शारीरिक-शिक्षा-शिक्षकाणां पृष्ठ-शेष-पदानां (बैकलॉग) ‘जॉब-ट्रेनी’-माध्यमेन पूरणे प्रतिबन्ध:, उच्चन्यायालयेन सर्वकारात् उत्तरं याचितम्
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेश-उच्चन्यायालयेन शारीरिक-शिक्षा-शिक्षकाणां २३० पृष्ठ-शेष-पदानि (बैकलॉग) नूतन-‘जॉब-ट्रेनी’-योजनायाः अन्तर्गतं पूरयितुम् अन्तरिम-स्थगनादेशः कृतः। याचिकाकर्तॄणाम् आरोपः अस्ति यत् सर्वकारः एतानि पृष्ठ-शेष-पदानि वर्तमानानां ‘नियुक्ति: तथा पदोन्नति’-नियमानाम् (R&P Rules) अनुसारेण नियमित-रूपेण पञ्चाशत्-प्रतिशतं प्रत्यक्ष-भर्ती/अनुबन्ध-आधारेण, पञ्चाशत्-प्रतिशतं च श्रेणी-क्रमेण/बैचवाइज् पूरयितुं स्थाने एकस्याः नूतनायाः ‘जॉब-ट्रेनी’-योजनायाः माध्यमेन पूरयितुं प्रयासं करोति, यत् सर्वथा विरूद्धं विधि-विरुद्धं च वर्तते।
न्यायमूर्तेः ज्योत्स्ना-रिवाल-दुआ-महोदयायाः एकल-पीठेन प्रथम-दृष्ट्या याचिकाकर्तृभ्यः प्रस्तुतं पक्षं न्यायसङ्गतं मत्वा आदेशः प्रदत्तः यत् आगामि-श्रवणं यावत् सर्वकारः एतानि पृष्ठ-शेष-पदानि ‘जॉब-ट्रेनी’-आधारेण न पूरयिष्यति। उच्चन्यायालयेन राज्य-सर्वकाराय सम्बद्ध-प्रतिवादिभ्यश्च सूचना-पत्रं (Notice) निर्गम्य सप्ताह-द्वयाभ्यन्तरे उत्तरं प्रस्तोतुं निर्दिष्टम्।
किम् अस्ति प्रकरणम्
अस्य प्रकरणस्य अग्रिमा विचारणा ७ अक्तूबर-दिनाङ्के भविष्यति। उच्चन्यायालयेन अयं निर्णयः शैलजा-किरण-महोदयायाः तथा च अन्याभिः याचिकाभिः सह श्रवणं कुर्वता प्रसारितः।
इदं प्रकरणम् आहत्य ८७० शारीरिक-शिक्षा-शिक्षकाणां पदानां पूरणेन सह सम्बद्धम् अस्ति, यानि पदानि दीर्घ-कालात् वैधानिक-विवादानां कारणात् लम्बितानि आसन्। याचिकाकर्तृभिः विज्ञापितं यत् पुरातन-विवादे समाप्ते सति अधुना सर्वकारः एतेषां पदानां पूरण-प्रक्रियां प्रारभते। एतेषु ८७० पदेषु २३० पदानि पृष्ठ-शेष-संवर्गस्य सन्ति। सर्वकारः एतानि पृष्ठ-शेष-पदानि ‘जॉब-ट्रेनी’-आधारेण पूरयति, यत् भर्ती-पदोन्नति-नियमानां प्रतिकूलं वर्तते।
