By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: 52th AIOC – प्राचीनज्ञानसम्पदः संरक्षणस्य, संवर्धनस्य, समकालीनजीवने च तस्याः प्रासङ्गिकतायाः अवबोधनस्य महत्त्वपूर्णावसरम् एतद् सम्मेलनम्- राज्यपालः डॉ. बिसेन:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > 52th AIOC – प्राचीनज्ञानसम्पदः संरक्षणस्य, संवर्धनस्य, समकालीनजीवने च तस्याः प्रासङ्गिकतायाः अवबोधनस्य महत्त्वपूर्णावसरम् एतद् सम्मेलनम्- राज्यपालः डॉ. बिसेन:
राष्ट्रीयवार्ताःशास्त्रीयविषयाःसंस्कृतगतिविधयः

52th AIOC – प्राचीनज्ञानसम्पदः संरक्षणस्य, संवर्धनस्य, समकालीनजीवने च तस्याः प्रासङ्गिकतायाः अवबोधनस्य महत्त्वपूर्णावसरम् एतद् सम्मेलनम्- राज्यपालः डॉ. बिसेन:

डॉ.अमनदीप शर्मा
Last updated: 2026/10/29 at 10:23 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
10 Min Read
SHARE

52th AIOC – प्राचीनज्ञानसम्पदः संरक्षणस्य, संवर्धनस्य, समकालीनजीवने च तस्याः प्रासङ्गिकतायाः अवबोधनस्य महत्त्वपूर्णावसरम् एतद् सम्मेलनम्- राज्यपालः डॉ. बिसेन:

वयं वेदान् जीवन्तः स्मः, वयं रामत्वं कृष्णत्वं शिवत्वं च जीवामः- परमश्रद्धेयः स्वामी रामदेवमहाराजः

अखिलभारतीय- प्राच्यविद्या- सम्मेलनं केवलं कोऽपि शैक्षणिकोत्सवः नास्ति, सनातनस्य गौरवस्य पुनर्प्रतिष्ठापनाय युगान्तरकारिणः सङ्कल्पस्य प्रारम्भः वर्तते- आचार्य- बालकृष्ण- महाराजः
हिमसंस्कृतवार्ता:- डॉ रेणुका बोकारे, हरिद्वारम्।
पतञ्जलिविश्वविद्यालये आयोज्यमानस्य त्रिदिवसीयस्य द्विपञ्चाशत्तमस्य (५२) अखिलभारतीय- प्राच्यविद्या- सम्मेलनस्य (AIOC) समुद्घाटनम् उत्तराखण्डस्य राज्यपालेन डॉ. ढालसिंहबिसेन-महोदयेन दीपप्रज्वालनेन विहितम्। अस्मिन् अवसरे पतञ्जलिविश्वविद्यालयस्य कुलाधिपतेः परमश्रद्धेयस्य स्वामि- रामदेव- महाराजस्य, कुलपतेः परमपूज्यस्य आचार्य- बालकृष्ण- महाराजस्य पावनं सान्निध्यम् आसीत्।
कार्यक्रमे माननीय-राज्यपालमहोदयेन स्वसन्देशे प्रतिपादितं यत् भारतीयज्ञानपरम्परायाः मूलम् उद्देश्यं मानवस्यान्तः विवेकस्य, समाजे सौहार्दस्य, समग्रसृष्टिं प्रति च कल्याणकारिण्याः दृष्टेः विकासः अस्ति। सः अवदत् यत् इदं सम्मेलनम् अस्माकं प्राचीनज्ञानसम्पदः संरक्षणस्य, संवर्धनस्य, साम्प्रतिकजीवने च तस्याः उपादेयतायाः अवबोधनस्य महत्त्वपूर्णः अवसरः वर्तते। अस्मिन् ५२ तमे अधिवेशने देशविदेशयोः विदुषां सहभागिता भारतीयमनीषायाः अमूल्यन्यासं प्रति व्यापिकामभिरुचिं प्रदर्शयति। सः दृढविश्वासं प्राकटयत् यत् अत्र सम्पत्स्यमानः विद्वत्संवादः, शोधविमर्शः, भारतीयविचाराणां विनिमयश्च भारतीय- ज्ञान- परम्परायै अध्ययनाय च नूतनां दिशं प्रदास्यति। अद्य अस्मिन् अवसरे ‘भारतीयदर्शनानाम् इतिहासः मीमांसा च’, ‘वेदामृतम्’, ‘भारतीयदर्शनबोधः’ सदृशीनां कृतीनां लोकार्पणम् अपि भारतीयज्ञानसाधनायाः समृद्धां परम्परां समेधयितुम् एकः प्रयासः अस्ति।

