By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: “विश्वस्मिन् विश्वे संस्कृतस्य प्रभाव:” इति विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी समनुष्ठिता,
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > “विश्वस्मिन् विश्वे संस्कृतस्य प्रभाव:” इति विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी समनुष्ठिता,
संस्कृतगतिविधयःअन्ताराष्ट्रीयवार्ताः

“विश्वस्मिन् विश्वे संस्कृतस्य प्रभाव:” इति विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी समनुष्ठिता,

डॉ.अमनदीप शर्मा
Last updated: 2024/03/01 at 7:26 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

“विश्वस्मिन् विश्वे संस्कृतस्य प्रभाव:” इति विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी समनुष्ठिता,
डॉ. डेविड फ्रौली, डॉ. औष्कर पुजोलश्च जातौ सम्मानितौ।
अस्मिन् आयोजने अमेरिकाया: स्पेनस्य च वैदेशिकौ संस्कृतविद्वांसौ सम्मानितौ।
संस्कृतमनीषिभिः संस्कृतानुरागिभि: च संस्कृतवाङ्मयस्य वैश्विकप्रभावविषये विहिता: चर्चा:।
लिथुआनिया देशस्य राजदूती महामहिमशालिनी डायाना मिकेविएशन् वर्या कार्यक्रमे मुख्यातिथित्वेन उपातिष्ठत
हिमसंस्कृतवार्ताः, युवराजभट्टराई नवदिल्ली २८ फरवरी। बुधवासरे श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इति विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी विश्व विद्यालयस्यैव स्वर्णजयन्तीत्याख्ये भूतलीये सभागारे समायोजिता।सङ्गोष्ठीकार्यक्रमस्य शुभारम्भ: मातु: सरस्वत्या: वन्दनापूर्वकं वैदिक मङ्गलाचरणेन द्वीपप्रज्वलनेन च समजायत। ततः परं समेषाम् अतिथीनां स्वागतसपर्या सम्पादिता।
विदितमेव समेषां यत् प्रायशः विश्वस्य सर्वासामपि भाषाणां जननी ऋषिगणसाधिता देवगणपूता गीर्वाणवाणी एव वर्तते। अनया एव संस्कृतया वाण्या देशस्य सांस्कृतिकं चारित्रिकं च परिपोषणं विधीयते। भारतस्य सर्वमपि तत्त्वजातं संस्कृते एव निहितम् अस्ति। अस्मिन्नेव सन्दर्भे संस्कृत योगायुर्वेदादिनां संरक्षणपरा स्वस्तिवाचनम् इति संस्था देशस्य राजधान्यां दिल्ल्यां ऐषमो बुधवासरे एकाम् अन्ताराष्ट्रियां सङ्गोष्ठीम् आयोजितवती, यत्र अनेके पाश्चात्यदेशीया: संस्कृतविद्वांस: अपि सविशेषं निमन्त्रिता:। एतेषु वैदेशिकसंस्कृतजनेषु सुख्यात:, डॉ. डेविड फ्रॉली, सुख्यात: स्पेन्देशीयो मनीषी च औष्कर पुजोल: अन्यतमौ आस्ताम्। लिथुआनिया देशस्य राजदूती महामहिमशालिनी डायाना मिकेविएशन् वर्या कार्यक्रमे मुख्यातिथित्वेन उपस्थाय शोभासंवर्धनं विहितवती। ध्येयमस्ति यत् डेविडफ्रॉलीमहोदय: संस्कृत-संवर्धन-संरक्षण-क्षेत्रे योगदानार्थं भारतसर्वकारेण पद्मभूषणेन अपि अलंकृतो वर्तते। एताभ्यां विद्वद्भ्यां संस्कृतवाङ्मयस्य गहनाध्यायनपूर्वकं तेषु तेषु देशेषु संस्कृतस्य प्रसाराय महान् यत्नो विहितो वर्तते। भारतीय-संस्कृते:, संस्कृतभाषाया:, भारतीयप्राच्यसाहित्यस्य च पाश्चात्यदेशेषु व्यापकरीत्या प्रसारणे एतयोः विशेषं योगदानं निध्याय एव स्वस्तिवाचनम् इति संस्थया एतौ मनीषिणौ अभिनन्दनप्रशस्तिपत्रप्रदानेन सम्मानितौ। अस्मिन् अवसरे सम्मान-ग्रहणानन्तरं विश्वे भारतीयसंस्कृते:, संस्कृतस्य च प्रभावस्य विविधान् आयामान् आलक्ष्य, विद्वद्भिः परिचर्चा कृता। तै: प्रतिपादितम् यत् एकविंश्या: शताब्द्या: वैश्वीकरणस्य वर्तमानपरिवेशे संस्कृताध्ययनस्य आवश्यकता-विषये विस्तारपूर्वकं परिचर्चा विहिता। अन्ते च संगोष्ठ्यां अध्यक्षीयं वक्तव्यं प्रददता विश्वविद्यालयस्य कुलपतिना प्रो. मुरलीमनोहरपाठकवर्येण कार्यक्रमं प्रशंसता स्वस्तिवाचनम् इत्यस्य अयं संस्कृतसेवाप्रकल्प: भृशं श्लाघित:। व्याकरणविभागस्य वरिष्ठ: आचार्य: प्रो. जयकान्तसिंह: शर्मावर्य:, अपर: वरिष्ठ: आचार्य: प्रो. रामसलाहीद्विवेदीवर्य:, चापि नैजं संस्कृतसंस्कृतिसंरक्षणविषयकं उद्बोधनं प्रदत्तवन्तौ। कार्यक्रमस्य सफलं सञ्चालनम् महासचिव: डॉ.सुनीलजोशी सुष्ठुतया कृतवान्। कार्यक्रमस्य अन्ते प्रो. रामसलाहीद्विवेदीवर्य: सर्वेभ्यः उपस्थितेभ्य: जनेभ्य: धन्यवादज्ञापनं कृतवान्। सङ्गोष्ठ्या: व्यवस्थाज्जातं सर्वमपि स्वस्तिवाचनस्य सहसचिव: डॉ. जीवन जोशी महोदय: सम्भालितवान्।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

TAGGED: डॉ.डेविड फ्रौली, लालबहादुरशास्त्री संस्कृत विश्वविद्यालयः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article विधानसभायां राजनैतिकनाट्यस्य मध्ये ध्वनिमतेन आयव्ययकम् पारितम्, १५ भाजपाविधायकाः निलम्बिताः
Next Article हिमाचले अयोग्यतां प्राप्ताः षट् काङ्ग्रेसविधायकाः न्यायालयं गमिष्यन्ति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?