HP School Timings : हिमाचले विद्यालयानां समयः परिवर्तितः, अधुना अस्मिन् समये विद्यालयाः उद्घाटिताः भविष्यन्ति
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
भीष्मतापेन सम्पूर्णं उत्तरभारतं तप्तं जातम्। हिमाचलम् अपि अनेन अस्पृष्टं नास्ति, यस्मात् कारणात् हिमाचलस्य विद्यालयानां समयः परिवर्तितः अस्ति । काङ्गड़ामण्डलस्य सर्वे विद्यालया: अधुना प्रातः सार्धसप्तवादने उद्घाटिता: भविष्यन्ति, अपराह्ने एकवादने तु पिहिता: भविष्यन्ति। अस्मिन् विषये उपायुक्तेन काङ्गराद्वारा आदेशाः निर्गताः सन्ति। तथैव बिलासपुरे अपि अधुना प्रातः अष्टवादने विद्यालयाः उद्घाटिताः भविष्यन्ति, अपराह्णे द्विवादने तु निरुद्धा भविष्यन्ति।
उपायुक्त: बिलासपुरम् आबिदहुसैन: सादिक: अस्मिन् सन्दर्भे अधिसूचना प्रसारितवान् । विद्यालयानां एषः समयः मे २१ दिनाङ्कात् आरभ्य प्रवर्तते। डीएवी विद्यालय बिलासपुरे तृतीयतः १२ पर्यन्तं कक्षाः प्रातः ८ वादने भविष्यन्ति, नर्सरीतः द्वितीयपर्यन्तं कक्षा प्रातः ९ वादने भविष्यति। नर्सरीतः चतुर्थकक्षापर्यन्तं बालकाः अपराह्णे १२.३० वादने विसर्जिताः भविष्यन्ति, पञ्चमश्रेणीतः द्वादशीपर्यन्तं बालकाः अपराह्ने १:३० वादने विसर्जिताः भविष्यन्ति। अवधेयं वर्तते यत् ऋतुविज्ञानविभागेन आगामिषु ४ तः ५ दिवसेषु काङ्गड़ा, बिलासपुरम्, ऊना, हमीरपुरम्, सोलनम्, सिरमौर:, शिमला इत्यादिषु विभिन्नेषु स्थानेषु तापतरङ्गस्य सचेताना प्रसारितवान् अस्ति।