वयं स्वधर्मस्य, संस्कृतेः, प्राचीनविद्यानां च संरक्षणं कुर्याम- राज्यपालः

राज्यपालमहोदयः प्रावोचत् यत् भारतीयचिन्तनस्य इयं विशिष्टिः यद् अत्र ज्ञानस्य लक्ष्यं केवलं बौद्धिकोन्नतिः न, अपि तु व्यक्तेः सामाजिकचरित्रस्य, व्यवहारस्य, सामाजिकोत्तरदायित्वस्य च परिष्कारः अपि वर्तते। अस्माकम् आचार्यैः व्याकरणे, तर्कशास्त्रे, गणिते, खगोलविज्ञाने, पराविद्यायां, ज्योतिषे, आयुर्वेदे, योगे, वास्तुशास्त्रे, दर्शनादिषु चानेकेषु क्षेत्रेषु स्वयोगदानं समर्पितम्। महर्षेः पाणिनेः व्याकरणपरम्परा, महर्षेः पतञ्जलेः योगदर्शनम्, आयुर्वेदस्य च समृद्धिमती परम्परा भारतीयबौद्धिकसामर्थ्यस्य महत्त्वपूर्णाः दृष्टान्ताः सन्ति।
सम्मेलने पतञ्जलिविश्वविद्यालयस्य कुलाधिपतिना परमश्रद्धेयेन स्वामि-रामदेव-महाराजेन उक्तं यत् त्रिंशत्तमे (३०) अक्तूबर दिनाङ्के सम्मेलने भारतीयविद्वत्परिषत्, अखिलभारतीय- अखाड़ा- परिषत्, अखाड़ानां प्रमुखाः, जगद्गुरु- रामानन्दाचार्याः, जगद्गुरु- शङ्कराचार्याः, जगद्गुरु- रामानुजाचार्याः, आदिगुरुशङ्कराचार्यस्य प्रतिनिधिभ्यः आरभ्य भारतस्य समग्रायाः गुरुपरम्परायाः प्रतिनिधयः अस्मिन् सम्मेलने स्वयं भागं ग्रहीष्यन्ति अथवा अन्तर्जालमाध्यमेन संलग्नाः भविष्यन्ति।

