स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्।
प्रधानमन्त्रिणा नरेन्द्र-मोदिना उक्तं यत् विकसित- भारतस्य कृते महिलानां, यूनां, कृषकाणां, निर्धनानां च विकासः अपेक्षते। सर्वकारः विकसित- भारत- संकल्प- यात्रायाः माध्यमेन प्रत्येक- लाभार्थिनः काल्याणकारी- योजनानां लाभ- प्रदानाय यथासम्भवं प्रयासरतः अस्ति। तेन स्वीय- संसदीय- क्षेत्रे वाराणस्यां विंशति: सहस्र- कोटि- रूप्यकात्मिकां सप्तत्रिंशत् विकास- परियोजनानां शुभारम्भं कुर्वता उक्तम्। अस्मिन् अवसरे जनसभां सम्बोधयता प्रधानमन्त्रिणा उक्तं यत् विकसित- भारत- संकल्प- यात्रा देशस्य सहस्रं यावत् ग्रामेषु नगरेषु च सम्प्राप्तवती। प्रधानमन्त्रिणा नरेन्द्र-मोदिना उक्तं यत् स्वतन्त्रतायाः दशकानन्तरं सम्प्रति देशस्य आध्यात्मिक- स्थलानां विकासैः सममेव आर्थिक- विकासस्य नूतन- कीर्तिमानाः अपि निर्मीयन्ते। मोदिना वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनानन्तरम् उक्तं यत् आयोध्यायां राममन्दिरस्य निर्माणकार्यम् अपि शीघ्रमेव सम्पन्नं भविष्यति। प्रधानमन्त्री उत्तरप्रदेशे स्वीय- संसदीय- क्षेत्रस्य द्विदिवसीय यात्रायां वर्तते। महामन्दिरस्य भक्तानां सम्बोधयता मोदिना जनैः स्वीय- जीवने नवधा- व्यवहारान् व्यवहर्तुम् आग्रहं कृतवान्, एतेषु जलसंरक्षणम्, डिजिटल- भुगतान- सम्वर्धनम्, स्वछता, लोकल- फॉर- वोकल, देशस्य विभिन्न- स्थलानां यात्रा, प्राकृतिक- कृषि- कार्यम्, बाजरा इति खाद्यान्नस्य सम्बर्धनम्, स्वास्थ्य-सम्बर्धनम्, निर्धनानां सहयोगम् च सम्मिलिताः सन्ति। सुन्दरं कलाकृतियुक्तं, सपादशतं यावत् कमलदलस्य मंदिरशिखरं, विंशतिः सहस्र- जनानां क्षमतायाः सप्ततलस्य मन्दिरमपि एकं प्रतिष्ठितं ध्यानकेन्द्र- रूपेण भविष्यति। मन्दिरस्य निमार्णं प्रायः विंशतिः वर्षात् प्रचलति। महामन्दिरं त्रिलक्ष- वर्ग- फिटमित्यावत् विस्तृतं वर्तते। अस्य भित्तेः उपरि मकराना- संगमरमर- पाषाणयोः उत्कीर्ण- स्वर्वेदस्य सप्तत्रिंशदधिकैकत्रिंशत् शतम् यावत् श्लोकाः उत्कीर्णाः सन्ति। स्वर्वेदः एकः आध्यात्मिक: ग्रन्थः वर्तते, यस्य लेखनं सद्गुरु सदाफल देवजी महाराज इत्यनेन कृतमस्ति, यः एकः योगी, विहंगम् योगस्य संस्थापकः चापि वर्तते।
स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment