हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा अस्ति, धूमादेवी इत्यस्य स्थानम् इत्यपि कथ्यते । चिन्तपूर्णी, नैना देवी, शाकम्भरी शक्तिपीठः, विन्ध्यवासिनी शक्तिपीठः, वैष्णोदेवी इव इदं सिद्धं स्थानम् अस्ति। अत्र भगवत्याः सतेः महाजिह्वा विष्णोः सुदर्शनचक्रेण छिन्ना पतिता। मन्दिरे भगवती नव प्रकाशरूपेषु दृश्यते येषां नाम क्रमशः महाकाली, महालक्ष्मी, महासरस्वती, हिंगलाज भवानी, विन्ध्यवासिनी, अन्नपूर्णा, चण्डी देवी, अंजना देवी, अम्बिका देवी च सन्ति । उत्तरभारतस्य प्रसिद्धानां नवदेवीनां दर्शनसमये चतुर्थं दर्शनं मातुः ज्वालादेव्याः भवति । आदि शंकराचार्यविरचिते अष्टादशमहाशक्तिपीठस्तोत्रे ज्वाला देवी वैष्णवी इति नाम्नाऽपि उच्यते।
ज्वालादेवी मन्दिरम्, कांगड़ा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
