जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला।
हिमसंस्कृतवार्ता:- शिवा शर्मा
प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च क्रियते। तत्रैव बिलासपुरजनपदस्य जिलाप्रशिक्षणसंस्थाने जुखाला– इत्यत्र संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: आयोजनम् अभवत्। अस्या: कार्यशालाया: आयोजनं जनवरीमासस्य २९ दिनाङ्कत: आरभ्य फरवरीमासस्य २ दिनाङ्क पर्यन्तम् अभवत्। विगतदिने एव कार्यशालेयं सुसम्पन्ना। यत्र जिलाप्रशिक्षणसंस्थानस्य प्रधानाचार्य: उपप्रधानाचार्यश्च मुख्यातिथि: रूपेण समुपस्थितोऽभवत्। अस्यां पञ्चदिवसीयकार्यशालायां शिक्षकै: शिक्षणाधिगमस्य प्रविधिनां विषये, भाषाकौशलानां विषये, भाषिकतत्त्वानां विषये, मूल्याङ्कनस्य विषये, नवशिक्षानीति: २०२० इत्यस्या: विषये, भाषाशिक्षणस्य साधनानां विषये च प्रशिक्षणं प्राप्तम्। कार्यशालायां डॉ. अशोकशर्मा, सतीशकुमार:, विनायकशर्मा, राकेशशर्मा च स्रोतपुरुषरूपेण समुपस्थिता: आसन्। ध्यातव्यं वर्तते यत् कार्यशालायामस्यां शिक्षणप्रशिक्षणकार्यं संस्कृतमाध्यमेन एव अभवत्।