By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > विचारविमर्शः > तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा
विचारविमर्शःसंस्कृतगतिविधयः

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा

डॉ.अमनदीप शर्मा
Last updated: 2024/02/16 at 10:12 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा
भारतराष्ट्र: देवतानां जन्मभूमि: भवति। देवानां जन्म, लीलादिकं यस्मिन् प्रदेशे भवति तत् क्षेत्रं तीर्थक्षेत्रमित्युच्यते। तत्र मनुष्य: स्नानदानजपध्यानादिकमाचर्य पूर्वजन्म कृतपापात् मुक्तिर्लभते। तीर्थानां परिचय: मानवजीवनस्य अङ्गं भवति। अनेन मनुष्य: स्व जीवनं प्रकाशमार्गे नेतुं प्रोत्साहित: भवति। तेन क्रमेण अद्य जम्मू कश्मीर राज्यस्य कठुआ जनपदे विश्वस्थलीनगरे प्रतिष्ठित चूड़ामणि संस्कृत संस्थानमिति पारम्परिकगुरुकुले भगवत: वद्रीनारयणक्षेत्रात् तीर्थपुरोहित: पण्डित: श्रीमान् भास्कर शर्मा महोदया: समागत्य समस्तान् वटुकान् तीर्थक्षेत्राणां महत्वविषये परिचयं कारितवन्त: । गुरुकुलस्य प्रचार्यप्रवराणां श्रीमतां डॉ सौम्य रञ्जन महापात्रमहोदयानां तत्वावधानेन आयोजिते कार्यक्रमे असौ आचार्य: शर्मा महोदय: तुषारार्दिते अंचले षण्मासपर्यन्तं मानवै पूजित: भगवत: वद्रिविशालस्य माहात्यं, क्षेत्रस्य पौराणिकिगाथा तथा भारतीय संस्कृतिपरंपरायां तीर्थानां वैशिष्ट्यविषये वटुकान् सूक्ष्मतया समवोधयत्। अस्मिन् कार्यक्रमे केन्द्रीय खनन एवं ईन्धन अनुसंधान संस्थानस्य मुख्यवैज्ञानिकचरा: आचार्या: डॉ. वीरेन्द्रकुमारसिंहमहोदया:, संस्थानस्य प्रबन्धक: महेन्द्रपाल उपाध्याय:, आचार्य: अनमोल उपाध्याय:,आचार्य: सुरज शर्मा, आचार्य: साहिल शर्मा एवं संस्थानस्य कर्मकर्तृणां साकं सर्वे विद्यार्थिन: समुपस्थिता: आसन्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

TAGGED: चूड़ामणि संस्कृत संस्थान जम्मू, जम्मू, जीवन का उद्धार, मानव जीवन, संस्कृत भाषा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे दृश्यते
Next Article राजमौली- महेशबाबू इत्यनयोः १००० कोटिरूप्यकाणां चलचित्रे विदेशीया अभिनेत्री दृश्यते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?