच्छति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः’
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?