सामूहिकहिंसा-मिथ्यासङ्घट्ट-भित्तिभञ्जकशासनानां विरोधे भाकपा (माले) दलस्य प्रतिरोधप्रदर्शनम्
मसौढी, पटना ४ जुलाई २०२६,
प्रेषकः राघव नाथ झा
राज्यव्यापि-प्रतिरोध-दिवसस्य अवसरे भारतीय-कम्युनिष्ट-पार्टी (माले) दलस्य नेतृत्वे सामूहिकहिंसायाः, मिथ्या-सैन्यसङ्घट्टानां, भित्तिभञ्जक-शासनस्य तथा आरक्षक-दमनस्य विरोधे एका विशाला प्रतिरोधयात्रा आयोजिता। तत्पश्चात् तारेगणा-रेलस्थानकस्य प्राङ्गणे एका जनसभा सम्पन्ना।
भाकपा (माले) दलस्य राज्यसमितिसदस्यः, पाटलिपुत्र-ग्रामीण-पश्चिम-जनपदस्य कार्यालयसचिवः च सहचर-कमलेशकुमारः सभां सम्बोधयन् अवदत् यत्— “बिहारराज्ये सुशासनस्य स्थाने सम्प्रति आरक्षक-शासनं, भित्तिभञ्जक-शासनं तथा मिथ्या-सङ्घट्ट-प्रवृत्तिः वर्धमाना दृश्यते। सामूहिकहिंसा, जात्याधारितहिंसा, दलित-पिछडावर्गीय-जनानां उपरि आक्रमणाणि च लोकतन्त्रस्य संविधानस्य च विघातकानि सन्ति।”
ते अग्रे अवदन् यत् सर्वेभ्यः पीडितेभ्यः समानन्यायः प्रदातव्यः। अपराधस्य मूल्याङ्कनं जात्याधारेण न करणीयम्। राज्ये विधिव्यवस्थायाः संरक्षणं शासनस्य परमं दायित्वम् अस्ति।
अयं प्रतिरोध-मार्चः मसौढीस्थित-‘शहीद-ए-आज़ाद-भगतसिंह’-कार्यालयतः आरभ्य आरक्षकालय-मार्गेण, मुख्यमार्गेण, रेलस्थानक-मार्गेण च गत्वा तारेगणा-रेलस्थानक-प्राङ्गणे सभारूपेण परिणतः अभवत्।
अस्य कार्यक्रमस्य आयोजने मसौढी-धनरुआ-प्रखण्डयोः भाकपा (माले) कार्यकर्तारः सक्रियतया सहभागिनः अभवन्। कार्यक्रमे राकेशः, अकलुपासवानः, नागेश्वरपासवानः, रिंकूदेवी, श्रीभगवानपासवानः, धर्मशीलादेवी, वाजनपासवानः, विद्यापासवानः, जितेन्द्ररामः, शशिरञ्जनकुमारः, सन्दीपपासवानः, गुड्डू-अन्सारी, अख्तर-अन्सारी, कमलेश-सावः, बिटेश्वर-यादवः इत्यादयः बहवः जनाः उपस्थिताः आसन्।
