ब्राजीलस्य दक्षिणे रियो ग्राण्डे दो सुल् राज्ये अत्यधिकवृष्ट्या ३७ जनाः मृताः
ब्राजीलस्य दक्षिणे रियो ग्राण्डे दो सुल् राज्ये अत्यधिकवृष्ट्या ३७ जनाः मृताः, ७४ जनाः अदृश्याः सन्ति । अद्यपर्यन्तं विनाशात्मकेन जलप्लावनेन नगराणि विध्वंसितानि सन्ति। विगत ८० वर्षेषु अत्यन्तं विनाशकात्मकेन जलप्रलयेन २३ सहस्राधिकाः जनाः स्वगृहं त्यक्तुं प्रवृत्ताः सन्ति । गतवर्षे जुलै, सेप्टेम्बर्, नवम्बरमासेषु यत् जलप्लावनम् अभवत् तस्मिन् आहत्य ७५ जनाः मृताः ।
वर्तमानजलप्रलयः एकवर्षे चतुर्थः एतादृशी प्राकृतिकापदा अस्ति । विगत १५० वर्षाणाम् अभिलेखानुसारं केषुचित् नगरेषु जलस्तरः सर्वोच्चस्तरं प्राप्तवान् । गुरुवासरे बेन्टो गोन्काल्वेस्-कोटिपोरा-योः मध्ये स्थितस्य जलविद्युत्संस्थानस्य जलबन्धः आंशिकरूपेण पतितः ।
ब्राजीलस्य दक्षिणे रियो ग्राण्डे दो सुल् राज्ये अत्यधिकवृष्ट्या ३७ जनाः मृताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
