By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचल मन्त्रिमण्डलम् : हिमाचल प्रदेश मन्त्रिमण्डलस्य विभागेषु पुनः परिवर्तनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचल मन्त्रिमण्डलम् : हिमाचल प्रदेश मन्त्रिमण्डलस्य विभागेषु पुनः परिवर्तनम्
हिमाचलवार्ताप्रादेशिकवार्ता

हिमाचल मन्त्रिमण्डलम् : हिमाचल प्रदेश मन्त्रिमण्डलस्य विभागेषु पुनः परिवर्तनम्

डॉ मनोज शैल
Last updated: 2024/02/03 at 5:58 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचल मन्त्रिमण्डलम् : हिमाचल प्रदेश मन्त्रिमण्डलस्य विभागेषु पुनः परिवर्तनम्

हिमसंस्कृतवार्ता- शिमला। 

हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खो:  नेतृत्वे सर्वकारस्य मन्त्रिमण्डलसदस्यानां विभागेषु पुनः एकवारं परिवर्तनं जातम्। लोकनिर्माणमन्त्री विक्रमादित्यसिंहं हिमाचलप्रदेशसर्वकारे नगरविकासविभागस्य दायित्वमपि दत्तम् अस्ति। एतदतिरिक्तं सद्यः एव मन्त्रित्वं प्राप्तस्य राजेशधर्माणी इत्यस्मै तकनीकीशिक्षया सह नगरनियोजनस्य, आवासस्य च विभागः अपि दत्तः अस्ति । तस्मिन् एव काले उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यस्मै सहकारीविभागः अपि नियुक्तः अस्ति । यादविन्द्रगोमा इत्यस्मै आयुषा, क्रीडाविभागेन च सह विधिविभागस्य दायित्वमपि दत्तम् अस्ति ।

उद्योगमन्त्रिणे हर्षवर्धनचौहानाय अपि नूतनविभाग:

अधुना हिमाचलप्रदेशस्य उपमुख्यमन्त्रिण: सहकारविभागेन सह जलशक्तिविभागस्य परिवहनविभागस्य भाषासंस्कृतेः विभागस्य दायित्वं भविष्यति। स्वास्थ्यस्य अतिरिक्तं धनीराम शाण्डिलस्य सामाजिकन्याय एवं सशक्तिकरण एवं सैनिक कल्याण विभागस्य दायित्वं भविष्यति। कृषिमन्त्री चौधरीचन्द्रकुमारस्य विभागेषु परिवर्तनं न जातम्। तस्य कृषिपशुपालनविभागः भविष्यति। हर्षवर्धनचौहान इत्यस्मै उद्योगसंसदीयकार्याणां सह श्रमरोजगारविभागस्य दायित्वं दत्तम् अस्ति। पूर्वं उद्योगमन्त्रीतः आयुषविभागः निवृत्तः आसीत् ।

रोहितठाकुराय नूतनविभागस्यापि दायित्वम्

अनेन सह जगतसिंहनेगीवर्याय राजस्वं उद्यानं, जनजातीयविकास: एवं जनसमस्या-निवारण-विभागस्यापि दायित्वं प्रदत्तम् ।  रोहितठाकुर: इत्यस्मै उच्चशिक्षया  प्रारम्भिकशिक्षया च सह मुद्रण-लेखन-विभागः प्रदत्तः अस्ति । अनिरुद्धसिंहस्य विभागेषु कोऽपि परिवर्तनं न भवति। पूर्ववत् ग्रामीणविकास: एवं पंचायतीराज: विभाग: भविष्यति ।

विक्रमादित्यसिंहस्य प्रतिष्ठा वर्धिता 

पूर्वं यदा राजेशधर्माणी, यादविन्द्रगोमा च द्वयोः नूतनमन्त्रिणो: विभागाः आवंटिताः आसन् तदा मुख्यमन्त्री रोहितठाकुरस्य, हर्षवर्धनचौहानस्य, विक्रमादित्यसिंहस्य च विभागं निवृत्तवान् आसीत्। तदा मुख्यमन्त्री उक्तवान् आसीत् यत् शीघ्रमेव नूतनविभागानाम् उत्तरदायित्वं तेभ्य: दीयते इति। तस्मिन् समये लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य अप्रसन्नतायाः वार्ता अपि अग्रे आगच्छति स्म । परन्तु अधुना विक्रमादित्यसिंहस्य पुनः एकवारं बृहत् विभागस्य दायित्वं दत्तम् अस्ति। एतत् विक्रमादित्यसिंहस्य प्रतिष्ठावृद्धिरूपेण दृश्यते।

राजेशधर्माणीवर्यस्य अप्रसन्नतां दूरीकर्तुं प्रयत्न: 

राजेशधर्माणी अपि केवलं तकनीकीशिक्षां इति दायित्वं प्राप्य प्रसन्न: नासीत् । अधुना तस्मै बृहत्विभागद्वयस्य उत्तरदायित्वं दत्त्वा तस्य अप्रसन्नतां समाप्त्यर्थं प्रयासः कृतः अस्ति। अवधेयं वर्तते यत् हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सामान्यप्रशासनं गृहनियोजनेन च सह अन्ये सर्वे विभागाः भविष्यन्ति, येषां आवंटनं न कृतम् अस्ति। मुख्यविभागानाम् अतिरिक्तं मुख्यमन्त्रिणा अद्यापि ऊर्जा, वनं, खाद्य-नागरिक-आपूर्तिः इत्यादयः विभागाः स्वस्य पार्श्वे एव स्थापिताः सन्ति ।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Cm Sukhu, cmo himachal, him sanskrit varta, Himsanskritnews, HP Cabinet Decision, HPCM, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश सरकार, हिमाचल मन्त्रिमण्डल, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article डिजिटल मीडिया – हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४
Next Article जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?