समलैङ्गिकसम्बन्धम् अपराधं भविष्यति- इराकसंसद:
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर:।
इराकस्य संसदि समलैङ्गिकसम्बन्धम् अपराधं स्वीकृत्य विधेयकं प्रस्तावितम्। अस्य विधेयकस्य उल्लङ्घनेन ७ वर्षाणां कारावासस्य अनिवार्यदण्डः भविष्यति, यत् १५ वर्षाणि यावत् वर्धयितुं शक्यते। नूतने विधेयके लैङ्गिकपरिवर्तनार्थं १ तः ३ वर्षपर्यन्तं कारावासस्य अपि प्रावधानम् वर्तते।
अधिकारिणां मते इराकीसमाजस्य धार्मिकनैतिकमूल्यानां संरक्षणार्थं सर्वकारेण एतत् विधेयकं स्वीकृतम्। अवधेयं वर्त्तते यत् १३० देशेषु समलैङ्गिकसम्बन्धः वैधानिकः अस्ति, ६० देशेषु च अपराधः मन्यते।
समलैङ्गिकसम्बन्धम् अपराधं भविष्यति- इराकसंसद:
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment