By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
धर्मसंस्कृतिः

महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय

डॉ.अमनदीप शर्मा
Last updated: 2023/12/26 at 9:58 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय

 सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं नानासद्ग्रन्थानां रचयिता महर्षिवेदव्यासः लोके प्रकीर्त्यते । महर्षिणा मूलवेदः चतुर्षु भागेष्वपि विभाजितः आसीत् । तस्मै विष्णुरूपाय व्यासाय नमो नमः ।
   महर्षि-वशिष्ठस्य शतं पुत्राः, तेषु ज्येष्ठः शक्ति-नामधेयः । शक्तिः कस्मादपि कारणात् राजानं कल्माषपादम् अभिशप्तवान् यत् भवान् राक्षसः भवतु इति । स हि कल्माषपादः तेषां महाकालः सञ्जातः, शक्तिना सहः वशिष्ठमुनेः शतं पुत्रान् सः भक्षितवान् । पुत्रवियोगम् असहमानः शोकसंतप्तः वशिष्ठमुनिः सरस्वतीनदीं पतित्वा आत्महत्यार्थं सन्नद्धः जातः चेदपि सरस्वतीदेवी साक्षात् प्रकटीभूय तं रक्षितवती । वंशनाशदुःखात् स मर्तुम् इच्छति स्म, परन्तु शक्तिपत्नी अदृश्यस्ती गर्भवती अस्तीति ज्ञात्वा शोकम् अत्यजत् ।
 यथासमयम् अदृश्यस्ती एकं पुत्रसन्तानं प्रसूतवती । तस्यनाम पराशरः इति जातम् । कालक्रमे अयं मन्त्रद्रष्टा जातः । म्रियमाणाय वशिष्ठाय सः पुनर्जीवनं दत्तवान् इत्यतः तस्य नाम 'पराशरः' इति । वशिष्ठमुनिः सयत्नं तस्य पालन-पोषणं कृतवान् ।
 एकदा पराशरः मातुः पुरस्तात् हि पितामहं वशिष्ठं 'पितः !' इति सम्बोधितवान् । तदा तस्य जननी तं ज्ञापितवती यत् अयं भवतः पितामहः हि, न वा पिता इति । अनन्तरं सः मातृमुखात् ज्ञातवान् यत् तत्पितरं एकः राक्षसः भक्षितवान् इति । तज्ज्ञात्वा सः क्रोधेन उत्तुङ्गतां गतः ।  वशिष्ठः तं समाश्वास्य तस्मै धैर्यं प्रदत्तवान् । तथापि सः तस्य राक्षसस्य नाशार्थं राक्षसयज्ञं सम्पादितवान्, तस्य यज्ञस्य पुरोहितः पुलस्त्यमुनिः आसीत् ।
 एकदा पराशरः यमुनानदीम् उपस्थाय नदीं तरीतुम् ऐच्छत्, विशेषकार्यार्थम् । तदा एका धीवरपुत्री मत्स्यगन्धा नौकया ऋषिम् अपरतीरं प्रापयितुम् उत्सुका जाता । ऋषिः नौकाम् आरूढवान् । गमनसमये ऋषिः धीवरपुत्रीरूपे मुग्धः जातः, गान्धर्वप्रथानुसारं तां परिणीतवान् अपि । तपोबलेन ऋषिः नदीमध्ये हि एकं द्वीपं सृष्ट्वा तत्रैव मत्स्यगन्धया सह रमणं कृतवान् । सा ऋषिवरदानेन मत्स्यगन्धातः पद्मगन्धा जाता, सत्यवती इति नाम्ना सा प्रसिद्धा अभवत् ।
 गच्छता कालेन सा एकं पुत्ररत्नं प्रसूतवती । तस्य शिशोः शरीरं श्यामवर्णीयम् आसीत्, अतः 'कृष्णः' इति तस्य नाम जातम् । द्वीपे जन्म इत्यतः तस्य अपरनाम 'द्वैपायनः' इति नाम्ना ख्यातः अभवत् सः । तेन वेदस्य विभाजनं कृतम्, अतः अन्यत् नाम 'वेदव्यासः' इति । शास्त्रानुसारं सः भगवतः नारायणस्य अंशावतारः वर्तते ।
 भारतीयम् ऐतिह्यम्, परम्परागता साहित्य-संस्कृतिः इत्यादिषु वेदव्यासस्य अतुलनीयम् अवदानं वर्तते । पूर्वं वेदः एकः हि आसीत्, कलिकालस्य उपक्रमम् अभिज्ञाय तेन वेदः चतुर्षु भागेषु विभाजितः । ते  ऋक्, यजुः, सामः, अथर्वः चेति । इतिहासः एवं पुराणसमूहः पञ्चमवेदत्वेन स्वीक्रियते । महाभारत-नामकं महाकाव्यमपि तस्यैव कृतिर्वर्तते । एवमेव श्रीमद्भागवतं वेदव्यासस्य अमरकृतित्वेन लोके राजमानम् अस्ति । तस्य अपरनाम 'वादरायणः' इति । तेन वेदान्तग्रन्थः विरचितः । प्रस्थानत्रयम् इत्युक्ते उपनिषत्, भगवद्गीता, वेदान्तसूत्रं चेति, यस्य स्रष्टा भगवान् वेदव्यासः आख्यायते । व्यासोच्छिष्टं जगत्सर्वम् इति ।

      -- नारदः ।

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: भारत के संत परंपरा, महर्षि वेदव्यास, वेदव्यास, संत परंपरा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी
Next Article श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?