By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः
संस्कृतगतिविधयः

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः

डॉ.अमनदीप शर्मा
Last updated: 2023/12/19 at 8:18 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः

असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता, असमीया-साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह समभावेन संलग्नः सज्जनः हि महापुरुषः माधवदेवः इति नाम्ना प्रसिद्धः, सुस्मरणीयश्च। महापुरुषः माधवदेवः बहुधा गीतम्, नाटकम्, भक्तितत्त्वमूलकम् इत्यादिविषये नानाग्रन्थान् विरचय्य असमीयासाहित्यम् इतोऽपि समृद्धं कृतवान्, अपि च साहित्यक्षेत्राय एकां नूतनगतिं प्रदत्तवान् अस्ति। भारतस्य पूर्वाञ्चलप्रान्ते नववैष्णवधर्मस्य प्रचारप्रसारकार्ये माधवदेवस्य अतिविशिष्टा भूमिका अवर्तत।
महाभागस्य १४८९ तमे ख्रिष्टाब्दे, असमराज्यान्तर्गतस्य ‘नारायणपुर’ इति क्षेत्रस्य ‘लेतेकुपुखुरीपार’ इति स्थाने जन्म जातमासीत्। माधवदेवस्य पिता- गोविन्दगिरिः, माता – मनोरमा च इति नामधेयौ तस्य सुशीलौ पितरौ आस्ताम्। तस्य शैशवकालः हरिसिंहवरा-गृहे, एवं घाघरमाजेः आश्रये अतिवाहितः। तदनन्तरं पित्रा सह वण्डुकास्थितं प्राक्तनं गृहं प्रत्यागतवान्। तत्र चतुर्दशवर्षीयस्य तस्य अध्ययनार्थं राजेन्द्राध्यापकस्य संस्कृतटोले नामपञ्जीकरणं जातम्। तस्यां शालायां सम्यक् अधीत्य सः स्वल्पसमयावधौ हि सुशिक्षाम् आसादितवान् आसीत्। यदा सः पितृविहीनः जातः, तदा मण्डुकां परित्यज्य माजुल्यभिमुखं स्थानान्तरितः अभवत्। तत्र आत्मीयस्य रामदासस्य साहाय्येन तस्य महापुरुष-शङ्करदेवेन सह परिचयः अभूत्। माधव-शङ्करयोः मध्ये देवीपूजा, बलिविधानम् इत्यादिविषयम् अनुसृत्य नानायुक्तितर्कादिकं समुत्पन्नम् आसीत्, परम् अन्ते माधवदेवः तद्विषये पराजितोऽभवत्। ततः सः शङ्करदेवस्य शरणापन्नः जातः, नववैष्णवधर्मस्य गुरुरूपेण तम् अङ्गीकृतवान्। तत्पश्चात् शङ्करदेवेन सहैव सः नववैष्णवधर्मविषयकः परमसाधकः प्रचारकश्च सञ्जातः।
माधवदेवः प्रसिद्धः कविः, नाट्यकारः, गीतिकारः, धर्मप्रचारकः, सुगायकश्च आसीत्। तस्य महाभागस्य साहित्यक्षेत्रे एकं स्वकीयं वैशिष्ट्यं विराजमानम् अस्ति। तेन रचितेन नाट्यमाध्यमेन वैष्णवधर्मस्य महिमा प्रचारितः दृश्यते। तस्य मनः श्रीकृष्णस्य शिशुरूपं प्रति अत्यन्तम् आकृष्टम् आसीत्। तस्मात् तस्य गीतेषु विशेषतः बालरूपस्य श्रीकृष्णस्य नानाचौर्यकार्यम्, चाञ्चल्यम्, चातुर्यादिकं प्रकाशितम् अवलोक्यते। रामायणस्यापि सः आदिकाण्डस्य हि भाष्यं कृतवान् अस्ति। अनेन सः श्रीरामस्य बाल्यकालस्य नानाचरित्रं स्वेच्छया वर्णयितुम् अशक्नोत्। तस्य नाटकम्, गीतम् इत्यादिकं प्रायशः वात्सल्यरसेन परिपुष्टं वर्तते। तस्य गीतानि महाराष्ट्रस्य तुकारामस्य, एवम् उत्तरभारतस्य सुरदासस्य गीतैः सह तोलयितुं शक्यानि।
तेन विरचितानि नाटकानि एवं सन्ति- ‘चोरधरा’, ‘पिम्परा गुचोवा’, ‘भोजन विहार’, भूमि लेटोवा’, ‘अर्जुन भञ्जन’, तदुपरि ‘रासझुमुरा’, ‘कोटोरा खेला’, ‘ब्रह्ममोहन’, ‘भूषण हरण’ इत्यादीनि।
आख्यानमूलकरचनाः- रामायणम् आधृत्य ‘आदिकाण्ड’, भागवतञ्च अनुसृत्य ‘राजसूयकाव्य’ चेति।
तत्त्वमूलकरचनाः-
‘जन्मरहस्य’, ‘भक्ति रत्नावली’, ‘नाम मालिका’, ‘नामघोषा’ चेति। माधवदेवस्य सर्वोत्तमा, प्रसिद्धा च कृतिरेव- ‘नामघोषा’ इति।
गीतम्- माधवदेवस्य ‘वरगीत’, ‘भटिमा’ इत्यादिकी असमीया-गीतिसाहित्यस्य काचित् अमूल्यसम्पत्। ‘वरगीतम्’ इत्यस्य उदाहरणत्वेन चरणद्वयम् अत्र प्रस्तूयते-
“तेजरे कमलापति परभात निन्द ।
तेरि चान्द मुख पेखो उठरे गोविन्द ।।”
“याहेर चरन रेणु योगी नापाइ ।
भकति बले ताको बन्धन कराइ ।।” इति ।

माधवदेवः शङ्करदेवस्य सान्निध्ये आगमनान्तरम् एकनिष्ठतया धर्मचर्चायाम् आत्मनियोजनं कृतवान्। अनन्तरं कोचराज्ञः कामरूपम् आगत्य ‘गनककुछि’ इति स्थाने स्वकीयं गृहं निर्माय, तत्रैव उषित्वा शङ्करदेवेन सह धर्मचर्चायां निमग्नः जातः। तत्पश्चात् कानिचन दिनानि यावत् ताभ्यां तीर्थस्थानम् अटितम्। अन्ते १५९६ ख्रिष्टाब्दे भाद्रमासस्य शुक्लद्वितीयातिथौ सप्तोत्तरशते वयसि महापुरुषः माधवदेवः महाप्रयाणं सृतवान्। धन्यास्ते महापुरुषाः लोके! इति, शुभम्।

लेखकः- नारदोपाध्यायः

You Might Also Like

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः दीक्षान्त-समारोहः सम्पन्नः

पाणिनि वि.वि -ःभौगोलिकं वैषम्यं अस्माकं संस्कृतौ वैषम्यं न दर्शयति– डॉ. सुरेन्द्र थापा

आईआईटी बॉम्बे (IIT Bombay) संस्थाने ‘ऋतम् २०२६’ इति संस्कृतमहोत्सवः

कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयस्य चतुर्दशः (१४) दीक्षान्त-समारोहः मार्च १८ दिनांके

काञ्चीपुरम् (तमिलनाडु) इत्यस्य पावनधरायां मध्यप्रदेशस्य गौरवम्: भुवनमोहनवशिष्ठः राष्ट्रियस्तरे सम्मानितः

TAGGED: माधवदेव
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः
Next Article स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?