गुजरातराज्यस्य जूनागढ़ जनपदस्य पीएम श्रीनवागामप्राथमिकशालायां ‘विकसितभारतसंकल्पयात्रा’ इति कार्यक्रम: समायोजित:
हिमसंस्कृतवार्ता:- जगदीश डाभी, जूनागढ़।
प्राप्तवार्तानुसारं जनवरीमासस्य दिनांके गुजरातराज्यस्य जूनागढ़ जनपदस्य पीएम श्रीनवागामप्राथमिकशालायां ‘विकसितभारतसंकल्पयात्रा’ इति कार्यक्रम: समायोजित:। अस्मिन् समारोहे केन्द्रस्य, राज्यस्य च वित्तमंत्री भागवतसिंहकराडेमहोदय:, जूनागढ़ जनपदस्य सांसद: राजेश चुडासमावर्य:, मेतर महोदय:, अनकभाई, जूनागढ़- कलेक्टरमहोदय:, जूनागढ़ डी. डी. ओ. महोदय, जूनागढ़जनपद- प्राथमिकशिक्षणाधिकारी, तालुका- पंचायत- प्रमुख, सदस्य:, तालुका-प्राथमिक-शिक्षणाधिकारी, ग्रामजना:, शालाया: छात्रा:, शिक्षकाश्च समुपस्थिता: आसन्। कार्यक्रमे सर्वकारस्य विविधयोजनानां लाभार्थिनः तेषां प्राप्तलाभानां विषये सूचनां दत्तवन्तः।
गुजरातराज्यस्य जूनागढ़ जनपदस्य पीएम श्रीनवागामप्राथमिकशालायां ‘विकसितभारतसंकल्पयात्रा’
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment