By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP High Court : शिमलानगरस्य सर्वाणि गृहाणि अवकरसंग्रहणयोजनायां समावेशयेत् नगरनिगम:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP High Court : शिमलानगरस्य सर्वाणि गृहाणि अवकरसंग्रहणयोजनायां समावेशयेत् नगरनिगम:
हिमाचलवार्ता

HP High Court : शिमलानगरस्य सर्वाणि गृहाणि अवकरसंग्रहणयोजनायां समावेशयेत् नगरनिगम:

डॉ मनोज शैल
Last updated: 2024/05/16 at 10:59 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP High Court : शिमलानगरस्य सर्वाणि गृहाणि अवकरसंग्रहणयोजनायां समावेशयेत् नगरनिगम:

हिमसंस्कृतवार्ता- शिमला। 

राज्यं स्वच्छं कर्तुं पर्यावरणस्य  दृढ़ावकरस्य अपशिष्टस्य विषये हिमाचलप्रदेशस्य उच्चन्यायालयेन ऐतिहासिकः निर्णयः दत्तः। न्यायालयः वर्तमानपर्यावरण-विधानानां संशोधनस्य आग्रहं कृतवान्। येषु दृढ़- अपशिष्टप्रबन्धननियमाः २०१६ तथा प्लास्टिक- अपशिष्टप्रबन्धननियमाः २०१६ सन्ति। शिमलानगरं आदर्शनगरं कर्तुं सर्वाणि गृहाणि अवकर- संग्रहणयोजनायां समावेशयितुं न्यायालयेन निर्देशः दत्तः। येषु विद्युत्-जल-सम्बन्धः अस्ति, परन्तु अवकर-परिचयः नास्ति। अस्मिन् झुग्गी-वस्ती-आदीनि अनौपचारिक- कुटीराणि अपि अन्तर्भवन्ति। एतादृशेषु सर्वेषु निवासस्थानेषु अग्रिमश्रवणात् पूर्वं अवकर-परिचयम् (Garbage ID) अवश्यं प्राप्तव्यम्। सुलेमान बनाम राज्यसर्वकारस्य प्रकरणे न्यायाधीशस्य तरलोकसिंह चौहानस्य न्यायाधीशस्य सुशीलकुकरेजायाश्च संभागपीठेन एतत् निर्णयं दत्तम्।

न्यायालयेन शिमलानगरनिगमाय निर्देशः दत्तः यत् उष्णस्थानेषु प्राकृतिकजलनिकायेषु च अवकर-पातस्य चयनितस्थानेषु चिह्नफलकानि स्थापयन्तु। नगरनिगमं उल्लङ्घकानां उपरि दण्डं दातुं ग्रामीणविकासविभागेन सह व्यवस्थितरूपेण कचरासंग्रहणाय सहकार्यं कर्तुं निर्देशः दत्तः अस्ति। न्यायालयेन स्पष्टीकृतं यत् पार्षदानां प्रशिक्षणं नगरनिगमशिमलातः आरभ्यत, यत् पश्चात् राज्यस्य अन्येषु नगरेषु पुरेषु च दास्यति। न्यायालयेन राज्यसर्वकाराय दृढ़-अपशिष्टस्य निक्षेपणार्थं आवश्यकभूमिः प्रदातुं निर्देशः दत्तः। न्यायालयेन उक्तं यत् राज्यसर्वकारेण अग्रिमे श्रवणे न्यायालये स्वप्रतिवेदनं प्रस्तुतं कर्तव्यम्। न्यायालयेन अन्तर्रोधक्षेत्रं (बफर जोन) निर्मातुं अपि आदेशः दत्तः।

उपायुक्तेभ्यः, दण्डाधिकारिभ्यः च १५ दिवसेषु कार्याणि निरीक्षणं कर्तुं निर्देशाः

उपायुक्तेभ्यः दण्डाधिकारिभ्यः च प्रत्येकं १५ दिवसेषु दृढ़- अपशिष्टप्रबन्धनक्रियाकलापस्य निरीक्षणं कर्तुं निर्देशाः प्रदत्ता: सन्ति। न्यायालयेन मुख्यतया ईपीआर- विनियमानाम् दृढ़पालनं करणीयम् इति आह्वानं कृतम्। न्यायालयेन सर्वाभ्यः संस्थाभ्यः एकमासस्य अन्तः ईपीआर-पञ्जीकरणार्थं आवेदनं कर्तुं निर्देशः दत्तः अस्ति। एतस्य सुगमाय हिमाचलराज्यप्रदूषणनियन्त्रणमण्डलं कथितम् अस्ति।

प्लास्टिकफलक-नियमं निर्मातुं मुख्यसचिवाय दत्ताः निर्देशाः

हिमाचलप्रदेश उच्चन्यायालयेन मुख्यसचिवं प्लास्टिकस्य प्रचारफलकानां प्रतिबन्धार्थं नियमान् निर्मातुं निर्देशः दत्तः। न्यायालयेन प्लास्टिकफलकै: पर्यावरणस्य संकटान् स्वीकृत्य एषः आदेशः पारितः। न्यायालयः फ्लेक्स-बैनरस्य इत्येतेषां स्थूलता, अवधिः, प्राधिकरणस्य सम्बन्धे च नियमं कर्तुं कथितम्‌।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: High court, him sanskrit varta, HIM SASNSKRIT VARTA, Himsanskritnews, HP High Court, HP NEWS, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल उच्च न्यायालय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Election Commission of India : भारत- निर्वाचनायोगस्य पर्यवेक्षकेण लोकसभानिर्वाचदृष्ट्या कृता गोष्ठी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?