भारतेन बुभुक्षा- उन्मूलनार्थं स्थापितनिधौ दश-लक्ष-मितानां अमरीकीय-डॉलर-रूप्यकाणां योगदानं कृतम्
भारतेन ब्राजील- दक्षिण-अफ्रीकाभ्यां साकं सम्भूय स्थापिते निर्धनता- बुभुक्षा- निर्मूलन- निधौ दश- लक्ष- मितानां अमरीकीय- डॉलर- रूप्यकाणां योगदानं कृतम्। संयुक्त- राष्ट्रे भारतस्य स्थायी- प्रतिनिधिः रुचिरा- काम्बोजः संयुक्त राष्ट्रस्य कार्यालयस्य निदेशकाय दिमा- अल- खातिब इत्यस्मै एतद्धनं समार्पयत्। अमुना प्रोक्तं यत् “भारत- ब्राजील- दक्षिण अफ्रीका-निधौ” सहयोगार्थं भारतं वचनबद्धमस्ति। असौ प्रोक्तवती यत् अनेन कोषेण विकासस्य प्रसङ्गे पश्चवर्तिषु देशेषु निवसतां पारे लक्षं जनानां जीवनेषु सकारात्मकः प्रभावः जायते। अनेन हि दक्षिण-दक्षिण-सहयोगस्य भावनापि सुदृढीकृता अस्ति। काम्बोजः एतदपि प्रोदैरयत् यत् भारतस्य जी-विंशतिः अध्यक्षतायाम् आयोजिते समुपवेशने जनानां, जनैः, जनेभ्यः इति विकासे ध्यानं केन्द्रितम् आसीत्। निर्धनता- बुभुक्षा- निर्मूलनार्थ भारत- ब्राजील- दक्षिण-अफ्रीका- निधेः स्थापना चतुरधिक- द्वि-सहस्र- तमे वर्षे मार्च-मासे संयुक्त- रूपेण विहिता आसीत्। अथ चानेन कोषेण षडधिक- द्वि-सहस्र- तमे वर्षे कार्यजातम् आरब्धम् आसीत्। अस्याः निधेः उद्देश्यः एतादृशीनाम् अनुकरणीयानां लक्ष्याधारितानाम् परियोजनानाम् अभिज्ञानमस्ति, याः परियोजनाः विकासशील- देशानां यांचानाम् आधारे प्रयुज्येरन्। अस्याः निधेः सहयोगेन प्रवर्तमानाः परियोजनाः विकासविषये पश्चीभूतानां सहयोगि- देशानां, तेषां राष्ट्रिय- प्राथमिकताभिः साकमेव विकासस्य एतादृशानां लक्ष्यानाम् अधिगमने सहायिकाः भविष्यन्ति, एतद्विषये अन्ताराष्ट्रिय- स्तरे सहमतिः जाता अस्ति।
भारतेन बुभुक्षा- उन्मूलनार्थं स्थापितनिधौ दश-लक्ष-मितानां अमरीकीय-डॉलर-रूप्यकाणां योगदानं कृतम्
![](https://himsanskritam.com/wp-content/uploads/2024/02/भूख-मिटाने-के-लिए-भारत-का-सहयोग.png)
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment