सेशेल्स् मुख्यद्वीपे माहे-इत्यस्मिन् औद्योगिकक्षेत्रे विशालविस्फोटस्य अनन्तरं आपत्कालस्य घोषणा कृता अस्ति । एतेन विस्फोटेन माहेद्वीपस्य पूर्वक्षेत्रं पूर्णतया नष्टम् अस्ति । वाणिज्यिकभवनानि, समीपस्थानि निवासस्थानानि च पतितानि सन्ति । सेशेल्स्-देशस्य राष्ट्रपतिः वेवेल् रामकलावनः सर्वान् जनान् स्वगृहेषु एव स्थातुं आदेशं दत्तवान् । अस्यां घटनायां बहवः जनाः घातिताः सन्ति। निर्माणखननकम्पनीयां विस्फोटः अभवत् । तत्र चतुर्षु पात्रेषु विस्फोटकं स्थापितं यस्य कारणेन विस्फोटः अभवत् । अस्मिन् विस्फोटे अन्तर्राष्ट्रीयविमानस्थानकं क्षतिग्रस्तं जातम् किन्तु पर्यटकानां कृते अद्यापि विमानस्य सुविधाः उपलभ्यन्ते। ११५ द्वीपैः युक्तः सेशेल्स्-देशः पर्यटकानां कृते आकर्षकः देशः अस्ति । आफ्रिकादेशे सेशेल्स्-देशः न्यूनतमजनसंख्यायुक्तः देशः अस्ति, यस्य कुलजनसंख्या केवलं एकलक्षं भवति ।
सेशेल्सस्य मुख्यद्वीपे माहे-इत्यस्मिन् औद्योगिकक्षेत्रे विशालविस्फोटानन्तरं आपत्कालस्य घोषणा कृता
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
