देशं २०४७ तमवर्षं यावत् विकसितराष्ट्रं निर्मातुं लक्ष्यम् : प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अद्यतनं भारतं निश्चितेन लक्ष्येण सह कार्यं कुर्वदस्ति, इदं च लक्ष्यं देशं २०४७ तमवर्षं यावत् विकसितराष्ट्रं निर्मातुम् अस्ति। प्रधानमन्त्री मोदी गुरुवासरे अत्र भारतीयजनतापक्षस्य (भाजपा) मुख्यालये आयोजिते ‘दीपावली-मिलन-समारोहे’ पत्रकारान् सम्बोधयन् अवदत् यत् एकः समयः आसीत् यदा निर्वाचनेषु दारिद्र्य-निवारणस्य विषये चर्चा भवति स्म, परञ्च अधुना समयः परिवर्तितः अस्ति, दरिद्राः एव स्वयमेव दारिद्र्यं पराजयन्तः सन्ति। सः उक्तवान् यत् यानि लक्ष्याणि निर्धारितानि, तानि पूर्णानि कृतानि सन्ति।प्रधानमन्त्रिणा कथितं यत् स्वतन्त्रतायाः कालादेव देशं विकसितं कर्तुं स्वप्नः आसीत्, परञ्च अधुना अस्य स्वप्नस्य पुरतः एका समयसीमा निर्धारिता अस्ति। अस्माभिः स्वतन्त्रतायाः १०० वर्षाणि पूर्णानि भवितुं पूर्वमेव मिलित्वा भारतम् एकं विकसितं राष्ट्रं निर्मातव्यम्। अस्मिन् विशेषकार्यक्रमे प्रधानमन्त्री माध्यमजगतः (मीडिया) तथा पत्रकाराणां कार्यशैल्याः प्रशंसां कुर्वन् देशवासिभ्यः, कार्यकर्तृभ्यः, पत्रकारेभ्यः च दीपावल्याः आगामिनः छठ-महापर्वणः च हार्दिकीः शुभकामनाः दत्तवान्। अस्मिन् दीपावली-मिलन-समारोहे रक्षामन्त्री राजनाथसिंहः, भाजपा-दलस्य राष्ट्रिय-अध्यक्षः नितिन-नवीनः, केन्द्रीय-गृहमन्त्री अमितशाहः, अन्ये च अनेके वरिष्ठनेतारः पत्रकाराश्च उपस्थिताः आसन्।
देशं २०४७ तमवर्षं यावत् विकसितराष्ट्रं निर्मातुं लक्ष्यम् : प्रधानमन्त्री नरेन्द्रमोदी
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
