By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन स्वच्छतापक्षोत्सवः आयोजितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > बिहारवार्ताः > वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन स्वच्छतापक्षोत्सवः आयोजितः
बिहारवार्ताः

वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन स्वच्छतापक्षोत्सवः आयोजितः

डॉ.अमनदीप शर्मा
Last updated: 2026/10/05 at 9:38 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

वी. एस. जे. महाविद्यालयस्य ‘रासेयो’-इकाई- माध्यमेन रासेयो- स्थापनादिवस- सह- स्वच्छतापक्षोत्सवः आयोजितः।
‘रासेयो’ (NSS) समाजसेवायाः माध्यमेन व्यक्तित्वविकासस्य प्रमुखमधिष्ठानं, येन चरित्रनिर्माणं मानवीयगुणानां विकासश्च सम्भवः- डॉ. चौरसिया
हिमसंस्कृतवार्ता:- राघव नाथ झा, राजनगरम्
विश्वेश्वरसिंहजनता- महाविद्यालयस्य (राजनगरम्, मधुबनी) ‘राष्ट्रीयसेवा-योजना’ घटकस्य तत्त्वावधाने प्रधानाचार्यस्य प्रो. आलोकपाठकस्य मार्गदर्शने, कार्यक्रमपदाधिकारिण्याः डॉ. विभाकुमार्याः च संयोजने विगत- २४ सितम्बरतः ३ अक्तूबर- २०२६ पर्यन्तं राष्ट्रीयसेवा-योजनायाः स्थापनादिवस- सहस्वच्छतापक्षोत्सवस्य सफलम् आयोजनं सम्पन्नम्।
कार्यक्रमस्य समापनसमारोहे स्वयंसेवकाः रासेयो- लक्ष्यगीतस्य- “उत्तिष्ठत समाजाय उत्तिष्ठत…” इति सस्वरगायनेन साकं पूर्णोत्साहेन सक्रियतया च महाविद्यालयपरिसरे पूर्णस्वच्छतायै सामूहिकं श्रमदानम् अकुर्वन्। अस्मिन् स्वच्छताभियाने पर्यावरणसंरक्षणं मनसि निधाय उद्यानकर्मणि तथा च वृक्षारोपणकर्मणि विशेषो बलो दत्तः। अस्मिन् पञ्चदशदिवसीये कार्यक्रमे विविधानां गतिविधीनाम् अन्तर्गतं स्वयंसेवकाः निबन्ध- भाषण- प्रतियोगितासु सांस्कृतिककार्यक्रमेषु चापि सोत्साहं भागं गृहीतवन्तः।
समापनसत्रम् ‘उभय-माध्यमेन’ (हाइब्रिड-पद्धत्या) समायोजितम् अभवत्, यस्मिन् ललितानारायण- मिथिला- विश्वविद्यालयस्य (दरभंगा) रासेयो- समन्वयक- प्रथमः डॉ. आर. एन. चौरसियामहोदयः मुख्यातिथिरूपेण अन्तर्जालमाध्यमेन सम्बोध्य अवदत् यत्- “राष्ट्रीयसेवा- योजनायां स्वयंसेवकरूपेण सम्बद्धता छात्र-युवकेभ्यो राष्ट्रनिर्माणे सुनियोजित- भागभागितायै समुन्नततया च समाजसेवाकरणाय महतीं प्रेरणां प्रयच्छति।” सः अग्रे प्रावोचत् यत् रासेयो राष्ट्रियस्तरे विद्यार्थिभ्यः सामाजिक-सांस्कृतिक-गतिविधिभिः स्वसमाजस्य राष्ट्रस्य च समुन्नयने सक्रियसहयोगप्रदानस्य सुवर्णमवसरं ददाति। सः राष्ट्रीयसेवायोजनां समाजसेवायाः माध्यमेन व्यक्तित्वविकासस्य प्रमुखमाधारं प्रतिपाद्य अकथयत् यत् एतेन चरित्रनिर्माणं मानवीयगुणानां विकासश्च सम्भवति। भारतं वस्तुतो यूनां राष्ट्रमस्ति, यतो हि समग्रे जगति यूनां सर्वाधिकसङ्ख्या अत्रैव वर्तते। विदेशेष्वपि अस्मदीयाः युवानः स्वकीय- अनुशासनेन, कार्यकौशलेन, जागरूकतया च विशिष्टां प्रतिष्ठां लब्धवन्तः।