शीर्षयतीनां मार्गदर्शने भविष्यति सनातनशास्त्रशुद्ध्यभियानस्य शुभारम्भः
स्वामिना उक्तं यत् केचन जनाः अज्ञानाद् अविवेकाच्च सनातनस्य खण्डितं रूपम् उपस्थापयन्ति। ‘मन्दिरे एव भगवान् अस्ति’ इति कथनेन भगवतः स्वरूपं खण्डितं भवति, यतो हि भगवान् तु सर्वव्यापकः, भगवान् समग्ररूपेणैव द्रष्टव्यः। अद्य कृत्रिमबुद्धेः (AI) युगं वर्तते, केचन जनाः सनातनं खण्डितरूपेण प्रस्तौति, शास्त्राणाम् अशुद्धां व्याख्यां कुर्वन्ति। कश्चिद् वदति यत् श्रीरामः सीतामाता च मांसभक्षणं मद्यपानं च कृतवन्तौ। केषाञ्चित् मूर्खाणां धूर्तानां च व्याख्यानानां कारणात् काभिश्चित् संस्थाभिः पुस्तकानि मुद्रितानि। अनेन मर्यादापुरुषोत्तमस्य रामस्य मर्यादा कुत्र गता, सीतायाः तपः सतीत्वं च कुत्र गतम्? योगेश्वरं भगवन्तं श्रीकृष्णं रासलीलानां नाम्नि न जाने किम्-किम् उक्तम्, तां वीभत्सतां कोऽपि पठितुम् अपि न शक्नोति। तथैव शिवः मादकद्रव्यसेवी (नशेड़ी, गजेड़ी) कथितः; यस्मिन् शिवे कपटेन समर्पितं जलम् अपि न स्वीक्रियते, तस्मै भङ्गं धत्तूरं च किमर्थम् अर्पयथ? एवमेव ऋषीणाम् ऋषिकाणां देवी-देवतानां चापि अपमानः कृतः। सनातनविरोधिनः प्रतिदिनम् अस्मान् अप्रासङ्गिकान्, अवैज्ञानिकान्, अव्यावहारिकान्, मूर्खांश्च उक्त्वा उपहसन्ति। किन्तु वयं सङ्कल्पं कृतवन्तः यद् अधुना कोऽपि सनातनस्य उपहासं कर्तुं न शक्ष्यति। एषः पुरुषार्थः पतञ्जलितः विधास्यते। केनापि कारणेन यदि केनापि अशुद्धा व्याख्या कृता, कश्चन प्रक्षेपः कृतः, पूर्वजानां महतीषु कृतिषु लाञ्छनं वा रोपितं, तर्हि तत् पतञ्जलितः शुद्धीकरिष्यते। तेषाम् एव कारणेन अयं महान् सनातनधर्मः अस्माकं मध्ये तिष्ठति। स्वामी जी अवदत् यत् चत्वारो वेदाः, रामायण- महाभारते, सर्वाणि पुराणानि, राम-कृष्ण-शिवाश्च अस्माकम् अन्तरेव निवसन्ति; वयं वेदान् जीवन्तः स्मः, वयं रामत्वं कृष्णत्वं शिवत्वं च जीवामः। अस्माभिः सर्वैः सनातनस्य विग्रहवान् स्वरूपः भवितव्यम्। आगामिनि समये सनातनः स्वकीये शुद्धतमे स्वरूपे आगमिष्यति। यदि कश्चन सनातनस्योपरि प्रश्नम् उत्थापयिष्यति, तर्हि वयं विधितः अपि तं दण्डयिष्यामः। अस्माकं देशस्य संविधानं कथयति यद् अत्र कोऽपि भेदो न भवितुम् अर्हति। “वयम् भारतस्य जनाः” (We the people of India), “वयम् आर्यावर्तस्य भारतवर्षस्य वा जनाः”। वयं भारतस्य सर्वे नागरिकाः समानाः स्मः। ब्राह्मण- क्षत्रिय- वैश्य- अनुसूचितजाति- जनजाति- ओबीसी- दलित- शोषित- आदिवासिनः सर्वे एकाः एव। वयं सर्वे तस्यैकस्यैव ब्रह्मणः सन्ततयः स्मः। कोऽपि जनः अस्माकं भगवति, सनातनधर्मे, संस्कृतौ च प्रश्नं कथम् उत्थापयितुं शक्नोति? अस्माभिः सङ्कीर्णभावेन न जीवितव्यम्, आत्मानं खण्डयित्वा न स्थातव्यं यत् ‘अहं कस्याश्चित् पतिः अस्मि’, ‘अहं कस्यचित् पत्नी अस्मि’, ‘अहं ब्राह्मणः अस्मि’, ‘अहं क्षत्रियः अस्मि’; इदं तु खण्डितं व्यक्तित्वम्। येनापि वेदोऽधीतः स ब्राह्मणं क्षत्रियं वैश्यं वा खण्डितं न पश्यति। सः कथयति यद् ‘ममान्तः ब्राह्मण- क्षत्रिय- वैश्य- शूद्राः सन्ति, ममान्तः चत्वारो वेदाः सन्ति, समग्रं ब्रह्माण्डं चास्ति’।
स्वामि-महाराजेन उक्तं यत् जनाः मां पृच्छन्ति- ‘भवतः का जातिः? भवान् ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः, ओबीसी, अनुसूचितजातिः, आदिवासी वा किम् अस्ति?’ अस्माकं त्विदमेव प्रत्युत्तरं भवति यत् प्रथमं तु वयं भारतवासिनः स्मः, मानवाः स्मः; अपमानम् उन्मूलयामः अतः ब्राह्मणाः स्मः; अन्यायम् अपनयामः अतः क्षत्रियाः स्मः; अभावं दूरीकुर्मः अतः वैश्याः स्मः; सेवां च कुर्मः अतः शूद्राः न अपि तु महाशूद्राः स्मः। वयं भारतस्य संविधानं, लोकतन्त्रं, साक्षाद् भारतं च स्मः; अस्मासु वेदाः सन्ति, सनातनः अस्ति, अस्माकम् अन्तः भारतं निवसति। स्वामी जी प्रावोचत् यद् अस्मिन् सम्मेलने देशविदेशेभ्यः छात्राः अनुसन्धानाय अध्ययनाय च समागताः सन्ति; ‘भारतीय-शिक्षा-बोर्ड’ माध्यमेन मैकॉले- प्रवर्तितायाः शिक्षायाः भारतं मोचयितुम् अस्माकम् उद्देश्यं वर्तते।

