By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीरामायणकथा-रामरावणयोः युद्धम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रीरामायणकथा-रामरावणयोः युद्धम्
धर्मसंस्कृतिः

श्रीरामायणकथा-रामरावणयोः युद्धम्

डॉ.अमनदीप शर्मा
Last updated: 2023/12/20 at 8:01 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्

लक्ष्मणस्य तादृशं वचनं श्रुत्वा वीर्यवान् राघवः धनुरादाय चमूमुखे रावणाय घोरान् शरान् व्यसर्जत्। अन्यत्र राक्षसाधिपः रावणोऽपि अन्यं रथम् आस्थाय राहुः यथा सूर्यं प्रति गच्छति तथा श्रीरामं प्रति अधावत्। मेघः महाशैलं धाराभिः यथा रथस्थः दशग्रीवः वज्रोपमैः शरैः रामम् आजघान। श्रीरामः अपि दीप्तपावकसङ्काशैः काञ्चनभूषणैः शरैः रणे रावणम् अभ्यवर्षत्। तदानीं भूमौ स्थितस्य रामस्य रथस्थस्य च राक्षसराजस्य युद्धं समं न इति आकाशे स्थिताः देवगन्धर्वकिन्नराः अवदन्। तेषाम् अमृतं वचनं श्रुत्वा देवराजः इन्द्रः तदा मातलिम् आहूय अब्रवीत् – मम रथं नीत्वा शीघ्रं भूपृष्ठं रघूत्तमं याहि, देवहितं महत् कार्यं च कुरु।

देवराजेन इत्युक्तः देवसारथिः मातलिः तं देवेन्द्रं शिरसा प्रणम्य वचनम् अब्रवीत् हे देवेन्द्र! अहं शीघ्रं हि यास्यामि, सारथ्यं च करिष्यामि। ततः हरितैः अश्वैः च रथोत्तमं संयोज्य तं रथम् आरुह्य तूर्णं श्रीरामम् अगच्छत्। स्वर्गात् अवतीर्य श्रीरामस्य समीपं गत्वा सः मातलिः करौ योजयित्वा श्रीरामं वचनम् अब्रवीत् हे नरदेव! देवराजः इन्द्रः भवत्कृते रथमिमम् अप्रेषयत्। तेन च भवत्कृते सुमहत् ऐन्द्रधनुः, अग्निसन्निभं कवचम्, शराश्च आदित्यसङ्काशाः, शक्तिश्च विमला सिता प्रेषिता। अतः हे देव! इमं रथम् आरुह्य राक्षसं रावणं हन्तु। अहमेव सारथ्यं करिष्यामि। एवमुक्तः श्रीरामः रथं सम्परिक्रम्य अभिवाद्य च तं रथम् आरोहत्।

ततः महाबाहोः श्रीरामस्य राक्षसस्य रावणस्य च द्वैरथं रोमहर्षणम् अद्भुतं युद्धम् आरभत। परमास्त्रविद् रामः गान्धर्वेण रावणस्य गान्धर्वास्त्रं दैवास्त्रेण च दैवास्त्रम् अकर्तयत्। ततः परमक्रुद्धः निशाचरः रावणः परमं घोरं राक्षसास्त्रम् असर्जत्। ततः रावणधनुर्मुक्ताः ते काञ्चनभूषणाः शराः महाविषाः सर्पाः भूत्वा काकुत्स्थम् अभ्यवर्तन्त। ते दीप्तवदनाः भयानकाः सर्पाः दीप्तं वमन्तः रामम् अभिवर्तन्ते स्म। श्रीरामः तदा रणे आपततः तान् पन्नगान् दृष्ट्वा घोरं भयावहं गारुडास्त्रम् अक्षिपत्। ततः रामधनुर्मुक्ताः ते सर्पशत्रवः बाणाः गरुडरूपं धृत्वा रणक्षेत्रे विचरन्ति स्म। श्रीरामस्य ते विशिखाः कामरूपिणः सुपर्णरूपाः बाणाः रावणस्य सर्परूपान् सर्वान् बाणान् अघ्नन्।

प्रतिहते अस्त्रे क्रुद्धः राक्षसाधिपः रावणः तदा घोराभिः शरवृष्टिभिः रामम् अभ्यवर्षत्। सारथिं मातलिमपि शरौघेन अविध्यत्। ततः एकेन बाणेन इन्द्ररथस्य ध्वजं पातयित्वा शरजालेन च तस्य रथस्य अश्वान् अविध्यत्। रावणेन तदा श्रीरामं पीडितं दृष्ट्वा देवगन्धर्वयक्षमहर्षयः अत्यन्तं विषण्णाः अभवन्। वानरेन्द्रः सुग्रीवः, विभीषणः, ऋक्षगणाः च नितान्तं व्यथिताः अभवन्। तत्समये विंशतिभुजः प्रगृहीतशरासनः दशग्रीवः मैनाकपर्वतः इव दृश्यते स्म।

राक्षसराजेन रावणेन निरस्यमानः श्रीरामः बाणान् अभिसन्धातुं न अशक्नोत्। संरक्तलोचनः क्रुद्धः सः तदा भ्रुकुटिं कृत्वा निर्दहन् इव राक्षसान् महाक्रोधम् अगच्छत्। धीमतः क्रुद्धस्य तस्य श्रीरामस्य वदनं दृष्ट्वा सर्वभूतानि व्यत्रसन्, मेदिनी च अकम्पत। सिंहशार्दूलवता शैलेन सह द्रुमाः कम्पन्ते स्म। सुसंक्रुद्धं रामं दृष्ट्वा तस्य च दारुणान् उत्पातान् दृष्ट्वा राक्षसराजस्य रावणस्यापि भयम् अभवत्। नानाप्रहरणैः भीमैः तयोः उभयोः शूरयोः सुमहत् युद्धं तदा देवाः, गन्धर्वाः, महोरगाः, सिद्धाः, खेचराः, ऋषिदानवदैत्याश्च पश्यन्ति स्म। तद् महायुद्धं प्रेक्षमाणाः सुराः असुराः सर्वे विग्रहमागताः।
-प्रदीपः!

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: रामायण, रामायण कथा, श्रीरामकथा, श्रीरामायण कथा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः
Next Article महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?