By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > उत्तरप्रदेशसंस्करणम् > संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः
उत्तरप्रदेशसंस्करणम्धर्मसंस्कृतिःराष्ट्रीयवार्ताःविविध

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

सत्येंद्र पाठक:
Last updated: 2026/08/27 at 8:40 PM
सत्येंद्र पाठक:
Share
3 Min Read
SHARE

 

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।

लखनऊ। संस्कृतसप्ताहस्य अवसरॆ संस्कृतभारत्याः पूर्वीउत्तरप्रदेशसङ्गठनमन्त्री प्रमोदपण्डितः संस्कृतस्य महत्त्वं भारतीयज्ञानपरम्परायां तस्याः भूमिकां च विषयीकरणं कृत्वा महत्त्वपूर्णान् विचारान् प्रस्तुतवान्। सः अवदत् यत् राष्ट्रस्य वास्तविकपरिचयः केवलं तस्य सीमाभिः न भवति, अपितु तस्य सामूहिकस्मृतौ, ज्ञानपरम्परायां जीवनदृष्टौ च सुरक्षितः भवति। भारतस्य सन्दर्भे अस्याः ज्ञानस्मृतेः विराटः अध्यायः संस्कृते निहितः अस्ति।

प्रमोदपण्डितः अवदत् यत् यस्यां भाषायां भारतीयमनीषिभिः ऋतः ब्रह्मपर्यन्तं, गणितात् खगोलपर्यन्तं तथा व्याकरणात् दर्शनपर्यन्तं स्वीयं चिन्तनं प्रकाशितम्, तां केवलं प्राचीनभाषाम् इति मत्वा परित्यक्तुं न उचितम्। संस्कृतदिवसः केवलं औपचारिककार्यक्रमेषु, श्लोकपाठेषु अथवा सप्ताहपर्यन्तं सांस्कृतिककार्यक्रमेषु च सीमितः न भवेत्, अपितु भारतस्य बौद्धिकयात्रायाः पुनरवलोकनस्य अवसरः भवेत् इति तेन प्रतिपादितम्।

सः अवदत् यत् भारतीयजीवनदृष्टौ शिक्षा केवलं जीविकोपार्जनस्य साधनं नासीत्, अपितु आत्मबोधस्य, विवेकस्य, चरित्रनिर्माणस्य तथा जीवनस्य व्यापकप्रयोजनस्य बोधस्य च माध्यमम् आसीत्। उपनिषदां वचनम् “सा विद्या या विमुक्तये” अस्याः शिक्षादृष्टेः सारं प्रकाशयति।

संस्कृतं केवलं आध्यात्मिकग्रन्थानां भाषा इति धारणा अपूर्णा इति कथयन् प्रमोदपण्डितः अवदत् यत् संस्कृतवाङ्मये वेदाः, उपनिषदः, दर्शनानि, व्याकरणम्, स्मृतयः, पुराणानि, काव्यानि च सन्ति। तदतिरिक्तं कृषिः, अर्थव्यवस्था, राज्यव्यवस्था, चिकित्सा, गणितम्, खगोलशास्त्रम्, धातुविज्ञानम्, रसायनम्, स्थापत्यम्, वनस्पतिविज्ञानम्, सङ्गीतम्, नाट्यम्, नृत्यम्, युद्धकला इत्यादीनां विविधक्षेत्राणां ज्ञानमपि संस्कृतवाङ्मये उपलब्धम् अस्ति।

सः अवदत् यत् संस्कृतात् दूरी केवलं भाषायाः दूरी नास्ति, अपितु तेषां मूलस्रोतसां दूरी अपि अस्ति, येभ्यः भारतीयसभ्यतया स्वकीयाः प्रश्नाः पृष्टाः तेषां समाधानानि च अन्विष्टानि। अनुवादेन ग्रन्थस्य सामान्यः आशयः ज्ञातुं शक्यते, किन्तु मूलभाषायां निहितां व्युत्पत्तिं, अर्थच्छटां, ध्वनिं तथा सन्दर्भगतां गहनतां मूलसंस्कृतपाठेन एव समीचीनतया ज्ञातुं शक्यते।