सम्मेलनं सनातनस्य गौरवस्य पुनर्प्रतिष्ठापनाय युगान्तरकारिणः सङ्कल्पस्य प्रारम्भः वर्तते- आचार्य- बालकृष्ण- महाराजः
सम्मेलने परमपूज्येन आचार्य-बालकृष्ण-महाराजेन उक्तं यद् अखिलभारतीय-प्राच्यविद्या-सम्मेलनं केवलं कोऽपि शैक्षणिकोत्सवः नास्ति, अपि तु श्रद्धेय-स्वामि-महाराजस्य नेतृत्त्वे यम् इतिहासम् अत्र वयं लेखितुं प्रवृत्ताः स्मः, सः सनातनस्य तं गौरवं पुनः प्रतिष्ठापयितुम् एकस्य युगान्तरकारिणः सङ्कल्पस्य प्रारम्भः अस्ति। आचार्यचरणैः उक्तं यद् अत्र संस्कृतेः, शास्त्रस्य, समयेन सह शास्त्रेषु वर्धमानस्य वैचारिकप्रदूषणस्य च विषये चर्चा भविष्यति। तेषां शास्त्राणां विषये चर्चा भविष्यति यानि विकृतयितुं जनैः कुत्सितः प्रयासः विहितः, सहैव तेषां सम्पूर्णसमाधानेऽपि गम्भीरविमर्शः भविष्यति। वयं सर्वे जानीमः यद् अस्माकं सनातनवाङ्मयं यद्यपि अगाधं निष्कलङ्कं च अस्ति, तथापि मध्यकालस्य आघातैः, वैदेशिकाक्रान्तृभिः, कुटिलषड्यन्त्रकारिभिः, सङ्कीर्णमानसिकतया च अस्माकं मूलग्रन्थेष्वपि तादृशाः भ्रामकाः विषयाः प्रक्षिप्ताः ये ऋषीणां मूलचिन्तनस्य, सामाजिक- समरसतायाः, विश्वकल्याणभावनायाश्च विपरीताः सन्ति। एतान् एव प्रक्षेपान् आधारीकृत्य अस्माकं महतीं संस्कृतिं कलङ्कयितुं कुत्सितं षड्यन्त्रं प्रचलति। अस्माकं पूज्यैः यतिभिः समाजस्य च मनीषिभिः एव अस्माकं संस्कृतेः तस्याः गौरवस्य च पुनः प्रतिष्ठापनं कर्तुं शक्यते। निश्चितरूपेण यदि वाक्यं तर्कस्य, न्यायस्य, सार्वभौमिकसत्यस्य च निकषे शुद्धं न सिद्ध्यति, तर्हि तत् ऋषिवचनं शास्त्रसम्मतं वा भवितुं नार्हति। आचार्यचरणैः विज्ञापितं यत् श्रद्धेय- स्वामि- महाराजस्य नेतृत्त्वे पतञ्जलितः नूतनशास्त्रनिर्माणस्य महत् कार्यं क्रियते। पतञ्जलिना अनेकेषां विदुषां सहयोगेन लक्षाधिकानां श्लोकानां रचनां कृत्वा आयुर्वेदस्य, योगस्य, वनस्पतीनाम्, आयुर्वेदनिदानस्य च क्षेत्रेषु उल्लेखनीयं कार्यं विहितम्। शास्त्रस्य आधुनिकसमयस्य च मध्ये विद्यमानं व्यवधानं दूरीकर्तुं कार्यम् अपि पतञ्जलितः एव क्रियते। पतञ्जलिविश्वविद्यालयः अनेन पावनेन सङ्कल्पेन अग्रे सरति यद् वयम् आधुनिकविज्ञानस्य दृष्ट्या सनातनस्य च प्रज्ञया अस्य राष्ट्रस्य पुनर्निर्माणं विधास्यामः। ऋषीणां मूलज्ञानं वयम् अकाट्यं मन्यामहे, किन्तु तेषां नाम्नि समाजे आरोपिताः कुरीतयः प्रक्षिप्ताः श्लोकाश्च प्राच्यविद्यायाः मूलसन्देशरूपेण न मन्तव्याः।

