By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचले राजनैतिकनाट्यम् – यदि २५ सदस्यीयं दलम् ४३ जनानां आह्वानं करोति तर्हि आशय: स्पष्ट: हिमाचलस्य राजनैतिकसंकटस्य विषये उक्तवती प्रियङ्का गान्धी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचले राजनैतिकनाट्यम् – यदि २५ सदस्यीयं दलम् ४३ जनानां आह्वानं करोति तर्हि आशय: स्पष्ट: हिमाचलस्य राजनैतिकसंकटस्य विषये उक्तवती प्रियङ्का गान्धी
हिमाचलवार्ताराजनैतिकवार्ता

हिमाचले राजनैतिकनाट्यम् – यदि २५ सदस्यीयं दलम् ४३ जनानां आह्वानं करोति तर्हि आशय: स्पष्ट: हिमाचलस्य राजनैतिकसंकटस्य विषये उक्तवती प्रियङ्का गान्धी

डॉ मनोज शैल
Last updated: 2024/02/29 at 12:31 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचले राजनैतिकनाट्यम् – यदि २५ सदस्यीयं दलम् ४३ जनानां आह्वानं करोति तर्हि आशय: स्पष्ट: हिमाचलस्य राजनैतिकसंकटस्य विषये उक्तवती प्रियङ्का गान्धी

हिमसंस्कृतवार्ता:- शिमला। 

काङ्ग्रेसेन उक्तं यत् भारतीयजनतादलं धनशक्ते: सत्ताया: च दुरुपयोगं कृत्वा बहुमतसर्वकारस्य पतनस्य अनैतिकं असंवैधानिकं च प्रयासं कृत्वा हिमाचलप्रदेशस्य जनानाम् अधिकारान् मर्दयितुं प्रयतते। काङ्ग्रेसमहासचिवः प्रियङ्का गान्धी सामाजिक- माध्यमे एकस्मिनपटले  उल्लिखितवती यत्, “प्रजातन्त्रे सामान्यजनानां स्वरुच्या: सर्वकारस्य चयनस्य अधिकारः अस्ति। हिमाचलस्य जनाः एतस्य अधिकारस्य उपयोगेन स्पष्टबहुमतेन काङ्ग्रेससर्वकारस्य निर्माणं कृतवन्तः। परन्तु भाजपा केन्द्रस्य धनशक्तिः, संस्था-शक्तिः, केन्द्रस्य सत्ताया: च दुरुपयोगं कृत्वा हिमाचल-जनानाम् एतस्य अधिकारस्य मर्दनं कर्तुम् इच्छति। एतदर्थं भाजपा यथा सर्वकारीयसुरक्षायाः, यन्त्राणां च उपयोगं कुर्वन् अस्ति, तत् देशस्य इतिहासे अपूर्वम् अस्ति” इति ।

सा अवदत् यत्, “यदि २५ विधायकै: युक्तं दलम्  ४३ विधायकानां बहुमताय आह्वानम् ददाति तर्हि तस्य स्पष्टतया अर्थः अस्ति यत् दलं प्रतिनिधिनां अश्वव्यापारे आश्रितः अस्ति। तेषां एषा मनोवृत्तिः अनैतिकी असंवैधानिकी च अस्ति। हिमाचलस्य देशस्य च जनाः सर्वं पश्यन्ति। प्राकृतिक आपदायां भाजपा राज्यस्य जनै: सह न स्थितवती किन्तु अधुना राज्यं राजनैतिकविपदां प्रति पातयितुं इच्छति” इति।

इदानीं काङ्ग्रेससञ्चारविभागप्रभारी जयरामरमेशः अत्रत्याः दलस्य मुख्यालये पत्रकारसम्मेलने अवदत् यत्, “प्रधानमन्त्रिणं नरेन्द्रमोदिनम् अस्वीकृत्य हिमाचलजनाः काङ्ग्रेसाय स्पष्टं बहुमतं दत्तवन्तः आसन्। यदा वयं अस्माकं प्रतिज्ञां कार्यान्वितुं व्यस्ताः आसन्, तदा मोदीवर्य: स्वस्य प्रतिज्ञां पूर्णां कर्तुं व्यस्तः आसीत्। मोदीवर्यस्य प्रतिज्ञा अस्ति- काङ्ग्रेससर्वकारा: पतन्तु किन्तु जनाः काङ्ग्रेसाय यत् जनादेशं दत्तवन्तः तस्य विश्वासघातं वयं न अनुमन्यन्ते। मोदी-जेपी-नड्डावर्ययोः प्रचारं कृत्वा अपि हिमाचलप्रदेशस्य जनाः राज्ये पूर्णबहुमतेन २०२२ तमस्य वर्षस्य दिसम्बरमासे काङ्ग्रेससर्वकारस्य निर्माणं कृतवन्तः। अस्माकं सर्वकारस्य निर्माणस्य किञ्चित्कालानन्तरं राज्ये भयंकरी आपदा अभवत्। लक्षशः जनाः विस्थापिताः, प्राणहानिः सम्पत्तिः च अभवत् किन्तु केन्द्रसर्वकारः मोदीमहोदयः च किमपि साहाय्यं न अददत्। काङ्ग्रेसपक्षस्य, हिमाचलस्य मुख्यमन्त्रिणः च आग्रहाणाम् अभावे अपि एतत् राष्ट्रिय-आपदं न घोषितम्। “एतत् प्रथमवारं यत् तीव्रप्राकृतिकविपदायाः अनन्तरम् अपि राज्येन केन्द्रसर्वकारेण किमपि साहाय्यं वा आश्रयं वा न प्राप्तम्।”

सः अवदत् यत्, “अस्माकं कृते हिमाचले जनादेशस्य आधारेण राज्यसभासनं निर्धारितं किन्तु दुःखदं यत् भाजपा-अभ्यर्थीनां चयनं लॉटरी- व्यवस्थायाः आधारेण कृतम्। “अस्माकं एकं दलं सम्प्रति शिमलानगरे अस्ति यत् क्रुद्धैः काङ्ग्रेसविधायकैः सह वार्तालापं कृत्वा प्रतिवेदनं प्रस्तौति, येन वयं अस्माकं अग्रे निर्णयं कर्तुं शक्नुमः।”

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article संस्कृतशिक्षामन्त्रिणा संस्कृतनिदेशक: अकादमीसचिवश्च शिवप्रसादखालीवर्य: सेवानिवृत्ते: पूर्वदिवसे सम्मानित:
Next Article एनपीपीए- कोलेस्टेरोल्, शर्करा, वेदना, ज्वरः, संक्रमणादीनाम् औषधानां मूल्यं न्यूनं भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?