Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी पूर्वराज्यपाल: डा.कमला बेनीवालस्य निधनस्योपरि खेदं प्रकटितवान्। सामाजिकसंचारपटले मोदीमहोदयः उक्तवान् यत् सा राजस्थानस्य राजनीतौ महत्त्वपूर्णं योगदानं प्रदत्तवती । प्रधानमन्त्रिणा उक्तं यत् यदा स: गुजरातस्य मुख्यमन्त्री आसीत् तदा सा बेनिवालमहोदयया सह अनेकवारं सम्भाषितवान्।
- देशस्य बृहत्तमा कौशलप्रतियोगिता – The-India-Skills-2024 नूतनदिल्लीनगरे आरब्धा। आगामिचतुर्दिनानां कृते अस्मिन् स्पर्धायां त्रिंशत् राज्यानां संघप्रदेशानां च नवशताधिकाः छात्राः पारम्परिकहस्तशिल्पाद् आरभ्य नूतनप्रौद्योगिक्याः यावत् ६१ विविधक्षेत्रेषु स्वकौशलं प्रदर्शयिष्यन्ति।
- राज्यं स्वच्छं कर्तुं पर्यावरणस्य दृढ़ावकरस्य अपशिष्टस्य विषये हिमाचलप्रदेशस्य उच्चन्यायालयेन ऐतिहासिकः निर्णयः दत्तः। न्यायालयः वर्तमानपर्यावरण-विधानानां संशोधनस्य आग्रहं कृतवान्। येषु दृढ़- अपशिष्टप्रबन्धननियमाः २०१६ तथा प्लास्टिक- अपशिष्टप्रबन्धननियमाः २०१६ सन्ति। शिमलानगरं आदर्शनगरं कर्तुं सर्वाणि गृहाणि अवकर- संग्रहणयोजनायां समावेशयितुं न्यायालयेन निर्देशः दत्तः।
हिमाचलवार्ता:
- लोकसभा- सामान्यनिर्वाचनम् 2024 इत्यभिलक्ष्य संसदीयनिर्वाचनक्षेत्रम् 2-मण्डी इत्यस्तान्तर्गत षट्जनपदानां सप्तदशधानसभानिर्वाचनक्षेत्रेभ्य: भारतस्य निर्वाचनायोगेन नियुक्त: पर्यवेक्षक: भारतीयप्रशासनिकसेवाया: अधिकारी विनीत नंदनवार: बुधवासरे लोकसभानिर्वाचनहेतवे नियुक्तेभ्य: नोडलाधिकारिभ्य: उपायुक्तकार्यालये निर्वाचनसम्बद्धानां विविधव्यवस्थानां विषये सूचनां गृहीत्वा तेभ्यः आवश्यकान् निर्देशान् अवदत्।
- हिमाचले लोकसभा-विधानसभा उपनिर्वाचनयोः स्पर्धा अधिका रोमाञ्चकारी अभवत्। अनुक्रमाङ्कनप्रक्रियायां १९ अभ्यर्थिनः स्पर्धात: बहिः कृताः। ये स्पर्धां त्यक्तवन्तः तेषु भाजपा-काङ्ग्रेस-दलयोः अभ्यर्थिनः अपि सन्ति। परन्तु एतेषु अधिकांशः अभ्यर्थिनः समुपयोगी अभ्यर्थिनः इति नामाङ्कनं कृतवन्तः आसन्। बुधवासरे क्रमाङ्कनप्रक्रियायां तेषां नामाङ्कने दोषाः ज्ञाताः इति कारणेन तेषां नामाङ्कनं निरस्तीकृतम्। लोकसभानिर्वाचने अधिकतमं ११ नामाङ्कनानि निरस्तानि सन्ति। यत्र विधानसभा उपनिर्वाचने कृतानि अष्टनामाङ्कनानि निरस्तीकृतानि सन्ति।नामाङ्कननिवृत्तेः अनन्तरं निर्दलीयप्रत्याशिभ्य: निर्वाचनचिह्नानि प्रदास्यन्ते
- हिमाचलप्रदेशस्य उपमुख्यमन्त्री मुकेशअग्नीहोत्री गान्धीपरिवारस्य पारम्परिकक्षेत्रं रायबरेलीं प्राप्य काङ्ग्रेसपक्षस्य पूर्वराष्ट्रीयाध्यक्षस्य, काङ्ग्रेसस्य स्टार-अभियानकर्तु:, रायबरेली-आसनतः काङ्ग्रेस-प्रत्याशी राहुलगान्धी इत्यस्य समर्थने प्रचारं कृतवान् रायबरेलीं प्राप्ते काङ्ग्रेस-कार्यकर्तृभिः उपमुख्यमन्त्री मुकेश-अग्निहोत्री-महोदयस्य हार्दिकं स्वागतं कृतम् ।
- धर्मशालात: भाजपा प्रत्याशी सुधीरशर्मा उक्तवान् यत् अस्मिन् समये अस्माकं संघर्ष: कस्यापि काङ्ग्रेसस्य प्रत्याशिन: विरुद्धं न, अपितु धर्मशालायाः विकासं स्थगयित्रे मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना विरुद्धम् अस्ति। धर्मशालाजनाः सर्वं जानन्ति, तस्य परिणामः शीघ्रमेव सर्वेभ्यः प्रकाशितः भविष्यति।
- हिमाचलप्रदेशे वार्षिकगोपनीयप्रतिवेदनस्य (एसीआर) प्रक्रिया, यस्याः नाम अधुना वार्षिकप्रदर्शनमूल्यांकनप्रतिवेदनं अथवा एपीएआर इति, सर्वकारीयाधिकारिभ्यः कर्मचारिभ्यः च परिवर्तयितुं प्रवृत्ता अस्ति। कार्मिकविभागेन एतत् लक्ष्यं स्वस्य स्तरस्य आधारेण स्थापितम् अस्ति। अन्तिमं प्रारूपं मुख्यमन्त्रीं प्रति अनुमोदनार्थं प्रेषितम् अस्ति। सम्भवति यत् निर्वाचनानन्तरं मन्त्रिमण्डलस्य अनुमोदनं तस्मिन् स्थापितं भवेत्।