By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।
धर्मसंस्कृतिः

श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।

डॉ.अमनदीप शर्मा
Last updated: 2023/12/31 at 8:16 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

श्रीरामायणकथा, लङ्काकाण्डम्!
(चतुष्पञ्चाशत्तमः सर्गः)
रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।

भूमौ शयानं निहतं भ्रातरं दृष्ट्वा विभीषणः विलापं करोति स्म हा वीर! हा विक्रान्त! हा विख्यात! हा प्रवीण! भवान् तु सर्वदा बहुमूल्यशय्यायां शयनं करोति स्म, किन्तु अद्य कथं मृतः सन् भूमौ शेते! हा शूर! भवतः अङ्गदभूषितं दीर्घं बाहुद्वयं निश्चेष्टं निक्षिप्तम् अभूत्। हा वीर! भवतः सूर्याकारवर्चः मुकुटं रामबाणेन छिन्नम् अभूत्। पूर्वं मया यदुक्तं काममोहलोभैः आसक्तः सन् भवते तन्न अरोचत। इदानीं तदिदं सम्प्राप्तम्। दर्पात् कुम्भकर्णः, इन्द्रजित्, अतिकायः, नरान्तकः, प्रहस्तः अपिच भवान् स्वयं मम वचनस्य अवज्ञाम् अकरोत् तदर्थम् अद्य तस्यैव फलं समुत्पन्नम् अभवत्। इत्येवं विलापं कुर्वन् विभीषणः श्रीरामं वचनम् अब्रवीत् प्रभो! भवतः प्रसादात् एतस्य प्रेतगतस्य कृत्यं कर्तुम् इच्छामि। अतः आज्ञां ददातु। श्रीरामः तदा वचनम् अब्रवीत् हे विभीषण! रावणः जीवितकाले हि मम शत्रुः आसीत्, इदानीं तस्य प्रयोजनं नास्ति। इदानीं तु भवान् इव सः अपि मम मित्रम् अतः अस्य संस्कारः यथाविधि क्रियताम्।

महात्मना राघवेण रावणं निहतं श्रुत्वा शोककर्शिताः राक्षस्यः अन्तःपुरात् बहिः आगच्छन्। ताः बहुभिः निवार्यमाणाः चेदपि शोकार्ताः विमुक्तकेश्यः वत्सहता गावः यथा रणभूमिम् आगत्य भूमौ पतित्वा रुदन्ति स्म। रणभूमौ ताः पतिं सहसा शयानं दृष्ट्वा छिन्नाः वनलताः इव तस्य शरीरे अपतन्। तासु काचित् चरणौ आलम्ब्य काचित् कण्ठम् अवलम्ब्य काचित् तस्य भुजौ उत्क्षिप्य काचिच्च भूमौ परिवर्तते स्म। काचित् तु तस्य मृतस्य वदनं दृष्ट्वा मोहम् अगच्छत्। येन सर्वशत्रुः वित्रासितः, येन यमः अपि वित्रासितः, येन गन्धर्वाणाम् ऋषीणां सुराणां महात्मनां च रणे भयं दत्तं सः अद्य रणे हतः शेते। सुरेभ्यः असुरेभ्यः पन्नगेभ्यः वा यस्य भयं नासीत् मनुष्याद् एव तस्य भयम्। यः देवानां दानवानां राक्षसानां च अवध्यः सः अद्य रणे पदातिना मनुष्येण हतः भूत्वा भूमौ शेते। एवमेव वचनम् उक्त्वा राक्षस्यः विलापं कुर्वन्ति स्म।

तासां विलपमानानां राक्षसयोषितां मध्ये रावणस्य दीना प्रिया ज्येष्ठा पत्नी मन्दोदरी अचिन्त्यकर्मणा रामेण हतं स्वीयं पतिम् अपश्यत्। सा अपि तदा तत्र आगत्य विलापं करोति स्म हा स्वामिन्! हा राक्षसेश्वर! क्रुद्धस्य तव प्रमुखे स्थातुं पुरन्दरः अपि त्रस्यति स्म, अद्य कथं त्वं मानुषेण हतः अभूः? हा! त्वं स्वेन वीर्येण त्रैलोक्यमपि आक्रम्य विजयम् अवाप्नोः परन्तु अधुना कथं त्वां कश्चन वनगोचरः मनुष्यः अहन्। एतत् नितान्तम् असह्यम्। त्वं तु सर्वत्र रणे विजयं प्राप्नोषि किन्तु अधुना त्वं रामेण हतः अभूः इति मम विश्वासः एव न भवति! अथवा हे महाबल! वासवेन त्वं धर्षितोऽसि? किन्तु रणे वासवस्य तु त्वां द्रष्टुमपि शक्तिः नास्ति।

मन्ये सः रामः साधारणमनुष्यः नास्ति, सः महायोगी, सनातनः, तमसः परमो धाता, लक्ष्मीपतिः, शङ्खचक्रगदाधरः स्वयं विष्णुः यः युद्धे महाबलं महावीर्यं देवशत्रुम् अहन्। सः मनुष्यरूपम् आस्थाय सत्यपराक्रमः सर्वलोकेश्वरः स्वयं विष्णुः लोकानां हितकाम्यया सर्वैः वृतः भूत्वा सराक्षसपरीवारं भयावहं देवशत्रुम् अहन्। पुरा त्वया इन्द्रियाणि जित्वा त्रिभूवनं जितम्। मन्ये तद् वैरं स्मरद्भिः इन्द्रियैः त्वं निर्जितः अभूः। हा! जनस्थाने यदा असङ्ख्यैः राक्षसैः सह भ्राता खरः निहतः अभवत् तदा अहम् अवगच्छं यत् सः सामान्यः मनुष्यः नास्ति। हे राक्षसेश्वर! त्वम् ऐश्वर्यस्य देहस्य स्वजनस्य च विनाशाय हि सीतां प्रति अभिलाषम् अकरोः। हा दुर्मते! अरुन्धत्याः रोहिण्याः चापि विशिष्टां तां सीतां छलेन आनीय त्वं सवंशम् आत्मानं हि अहन्।
-प्रदीपः!

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: रामकथा, रामायण, रामायण कथा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
Next Article हिमाचलम्- नववर्षे प्रदेशसर्वकारस्य उपहारः मन्त्रिमण्डलस्य सभायां गृहीताः बहवः महत्त्वपूर्णाः निर्णयाः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?