Lok Sabha Election 2024 : भाजपादलस्य राष्ट्रीयाध्यक्ष: जगतप्रकाशनड्डा मई ८ दिनाङ्के मण्डीम् आगमिष्यति – राकेश: जमवाल:
हिमसंस्कृतवार्ता- मण्डी। भाजपादलस्य राष्ट्रीयाध्यक्ष: जगतप्रकाशनड्डा मई ८ दिनाङ्के मंडीम् आगमिष्यति । अस्मिन् काले सः नाचनविधानसभायाः सेगलीस्थाने विशालां जनसभां सम्बोधयिष्यति। अस्य विषये सूचनां दत्त्वा भाजपादलस्य प्रदेशप्रवक्ता सुन्दरनगरस्य विधायकः राकेशजम्मवालः अवदत् यत् निर्वाचनदृष्ट्या भाजपादलस्य राष्ट्रियाध्यक्षस्य जगतप्रकाशनड्डावर्यस्य मण्डी संसदीयक्षेत्रस्य एषा प्रथमा यात्रा अस्ति। बिलासपुरे पन्नाप्रमुखसम्मेलनं सम्बोधयित्वा मण्डीजनपदस्य नाचनसभायां सेगलीस्थाने विशालां जनसभां सम्बोधयिष्यन्ति।
राकेश: जमवालः अवदत् यत् राष्ट्रियाध्यक्षस्य भ्रमणस्य विषये उत्साहः वर्तते, अस्य भ्रमणस्य अनन्तरं भाजपा कार्यकर्तारः अधिकतया उत्साहेन स्वस्व-मतदानकेन्द्रेषु कार्यं करिष्यन्ति। भाजपादलेन हिमाचलस्य चतुर्ण्णां लोकसभासनानां विजयस्य लक्ष्यं निर्धारितं कृत्वा ४ मध्ये ४ इति घोष: दत्त: अस्ति। एतत् लक्ष्यं प्राप्तुं कार्यकर्तार: स्वस्य मतदानकेन्द्रे परिश्रमं करिष्यति। राष्ट्रीयाध्यक्षस्य एतस्य भ्रमणस्य अनन्तरं भाजपा कार्यकर्तृषु ऊर्जायाः संचार: भविष्यति। सः अवदत् यत् अद्य विश्वस्य बृहत्तमस्य दलस्य अध्यक्षः हिमाचलप्रदेशस्य अस्ति इति हिमाचलस्य कृते गौरवस्य विषयः अस्ति।
सः अवदत् यत् भाजपा-मोदी-सर्वकारेण समाजस्य सर्वेषां वर्गानां हिताय अनेका: जनकल्याण-योजना: आरब्धा:, येषां लाभेन अद्यत्वे निर्धनानाम् अपि लाभः अभवत्। एतत् कारणं यत् अद्यत्वे युवावस्थाः, वृद्धाः, महिलाः च सहिताः सर्वे वर्गाः केन्द्रे मोदीसर्वकारेण प्रसन्नाः सन्ति। मण्डी-पुत्रीं मण्डी-संसदीय-क्षेत्रात् लोकसभा-प्रत्याशी कृता अस्ति । निश्चितरूपेण मोदी तृतीयवारं देशस्य प्रधानमन्त्री भविष्यति।