पीएमएवाई-यू २.० मध्ये बिहारस्य उत्कृष्टप्रदर्शनम्; द्वौ प्रतिष्ठितौ राष्ट्रियपुरस्कारौ प्राप्तौ।
‘सर्वेभ्यः आवासः’ इति मार्गे बिहारस्य महत्युपलब्धिः, प्राप्तं राष्ट्रियपुरस्कारद्वयम्।
“बिहारस्य आवासीयोपलब्धये प्राप्ता राष्ट्रिया प्रतिष्ठा” नीतीशमिश्रः।
हिमसंस्कृतवार्ता: राघव नाथ झा, पटना।
नगरविकास- आवासविभागस्य मन्त्रिणा नीतीशमिश्रेणोक्तं यत् ‘प्रधानमन्त्रि- आवासयोजना- नगरीय २.०’ इत्यस्याः प्रभावशालिन उत्कृष्टस्य च क्रियान्वयनस्य कृते बिहारराज्याय द्वयोः प्रतिष्ठितयोः राष्ट्रिय- पुरस्कारयोः प्राप्तिः राज्यस्य कृते महतः संमानस्य विषयो वर्तते। स प्रत्यपादयत् यत् सम्मानमिदं बिहारे प्रधानमन्त्रि- आवासयोजना- नगरीय २.० इत्यस्याः साफल्येन क्रियान्वयनस्य, द्रुतगत्या आवासनिर्माणस्य, योग्यानां लाभार्थिनां च कृते योजनाया लाभं सुचारुरूपेण प्रापयितुं राज्यसर्वकारस्य सततानां प्रयासानां प्रत्यक्षं प्रमाणमस्ति।
तेन संसूचितं यत् ‘विश्वपर्यावासदिवसस्य’ अवसरे नवदेहल्याम् आयोजिते कार्यक्रमे भारतसर्वकारस्य आवासन- नगरकार्यमन्त्रालयस्य पक्षतः बिहारराज्यं द्वाभ्यां राष्ट्रियपुरस्काराभ्यां समलङ्कृतम्। अयं पुरस्कार आवासन- नगरकार्यमन्त्रालयस्य माननीयराज्यमन्त्रिणा तोखनसाहुवर्येण समर्पितः।
नीतीशमिश्रः प्रावोचत् यत् बिहारराज्याय वर्गद्वये पुरस्कारः प्रदत्तोऽस्ति-
प्रथमः- सर्वोत्कृष्टप्रदर्शनकारि-राज्य-पुरस्कारः- PMAY-U २.० इत्यन्तर्गते स्वीकृतानाम् आवासानां तुलनायां सर्वाधिकसङ्ख्यकानाम् आवासानां निर्माणप्रारम्भं सुनिश्चितीकर्तुं बिहारराज्यं ‘सर्वोत्कृष्टप्रदर्शनकारि राज्यम्’ इति रूपेण पुरस्कृतम्।
द्वितीयः- बृहद्राज्यवर्गे विशेषमान्यता-पुरस्कारः- २.० इत्यस्य निर्धारितलक्ष्यानुपातेन सर्वाधिकप्रतिशतम् आवासानां स्वीकृतिकरणे उत्कृष्टप्रदर्शनार्थं बिहारराज्याय ‘विशेषमान्यता- पुरस्कारः’ समर्पितः।
मन्त्रिणा नीतीशमिश्रेणोक्तं यत्- “यशस्विनः प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यस्य ‘सर्वेभ्य आवासः’ इति सङ्कल्पं चरितार्थयितुं बिहारराज्यं निरन्तरमग्रसरमस्ति। माननीयस्य मुख्यमन्त्रिणः सम्राट्चौधरीवर्यस्य सशक्त- समावेशि- नागरिककेन्द्रितविकासदृष्टेः अनुगुणं राज्यसर्वकारः प्रत्येकस्मै योग्यपरिवाराय सम्मानप्रदम् आवासं प्रदातुं दृढसङ्कल्पो वर्तते।”
सोऽग्रेऽवदत् यत् पुरस्कारावेतौ बिहारस्य नगरीयक्षेत्रेषु आवासनिर्माणस्य गतिं योजनायाः प्रभावपूर्णं क्रियान्वयनं च प्रदर्शयतः, सहैव निर्धनानां निर्धनतमानां तथा चावश्यकतायुक्तानां परिवाराणां जीवने सकारात्मकपरिवर्तनस्यानयनाय राज्यसर्वकारस्य प्रतिबद्धतामपि दृढीकुरुतः। नीतीशमिश्रोऽस्या उपलब्धेः कृते विभागीय- पदाधिकारिणः समग्रं दलं चाभिनन्दितवान्।
अस्मिन्नवसरे नगरविकास- आवासविभागस्य (बिहार) पक्षतः विभागस्य सचिवः डॉ. सन्दीपकुमार आर. पुडकलकट्टी, विशेषसचिवः, मिशननिदेशकः शाहिदपरवेज़ः, परियोजना- पदाधिकारी चापरनिदेशकः उमाकान्तपाण्डेयश्च पुरस्कारं गृहीतवन्तः।