विशिष्टातिथित्वेन समागतः सुजीतकुमारः (आरक्षी- उपाधीक्षकः, यातायात-आरक्षी, मधुबनी) छात्रान् सम्बोध्य रासेयो-प्रतीकचिह्नस्य, ध्येयवाक्यस्य विषये सविस्तरं विचारविमर्शम् अकरोत्। स्ववक्तव्यानन्तरं सः सर्वान् यातायात-नियमान् प्रति चापि जागरुकान् व्यदधात्। अपरः विशिष्टातिथिः प्रमोदसर्राफः (वरिष्ठपत्रकारः, मधुबनी) स्वकीय-छात्रजीवनस्य अनुभवान् संविभज्य अस्मिन् महाविद्यालये रासेयो- इकाई- सततसक्रियताम् अवलोक्य सन्तोषं प्राकटयत्।
सांस्कृतिककार्यक्रमे छात्राभिः- काजल, आरती, माला इत्येताभि: च स्वसङ्गीतकला-प्रदर्शनेन सर्वेषां चेतांसि समावर्जितानि। सर्वे निमन्त्रितातिथयः, प्राध्यापकाः, स्वयंसेवकाश्च महाविद्यालयस्योद्याने वृक्षारोपणम् अकुर्वन्।
अस्मिन्नवसरे महाविद्यालयस्य पूर्व- रासेयो- कार्यक्रमपदाधिकारी सह आन्तरिक- गुणवत्ता- आश्वासन- प्रकोष्ठस्य निदेशकः डॉ. राजकुमाररायः, आयव्ययनिरीक्षकः सह भूगोल- विभागाध्यक्षः डॉ. विशालः, मैथिली- विभागाध्यापकः डॉ. सुरेन्द्रदासः, एनसीसी- सहयुक्त- सैन्याधिकारी सह भौतिकविज्ञान- विभागाध्यक्षः डॉ. राजीवशर्मा, दर्शनशास्त्र- विभागाध्यक्षः डॉ. मो. असलमः, राजनीतिविज्ञान- विभागाध्यक्षः डॉ. सञ्जयकुमारसाहूः इत्यादयः प्राध्यापकाः छात्रेभ्यः प्रमाणपत्रं वितीर्य तेषाम् उत्साहवर्धनम् अकुर्वन्।
कार्यक्रमस्य कुशलं सञ्चालनम् अतिथीनां स्वागतं च रासेयो- पदाधिकारिण्या डॉ. विभाकुमार्या कृतम्। समग्रस्य कार्यक्रमस्य शुभारम्भः राष्ट्रगीतेन (‘वन्दे मातरम्’) समापनं राष्ट्रगानेन (‘जन-गण-मन’) च समभवत्।

You Might Also Like

पीएमएवाई-यू २.० मध्ये बिहारस्य उत्कृष्टप्रदर्शनम्; द्वौ प्रतिष्ठितौ राष्ट्रियपुरस्कारौ प्राप्तौ

बिहारवार्ता-ःबिहारवार्ता-ः भागलपुरप्रमण्डलस्य अङ्गप्रदेशे बिहुलाविषहरीमहोत्सवस्य भव्यतया आयोजनम्

सामूहिकहिंसा-मिथ्यासङ्घट्ट-भित्तिभञ्जकशासनानां विरोधे भाकपा (माले) दलस्य प्रतिरोधप्रदर्शनम्

एल.एन.एम.यू. संस्थाने पर्यावरणजागरूकतासङ्गोष्ठी आयोजिता

कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयविश्वविद्यालये अभवत् वृक्षारोपणम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article पीएमएवाई-यू २.० मध्ये बिहारस्य उत्कृष्टप्रदर्शनम्; द्वौ प्रतिष्ठितौ राष्ट्रियपुरस्कारौ प्राप्तौ
Next Article कुड़ियां चिड़ियां (पहाड़ी कविता)- लता अवस्थी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?