By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: स्पीति-क्षेत्रस्य विकासाय पञ्चशतकोटि-रूप्यकाणि व्ययीभविष्यन्ति, पञ्चांश-न्यूने तापे भूमौ उपविश्य मुख्यमन्त्रिणा सुक्खू-महोदयेन श्रुताः समस्याः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > स्पीति-क्षेत्रस्य विकासाय पञ्चशतकोटि-रूप्यकाणि व्ययीभविष्यन्ति, पञ्चांश-न्यूने तापे भूमौ उपविश्य मुख्यमन्त्रिणा सुक्खू-महोदयेन श्रुताः समस्याः
हिमाचलवार्ता

स्पीति-क्षेत्रस्य विकासाय पञ्चशतकोटि-रूप्यकाणि व्ययीभविष्यन्ति, पञ्चांश-न्यूने तापे भूमौ उपविश्य मुख्यमन्त्रिणा सुक्खू-महोदयेन श्रुताः समस्याः

डॉ मनोज शैल
Last updated: 2026/10/15 at 9:33 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

स्पीति-क्षेत्रस्य विकासाय पञ्चशतकोटि-रूप्यकाणि व्ययीभविष्यन्ति, पञ्चांश-न्यूने तापे भूमौ उपविश्य मुख्यमन्त्रिणा सुक्खू-महोदयेन श्रुताः समस्याः

हिमसंस्कृतवार्ता — काजा (लाहौल-स्पीति)।

स्पीति-उपत्यकायां पञ्चांश-न्यूने (–५° सेल्शियस्) तापे रात्रौ प्रायः नववादने मञ्जुश्री-स्थानं प्राप्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः स्थानीयजनैः सह संवादम् अकरोत्। सः भूमौ उपविश्य प्रायः सार्धैकघण्टां यावत् जनानां समस्याः शृण्वन् आसीत्। अस्मिन् अवसरे सः स्थानीयवेशभूषायां पारम्परिकनृत्येषु अपि सम्मिलितः जातः। वार्तालापस्य मध्ये एका बालिका मुख्यमन्त्रिणः अङ्के (उत्सङ्गे) सुप्ता, यस्याः चित्रं सामाजिकमाध्यमेषु अत्यधिकं प्रसारितं भवति। मुख्यमन्त्रिणा द्विदिनात्मकस्य काजा-प्रवासस्य समये आगामिकालखण्डे स्पीति-क्षेत्रस्य विकासाय पञ्चशतकोटि-रूप्यकाणां (₹५०० कोटिः) व्ययस्य घोषणा कृता। तेन ११६.२८ कोटिरूप्यकाणां विविधानां विकासपरियोजनानां लोकार्पणादिकं शिलान्यासश्च कृतः।

 

रङ्गरीक्-स्थाने कृतः रात्रिप्रवासः

‘सर्वकारः ग्रामस्य द्वारे’ (सरकार गांव के द्वार) इति कार्यक्रमान्तर्गततया रङ्गरीक्-स्थाने रात्रिप्रवासस्य समये मञ्जुश्री-स्थाने जनानां समस्याः श्रुत्वा अधिकारिभ्यः समाधानस्य निर्देशाः प्रदत्ताः। मुख्यमन्त्रिणा रोङ्गटोङ्ग-स्थाने घटिकासञ्चयप्रणाल्या सञ्चालितस्य प्रदेशस्य प्रथमस्य सौर-ऊर्जा-संयन्त्रस्य लोकार्पणं कृतम्। अनेन प्रतिवर्षं प्रायः षट्त्रिंशल्लक्षं (३६ लक्षं) यू्निट्-विद्युदुत्पादनस्य सम्भावना वर्तते। समदो-काजा-स्थानयोः ४७.९५ कोटिरूप्यकाणां व्ययेन निर्मीयमाणयोः ६६/२२ किलोवोल्ट्-विद्युदुपकेन्द्रयोः आधारशिला स्थापिता। समदो-काजा-सञ्चरणमार्गस्य निर्माणे प्रायः ३५० कोटिरूप्यकाणि व्ययीभविष्यन्ति, अस्य च वर्षत्रये समापनस्य लक्ष्यं निर्धारितम् अस्ति।