पाणिनीयव्याकरणपरम्परायाः उल्लेखं कुर्वन् सः अवदत् यत् भाषायाः सूक्ष्मं विश्लेषणं, अनुशासनं तथा वैज्ञानिकदृष्टिः भारतीयभाषिकमनीषायाः महत्त्वपूर्णा उपलब्धिः अस्ति। संस्कृतस्य अनेकाः शब्दाः केवलं भाषायाः अङ्गानि न सन्ति, अपितु भारतीयचिन्तनस्य विशिष्टानाम् अवधारणानां संवाहकाः सन्ति।

भारतीयभाषाणां परस्परसंबन्धस्य विषये अपि तेन संस्कृतस्य महत्त्वं प्रतिपादितम्। हिन्दी-सहितासु अनेकासु भारतीयभाषासु संस्कृतस्य शब्दसम्पदः गहनः प्रभावः दृश्यते। संस्कृतम् भारतीयभाषाणां मध्ये सांस्कृतिकं भाषिकं च सेतुरूपेण महत्त्वपूर्णां भूमिकां निर्वहति।

आत्मनिर्भरभारतस्य सन्दर्भे प्रमोदपण्डितः अवदत् यत् आत्मनिर्भरता केवलम् अर्थव्यवस्थायाः विषयः न भवेत्। ज्ञाने पराश्रयः सन् पूर्णस्य आत्मनिर्भरत्वस्य कल्पना कठिनास्ति। आधुनिकविज्ञानस्य, प्रौद्योगिक्याः अन्यभाषाणां च त्यागः न अपेक्षितः, अपितु आधुनिकज्ञानं स्वीकुर्वता स्वकीयज्ञानस्रोतांसि न विस्मर्तव्यानि इति तेन स्पष्टं कृतम्।

सः संस्कृतस्य वर्तमानस्थितिं प्रति चिन्तां प्रकटयन् अवदत् यत् संस्कृतं विद्यालयानां शास्त्रीयसंस्थानां च सीमाभ्यः बहिः निष्कास्य परिवारैः, विश्वविद्यालयैः, सामाजिकसंस्थाभिः सामान्यजनैश्च सह सम्बद्धं करणीयम्। संस्कृतसप्ताहः केवलम् उत्सवपर्यन्तं सीमितः न भवेत्, अपितु अध्ययनस्य जिज्ञासायाश्च स्थायीप्रवृत्तिं जनयेत्।

अन्ते प्रमोदपण्डितः अवदत्— “संस्कृतं पठितुं केवलं भाषां ज्ञातुं न, अपितु शब्दस्य पृष्ठतः स्थितं चिन्तनं, शास्त्रस्य पृष्ठतः स्थिता मनीषां तथा भारतीयसभ्यतायाः जीवितां स्मृतिं च ज्ञातुम् अस्ति।”

सः संस्कृतसप्ताहं भारतीयज्ञानपरम्परायाः आत्मस्मृतेः जागरणस्य पुनरुत्थानस्य च अवसरः कर्तुं समाजं प्रति आह्वानं कृतवान्।

You Might Also Like

बाराबङ्क्याम् संस्कृतप्रतिभान्वेषणप्रतियोगितायां विद्यार्थिभिः प्रदर्शिता प्रतिभा

बालिका-संस्कृत-विद्यापीठे रक्षाबन्धन-संस्कृतदिवसयोः भव्यः समारोहः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

अयोध्यायां जनपदस्तरीयः संस्कृतप्रतिभाखोजप्रतियोगिताः सम्पन्नाः

कर्नूल-नगरे निर्मीयमाणं ‘ड्रोन सिटी’ देशस्य प्रथमा परियोजना भविष्यति: नागरविमाननमन्त्री के. राममोहननायडू

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article बागपते जनपदीयाः संस्कृतगीत-सामान्यज्ञानप्रतियोगिताः सम्पन्नाः
Next Article ‘श्रेष्ठशाला-सन्दर्शनम्’ अन्तर्गतं श्रीसोनारी-प्राथमिकविद्यालयस्य सन्दर्शनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?