By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: “उत्तरप्रदेशसंस्कृतसंस्थानस्य आनलाइनसंस्कृतभाषाशिक्षणकक्षा”
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > “उत्तरप्रदेशसंस्कृतसंस्थानस्य आनलाइनसंस्कृतभाषाशिक्षणकक्षा”
संस्कृतगतिविधयः

“उत्तरप्रदेशसंस्कृतसंस्थानस्य आनलाइनसंस्कृतभाषाशिक्षणकक्षा”

डॉ.अमनदीप शर्मा
Last updated: 2023/12/07 at 4:07 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

वार्ताहर:-नूतनविष्णुः रेग्मी (प्रकृतिसाधुः)
उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा २०२३ तमवर्षस्य दिसम्बरमासस्य चतुर्थे दिनाङ्के विंशतिदिवसाय( प्रतिदिनं एकघण्टात्मककालाय ) प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य एवं द्वितीयस्तरस्य च शुभारम्भ: आभासिकरूपेण (समुद्घाटनसमारोह:)बहुत्र संजात:।
एतस्मिन् एवं क्रमे राजस्थानराज्यस्य उदयपुरे प्रतापनगरतः अपि उत्तरप्रदेशसंस्कृतस्थानस्य भाषाप्रशिक्षक: नूतनविष्णु: रेग्मी गूगलमीट्माध्यमेन सायं ८ वादने द्वितीयस्तरीयसंस्कृतभाषाशिक्षणस्य कक्ष्यायाः शुभारम्भमकरोत्।यत्र बहव: पंजीकृतच्छात्रा: विभिन्नेभ्य: स्थानेभ्य: पठितुमागता:।तत्र देशत: एवं विदेशत : अपि ३५ संस्कृतानुरागिण: छात्राः समागतवन्त:। सर्वादौ मंगलमादाय नूतनविष्णु: रेग्मी (संस्कृतभाषाप्रशिक्षक:)संस्कृतकक्ष्याया: नियमान् अश्रावयत् ।केचन प्रशिक्षवः स्वपरिचयं उक्तवन्तः।कक्षागमनस्य कारणमपि ते उक्तवन्तः।
ततः सः प्रथमदिनस्य पाठं पीपीटी-माध्यमेन पाठितवान्।कक्ष्या प्रतिदिनं सायम् ८ वादनत: ९ वादनपर्यन्तं
चलिष्यतः। २६ दिसम्बर २०२३ पर्यन्तम् कक्षायाः अवधिः ।संस्कृतसंस्थाने प्रातः ८ वादनतः रात्रौ ९ वादनपर्यन्तं बह्व्यः कक्षाः सन्ति ।तासु संस्थानस्य बहवः प्रशिक्षकाः पाठयन्ति । कार्यक्रमे संस्थानस्य कार्यकारि-अध्यक्षः जितेन्द्रकुमारः, निदेशकः विनयश्रीवास्तवः,अधिकारिणौ जगदानन्दझा एवं चन्द्रकलाशाक्या,प्रशिक्षणप्रमुखः सुधीष्टकुमारमिश्रः, प्रशिक्षणसमन्वयकाः धीरजमैठाणी,राधाशर्मा दिव्यरंजनश्चोपस्थिताः आसन्।अन्ते परीक्षा अपि भविष्यति । उत्तीर्णवद्भ्य: प्रमाणपत्राणाम् वितरणस्य व्यवस्थापि संस्थानेन कृता अस्ति।उत्तरप्रदेशसंस्कृतसंस्थानेन संचालितकक्ष्याभि: एतावता बहव: उपकृता:।विशेषतः ये विद्यालयादिषु TGT/PGT इत्यनयोः कृते सज्जतां कुर्वन्ति तेऽप्यत्र पठितुमागच्छन्ति।एतया योजनया अग्रेऽपि जनाः उपकृताः भविष्यन्ति एव।शीघ्रमेव तृतीयस्तरस्यापि शुभारम्भ: भविष्यति । तस्य पाठ्यक्रमनिर्माणम् अपि जातम् अस्ति ।शीघ्रमेव तस्य आरम्भः अपि भविष्यति इति सम्भावना।
ये एतां नि:शुल्क-कक्षामागन्तुकामा: ते “sanskritsambhashan.com” इति लिंक् उद्घाट्य तत्र स्वानुकूलतया मासं (जनवरी )
२०२४ अनुकूलसमयं च चीत्वा स्वस्य नामांकनं कारयितुं शक्नुवन्ति।ये प्रथमस्तरं पठितवन्त: विशेषतः तेभ्य: अन्येभ्यश्च द्वितीयस्तरस्य प्रशिक्षणमपि संस्थानेन दीयते ।परीक्षायाम् ३३% उत्तीर्णवद्भ्य: शिक्षार्थिभ्य: ७५% उपस्थितेभ्यः प्रशिक्षुभ्यः प्रमाणपत्राणि अपि दूरवाणीसन्देशमाध्यमेन प्रेषणव्यवस्था अस्ति। केभ्यश्चित् मासेभ्यः उत्तरप्रदेशसंस्कृत संस्थानं “गृहे गृहे संस्कृतम् “इति योजनायाः समारम्भं कृत्वा संस्कृतस्य प्रचारे प्रसारे च विशिष्टं योगदानं कुर्वत् अस्ति । ये द्वितीयस्तराय स्वस्य नि:शुल्कं नामांकनं कर्तुमिच्छन्ति तेभ्य: नामांकनलिंक् “https://sanskritsambhashan.com/second_level_reg.php“इत्यस्ति।उद्घाटनसत्रस्य अन्ते नूतनविष्णुः शान्तिमन्त्रेण सत्रस्य समापनमकरोत्।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

LBS विश्वविद्यालये “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article भाजपा धर्मस्य राजनीतिं करोति, वयं तेभ्यः बृहत्तराः हिन्दव: – विक्रमादित्यसिंह:
Next Article कर्मफलं वा ईश्वरेच्छा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?