अस्माभिः प्राच्यविद्यायाः अपि अग्रे गत्वा ‘भारतविद्या’ प्रति गन्तव्यम्- प्रो. श्रीनिवास वरखेडी
सम्मेलनस्य अध्यक्षैः केन्द्रीय- संस्कृत- विश्वविद्यालयस्य च कुलसचिव-कुलपति-चरणैः प्रो. श्रीनिवास-वरखेडी-महोदयैः उक्तं यद् यदा वैदेशिकाः भारते अध्ययनाय आगताः तदा ते विस्मिताः अभवन्, प्रथमावलोकने भारतं तेषां बोधगम्यं नाभवत्। तदा भारतीयैः विद्वद्भिः विचारितं यद् अनेन भारतस्य विरूपता न स्याद् इत्यनेनैव उद्देश्येन तैः अखिलभारतीय- प्राच्यविद्या- सम्मेलनस्य शुभारम्भः कृतः। स्वातन्त्र्यात् पूर्वम् आङ्ग्लशासने इदम् ‘ऑल इण्डिया ओरियण्टल कॉन्फ्रेन्स’ (AIOC) इति नाम्ना उच्यते स्म; किन्तु यदि भारतीयपरिप्रेक्ष्ये द्रष्टव्यं तर्हि भारतीयदृष्टिः अपि तत्र समावेष्टव्या, अन्यथा भारतस्य अपूर्णम् अखण्डं च दर्शनमेव स्यात्। तैः प्रस्तावम् उपस्थाप्य अस्मिन् संशोधनस्यानुरोधः कृतः, उक्तं च यद् अद्य स एव अवसरः यदा वयं ‘ओरियण्टल्’-शब्दस्य स्थाने ‘प्राच्यविद्या’-शब्दस्य प्रयोगं कुर्याम। अस्माभिः प्राच्यविद्यायाः अपि अग्रे गत्वा ‘भारतविद्या’ प्रति गन्तव्यम्।
अखिलभारतीय-प्राच्यविद्या-परिषदः महासचिवया प्रो. कविता-होले-महोदयया एआईओसी (AIOC) संस्थायाः गौरवमयीं परम्परां प्रतिपादयन्त्या उक्तं यद् इदं भारतस्य समृद्धायाः, प्राचीनायाः, समुज्ज्वलायाश्च परम्परायाः एकं गौरवपूर्णं मञ्चम् अस्ति। तया विज्ञापितं यत् परिषदः स्थापनायाः उद्देश्यं भारतस्य प्राचीनज्ञानपरम्परायाः, संस्कृत- साहित्यस्य, भारतीय- दर्शनस्य, इतिहासस्य, धर्माभिलेखस्य, पाण्डुलिपीनां च व्यवस्थितम् अनुसन्धानं प्रोत्साहयितुं वर्तते। अस्मिन् अवसरे राज्यपालमहोदयेन ‘भारतीयदर्शनानाम् इतिहासः मीमांसा च’, ‘वेदामृतं’, ‘भारतीयदर्शनबोधः’ इति पुस्तकानां विमोचनम् अपि विहितम्।

