तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा
भारतराष्ट्र: देवतानां जन्मभूमि: भवति। देवानां जन्म, लीलादिकं यस्मिन् प्रदेशे भवति तत् क्षेत्रं तीर्थक्षेत्रमित्युच्यते। तत्र मनुष्य: स्नानदानजपध्यानादिकमाचर्य पूर्वजन्म कृतपापात् मुक्तिर्लभते। तीर्थानां परिचय: मानवजीवनस्य अङ्गं भवति। अनेन मनुष्य: स्व जीवनं प्रकाशमार्गे नेतुं प्रोत्साहित: भवति। तेन क्रमेण अद्य जम्मू कश्मीर राज्यस्य कठुआ जनपदे विश्वस्थलीनगरे प्रतिष्ठित चूड़ामणि संस्कृत संस्थानमिति पारम्परिकगुरुकुले भगवत: वद्रीनारयणक्षेत्रात् तीर्थपुरोहित: पण्डित: श्रीमान् भास्कर शर्मा महोदया: समागत्य समस्तान् वटुकान् तीर्थक्षेत्राणां महत्वविषये परिचयं कारितवन्त: । गुरुकुलस्य प्रचार्यप्रवराणां श्रीमतां डॉ सौम्य रञ्जन महापात्रमहोदयानां तत्वावधानेन आयोजिते कार्यक्रमे असौ आचार्य: शर्मा महोदय: तुषारार्दिते अंचले षण्मासपर्यन्तं मानवै पूजित: भगवत: वद्रिविशालस्य माहात्यं, क्षेत्रस्य पौराणिकिगाथा तथा भारतीय संस्कृतिपरंपरायां तीर्थानां वैशिष्ट्यविषये वटुकान् सूक्ष्मतया समवोधयत्। अस्मिन् कार्यक्रमे केन्द्रीय खनन एवं ईन्धन अनुसंधान संस्थानस्य मुख्यवैज्ञानिकचरा: आचार्या: डॉ. वीरेन्द्रकुमारसिंहमहोदया:, संस्थानस्य प्रबन्धक: महेन्द्रपाल उपाध्याय:, आचार्य: अनमोल उपाध्याय:,आचार्य: सुरज शर्मा, आचार्य: साहिल शर्मा एवं संस्थानस्य कर्मकर्तृणां साकं सर्वे विद्यार्थिन: समुपस्थिता: आसन्।
तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment