
संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः
हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।
लखनऊ। संस्कृतसप्ताहस्य अवसरॆ संस्कृतभारत्याः पूर्वीउत्तरप्रदेशसङ्गठनमन्त्री प्रमोदपण्डितः संस्कृतस्य महत्त्वं भारतीयज्ञानपरम्परायां तस्याः भूमिकां च विषयीकरणं कृत्वा महत्त्वपूर्णान् विचारान् प्रस्तुतवान्। सः अवदत् यत् राष्ट्रस्य वास्तविकपरिचयः केवलं तस्य सीमाभिः न भवति, अपितु तस्य सामूहिकस्मृतौ, ज्ञानपरम्परायां जीवनदृष्टौ च सुरक्षितः भवति। भारतस्य सन्दर्भे अस्याः ज्ञानस्मृतेः विराटः अध्यायः संस्कृते निहितः अस्ति।
प्रमोदपण्डितः अवदत् यत् यस्यां भाषायां भारतीयमनीषिभिः ऋतः ब्रह्मपर्यन्तं, गणितात् खगोलपर्यन्तं तथा व्याकरणात् दर्शनपर्यन्तं स्वीयं चिन्तनं प्रकाशितम्, तां केवलं प्राचीनभाषाम् इति मत्वा परित्यक्तुं न उचितम्। संस्कृतदिवसः केवलं औपचारिककार्यक्रमेषु, श्लोकपाठेषु अथवा सप्ताहपर्यन्तं सांस्कृतिककार्यक्रमेषु च सीमितः न भवेत्, अपितु भारतस्य बौद्धिकयात्रायाः पुनरवलोकनस्य अवसरः भवेत् इति तेन प्रतिपादितम्।
सः अवदत् यत् भारतीयजीवनदृष्टौ शिक्षा केवलं जीविकोपार्जनस्य साधनं नासीत्, अपितु आत्मबोधस्य, विवेकस्य, चरित्रनिर्माणस्य तथा जीवनस्य व्यापकप्रयोजनस्य बोधस्य च माध्यमम् आसीत्। उपनिषदां वचनम् “सा विद्या या विमुक्तये” अस्याः शिक्षादृष्टेः सारं प्रकाशयति।
संस्कृतं केवलं आध्यात्मिकग्रन्थानां भाषा इति धारणा अपूर्णा इति कथयन् प्रमोदपण्डितः अवदत् यत् संस्कृतवाङ्मये वेदाः, उपनिषदः, दर्शनानि, व्याकरणम्, स्मृतयः, पुराणानि, काव्यानि च सन्ति। तदतिरिक्तं कृषिः, अर्थव्यवस्था, राज्यव्यवस्था, चिकित्सा, गणितम्, खगोलशास्त्रम्, धातुविज्ञानम्, रसायनम्, स्थापत्यम्, वनस्पतिविज्ञानम्, सङ्गीतम्, नाट्यम्, नृत्यम्, युद्धकला इत्यादीनां विविधक्षेत्राणां ज्ञानमपि संस्कृतवाङ्मये उपलब्धम् अस्ति।
सः अवदत् यत् संस्कृतात् दूरी केवलं भाषायाः दूरी नास्ति, अपितु तेषां मूलस्रोतसां दूरी अपि अस्ति, येभ्यः भारतीयसभ्यतया स्वकीयाः प्रश्नाः पृष्टाः तेषां समाधानानि च अन्विष्टानि। अनुवादेन ग्रन्थस्य सामान्यः आशयः ज्ञातुं शक्यते, किन्तु मूलभाषायां निहितां व्युत्पत्तिं, अर्थच्छटां, ध्वनिं तथा सन्दर्भगतां गहनतां मूलसंस्कृतपाठेन एव समीचीनतया ज्ञातुं शक्यते।
पाणिनीयव्याकरणपरम्परायाः उल्लेखं कुर्वन् सः अवदत् यत् भाषायाः सूक्ष्मं विश्लेषणं, अनुशासनं तथा वैज्ञानिकदृष्टिः भारतीयभाषिकमनीषायाः महत्त्वपूर्णा उपलब्धिः अस्ति। संस्कृतस्य अनेकाः शब्दाः केवलं भाषायाः अङ्गानि न सन्ति, अपितु भारतीयचिन्तनस्य विशिष्टानाम् अवधारणानां संवाहकाः सन्ति।
भारतीयभाषाणां परस्परसंबन्धस्य विषये अपि तेन संस्कृतस्य महत्त्वं प्रतिपादितम्। हिन्दी-सहितासु अनेकासु भारतीयभाषासु संस्कृतस्य शब्दसम्पदः गहनः प्रभावः दृश्यते। संस्कृतम् भारतीयभाषाणां मध्ये सांस्कृतिकं भाषिकं च सेतुरूपेण महत्त्वपूर्णां भूमिकां निर्वहति।
आत्मनिर्भरभारतस्य सन्दर्भे प्रमोदपण्डितः अवदत् यत् आत्मनिर्भरता केवलम् अर्थव्यवस्थायाः विषयः न भवेत्। ज्ञाने पराश्रयः सन् पूर्णस्य आत्मनिर्भरत्वस्य कल्पना कठिनास्ति। आधुनिकविज्ञानस्य, प्रौद्योगिक्याः अन्यभाषाणां च त्यागः न अपेक्षितः, अपितु आधुनिकज्ञानं स्वीकुर्वता स्वकीयज्ञानस्रोतांसि न विस्मर्तव्यानि इति तेन स्पष्टं कृतम्।
सः संस्कृतस्य वर्तमानस्थितिं प्रति चिन्तां प्रकटयन् अवदत् यत् संस्कृतं विद्यालयानां शास्त्रीयसंस्थानां च सीमाभ्यः बहिः निष्कास्य परिवारैः, विश्वविद्यालयैः, सामाजिकसंस्थाभिः सामान्यजनैश्च सह सम्बद्धं करणीयम्। संस्कृतसप्ताहः केवलम् उत्सवपर्यन्तं सीमितः न भवेत्, अपितु अध्ययनस्य जिज्ञासायाश्च स्थायीप्रवृत्तिं जनयेत्।
अन्ते प्रमोदपण्डितः अवदत्— “संस्कृतं पठितुं केवलं भाषां ज्ञातुं न, अपितु शब्दस्य पृष्ठतः स्थितं चिन्तनं, शास्त्रस्य पृष्ठतः स्थिता मनीषां तथा भारतीयसभ्यतायाः जीवितां स्मृतिं च ज्ञातुम् अस्ति।”
सः संस्कृतसप्ताहं भारतीयज्ञानपरम्परायाः आत्मस्मृतेः जागरणस्य पुनरुत्थानस्य च अवसरः कर्तुं समाजं प्रति आह्वानं कृतवान्।