शास्त्रार्थविशेषपटलेन (पैनल) शोधपत्रप्रस्तुतिभिश्च समृद्धं जातं सम्मेलनम्
२९ तः ३१ अक्तूबर २०२६ यावत् आयोजितेऽस्मिन् सम्मेलने पूर्णसत्रैः सह विशेषपटलचर्चाः (पैनलचर्चाः), शोधपत्रप्रस्तुतयः, भित्तिपत्रप्रस्तुतयः (पोस्टर- प्रस्तुतयः), ‘महर्षिपतञ्जलिसभा’, ‘ब्रह्मवादिनीसभा’ सदृशानि समानान्तरसत्राणि च आयोजितानि। प्रथमदिवसस्य कार्यक्रमे प्रातः योगगुरोः स्वामि-रामदेव-महाराजस्य सान्निध्ये योगसत्रं, पुस्तकमेलायाः उद्घाटनं, सम्मेलनस्य समुद्घाटनं, प्रथमं पूर्णसत्रं च समाविष्टानि आसन्। अपराह्णे ‘मूल-स्वामिनारायण-दर्शनम्’ इति विषये विशेषपटलचर्चया सह विविधाः शोधपत्र- भित्तिपत्रप्रस्तुतयः सम्पन्नाः।
एतेषु सत्रेषु संस्कृतस्य, वेदस्य, दर्शनस्य, इतिहासस्य, साहित्यस्य, भारतीयज्ञानपरम्परायाश्च विविधायामेषु विचारविमर्शः क्रियते। सम्मेलनस्य उद्देश्यं प्राचीनभारतीय- ज्ञानन्यासस्य प्रामाणिकाध्ययनं प्रोत्साहयितुं, संस्कृतस्य संवर्धनं वेगेन विस्तारयितुं, पारम्परिकज्ञानं चाधुनिकशिक्षा- अनुसन्धानाभ्यां सह संयोजयितुम् अस्ति।
कार्यक्रमावधौ राज्यपालेन डॉ. ढालसिंहबिसेन- महोदयेन भव्यस्य पुस्तकमेलायाः उद्घाटनं विहितम्। पुस्तकप्रकोष्ठैः सुसज्जितायाम् अस्यां मेलायां भारतीयज्ञानपरम्परायाः, संस्कृत- साहित्यस्य, दर्शनस्य, वैदिकवाङ्मयस्य, आयुर्वेदस्य, प्राच्यविद्यायाश्च सम्बद्धानां ग्रन्थानां प्रदर्शनं कृतम्। अस्मिन् कार्यक्रमे भारतीयविद्वत्परिषदः अध्यक्षाः आचार्य- वीरनारायण- पाण्डुरङ्गी- महोदयाः, गणेश- उमाकान्त- थीटे- महोदयाः, एआईओसी- संयुक्तसचिवः प्रो. शिवानीमहोदया, त्रयोविंशतेः (२३) विश्वविद्यालयानां कुलपतयः, पतञ्जलि- विश्वविद्यालयस्य प्रतिकुलपतिः साध्वी डॉ. देवप्रिया- महोदया, मानविकीसङ्कायाध्यक्षाः मयङ्क- अग्रवाल- महोदयाः, पतञ्जलिपरिवारस्य ज्येष्ठाः सदस्याः, संन्यासिनः भ्रातरः, संन्यासिन्यः भगिन्यः, सर्वेषां प्रभागमुख्याः, विभागाध्यक्षाः, कर्मयोगिनः, पतञ्जलिविश्वविद्यालयस्य प्राचार्याः, छात्राश्च उपस्थिताः आसन्।

You Might Also Like

52th AIOC – संस्कृतजगतः महाकुम्भः – हरिद्वारे पतञ्जलिविश्वविद्यालये अद्य प्रारभ्यते द्विपञ्चाशत्तमम् अखिलभारतीय-प्राच्यविद्या-सम्मेलनम्

52th AIOC – अस्माकं महतः पूर्वजान्, देवी-देवताः, अवतारीसत्ताः च प्रत्यारोप्य कलङ्कयितुं प्रचलति षड्यन्त्रम् – स्वामी रामदेवः

*श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना।* 

दीपावली प्राक् महार्घतावृत्ति: (DA) सर्वकारेण ३% वृद्धिः अनुमता

न्यायिक-अवरोध-अवधेः समाप्त्यनन्तरं सीजेपी-नेत्रोः सौरवदासस्य आशुतोषरांकायाः च मुक्ति-आदेशः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article 52th AIOC – संस्कृतजगतः महाकुम्भः – हरिद्वारे पतञ्जलिविश्वविद्यालये अद्य प्रारभ्यते द्विपञ्चाशत्तमम् अखिलभारतीय-प्राच्यविद्या-सम्मेलनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?