By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः
धर्मसंस्कृतिः

श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः

डॉ.अमनदीप शर्मा
Last updated: 2023/12/19 at 6:27 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः

दीनदयालशुक्लः (उत्तरप्रदेशः)

लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य अवसरे उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षणवर्गाणाम् अन्तर्गतं मासिकं बौद्धिकसत्रस्य आयोजनं कृतम्। अस्य बौद्धिकसत्रस्य उद्घाटनमुख्यवक्तारूपेण हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य प्रवक्ता डॉ. नरेन्द्रकुमारपाण्डेयः उपस्थिताः आसन्। श्रीमद्भगवद्गीतायाः विषये उपस्थितान् छात्रान् सम्बोधितवान्। कार्यक्रमस्य आरम्भः संजीवनी गोरस्य शङ्खध्वनिना अभवत् । डॉ भारती आवाहनम् अकरोत्। पंकजकुमारः गीतामातुः परिवेदना प्रस्तुतं कृतवान्। भाषाप्रशिक्षकरूपेण उपस्थितेन नूतनविष्णुरेग्मीमहोदयेन अतिथिभ्यः कार्यक्रमस्य रूपरेखायाः परिचयः कृतः। उत्तरप्रदेशसंस्कृतसंस्थानस्य विविधाः योजनाः प्रवर्तयत्। संस्कृतसंस्थाः केवलं उत्तरप्रदेशे संस्कृतकक्षां चालयति वा सम्पूर्णे भारते संस्कृतप्रेमिणां कृते वा इति अपि कथितम् । एतदतिरिक्तं ज्योतिष-कक्षा, कम्प्यूटर-कक्ष-वास्तु-कक्षा इत्यादीनि संस्थाद्वारा संचालिताः भवन्ति । विनोदकुमार वत्सः कार्यक्रमे गीतासारस्य केचन श्लोकाः पाठितवन्तः। अस्मिन् अवसरे सैशा, नारायणी च नामनी लघुबालिके श्रीमद्भागवतस्य १५ अध्यायस्य पाठं कृतवत्यौ। येन सर्वे श्रोतारः मुग्धाः अभवन्। मुख्यवक्तृरूपेण आगतः डॉ. पाण्डेयः सर्वेषां प्रशिक्षुणां कृते श्रीमद्भागवतगीतां स्वजीवने स्वीकर्तुं प्रेरितवान्। अयं कार्यक्रमः संस्थायाः प्रशिक्षकः दीनदयालशुक्लः सफलतया सम्पादितः । कार्यक्रमे उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः श्री विनयश्रीवास्तवः, सर्वेक्षिका चन्द्रकला शाक्य, प्रशासनिकपदाधिकारी जगदानन्दझा, प्रशिक्षणप्रमुखः श्रीसुधीष्ठमिश्रः व समन्वयकः धीरजमैठाणी, राधाशर्मा, दिव्यरञ्जनादयः अपि उपस्थिताः आसन्। कार्यक्रमस्य समापनं प्रशिक्षकाजयकुमारद्वारा शांति मंत्रेण अभवत्। एताः कक्षाः संस्कृतप्रेमिणां कृते प्रतिमासं निःशुल्कं चाल्यन्ते । प्रमाणीकरणस्य परीक्षायाः च योजना अस्ति । कोऽपि जिज्ञासुः तस्मिन् प्रवेशं प्राप्तुं शक्नोति । अग्रिममासस्य जनवरीमासे पञ्जीकरणं अधुना एव आरब्धम् अस्ति।

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: श्रीमद्भागवतगीता
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article NEP2020 :-शिक्षकप्रतिभागिभि: प्राप्यते गुणवत्तापूर्णनवशिक्षा- प्रो.अन्नपूर्णानौटियाल:
Next Article श्रीरामायणकथा-रामरावणयोः युद्धम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?