 

 स्पीति-क्षेत्रस्य विद्युत्समस्यायाः स्थायीसमाधानं विधास्यते : मुख्यमन्त्री

मुख्यमन्त्रिणा उक्तं यत् स्पीति-क्षेत्रस्य विद्युत्समस्यायाः स्थायीसमाधानं विधास्यते। कुञ्जुम्-गिरिद्वारस्य (दर्रे) अधः आन्तर्भौमिकमार्गस्य निर्माणाय सर्वेक्षणस्य विस्तृतपरियोजनाप्रतिवेदनस्य (DPR) च निर्माणाय घोषणा कृता। काजा-स्थाने हेलीपोर्ट्-निर्माणाय अपि सर्वेक्षणं विधास्यते। स्पीति-उपत्यकां प्राकृतिककृषिक्षेत्रत्वेन उद्घोषयितुमपि सङ्कल्पः कृतः। मुख्यमन्त्री रङ्गरीक्-स्वास्थ्य-उपकेन्द्रं प्राथमिकस्वास्थ्यकेन्द्ररूपेण स्तरोन्नयनं विधातुं बालिकाछात्रावासस्य निर्माणाय च द्विकोटिरूप्यकाणां राशिं दातुं घोषितवान्। काजा-चिकित्सालये स्त्रीरोगविशेषज्ञस्य औषधिविशेषज्ञस्य (Medicine Specialist) च चिकित्सकानां नियुक्तिः अपि शीघ्रमेव क्रियते।

 

अग्रिमशैक्षणिकसत्रात् नैतिकशिक्षायाः आरम्भाय वक्तव्यम्

काजा-स्थिते सीबीएसई-विद्यालये छात्रैः सह संवादकाले सः आगमिशैक्षणिकसत्रात् नैतिकशिक्षायाः प्रारम्भाय अकथयत्। अस्य कृते पाठ्यचर्या सज्जीक्रियमाणा वर्तते। पाठ्यक्रमे पर्यावरण-अध्ययनस्य समावेशाय प्रदत्तस्य परामर्शस्य तेन प्रशंसा कृता। काजा-स्थाने महाविद्यालयस्योद्घाटनस्य सम्भावनानाम् अन्वेषणं, छात्रेभ्यः विशेषप्रशिक्षणम् (Coaching), कौशलप्रशिक्षणपाठ्यक्रमाणां प्रारम्भः तथा पर्यटनसम्बद्धप्रशिक्षणस्य विषये विचारं कर्तुमपि आश्वासनं दत्तम्।

You Might Also Like

ग्रामीणमार्गाणां विस्तृत-परियोजना-प्रतिवेदनस्य प्राविधिकपरीक्षणम् अस्मिन्नेव मासे भविष्यति सम्पूर्णम्, ३०० तः अधिकानां मार्गाणां निर्माणाय वर्तते सज्जा

Gaggal Airport – तन्त्वारोपणाय (तारबन्दीकरणाय) १.१६ कोटिरूप्यकाणि विमुक्तानि, गगल-विमानपत्तन-विस्तारः प्राप्तवान् गतिम्, लोकनिर्माणविभागः करिष्यति कार्यम्

त्रयस्त्रिंशत् लघु-जलविद्युत्-परियोजनानां पुनः आबण्टनं, मन्त्रिमण्डले निरस्तीकृतं परियोजनानां वितरणम्

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article त्रयस्त्रिंशत् लघु-जलविद्युत्-परियोजनानां पुनः आबण्टनं, मन्त्रिमण्डले निरस्तीकृतं परियोजनानां वितरणम्
Next Article Gaggal Airport – तन्त्वारोपणाय (तारबन्दीकरणाय) १.१६ कोटिरूप्यकाणि विमुक्तानि, गगल-विमानपत्तन-विस्तारः प्राप्तवान् गतिम्, लोकनिर्माणविभागः करिष्यति कार्यम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?