HP NEWS – ‘एनएचएम’ बाह्य-स्रोत-कर्मचारिणां वर्धितं मानदेयम्; एताभ्यः पञ्च-श्रेणीभ्यः लप्स्यते लाभः
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेशे राष्ट्रिय-स्वास्थ्य-अभियानस्य (NHM) अन्तर्गतं बाह्य-स्रोत-आधारेण सेवां यच्छतां कर्मचारिणां मानदेये वृद्धिः कृता। अभियानेन परिचारिकायाः (उपचारिकायाः), औषध-प्रदातृणां (फार्मासिस्ट), प्रयोगशाला-तन्त्रज्ञानां (लैब तकनीशियन) तथा च शल्यक्रिया-कक्ष-सहायकानां मासिक-मानदेयं पञ्चविंशति-सहस्र-रूप्यकाणि (२५,०००) निर्धारितम्। तत्रैव दत्त-प्रविष्टि-सञ्चालकाय (डाटा एण्ट्री ऑपरेटर) अधुना प्रति-मासम् अष्टादश-सहस्र-रूप्यकाणि (१८,०००) मानदेयं प्राप्स्यते। संशोधितानि वेतनानि १ सितम्बर २०२६ दिनाङ्कात् प्रवर्तिष्यन्ते। राष्ट्रिय-स्वास्थ्य-अभियानस्य अभियान-निदेशकेन अस्मिन् विषये आदेशाः प्रसारिताः।
हिमाचलप्रदेश-स्वास्थ्य-परिवार-कल्याण-समित्याः अधिशासी-निकायस्य (प्रशासक-मण्डलस्य) उपवेशने स्वीकृतस्य निर्णयस्य तथा च २०२६-२७ वर्षाय भारत-सर्वकारस्य स्वास्थ्य-परिवार-कल्याण-मन्त्रालयात् प्राप्तायाः अनुमतेः अनन्तरम् एषः निर्णयः स्वीकृतः।
आदेशस्य प्रतिलिपयः राज्य-सर्वकारस्य स्वास्थ्य-सचिवाय, स्वास्थ्य-सेवा-निदेशकाय, सर्वेभ्यः मुख्य-चिकित्साधिकारिभ्यः, राष्ट्रिय-स्वास्थ्य-अभियानस्य संयुक्त-नियन्त्रकाय, सर्वेभ्यः खण्ड-चिकित्साधिकारिभ्यश्च आवश्यक-कार्यानुष्ठानाय प्रेषिताः। अधुना स्वास्थ्य-विभागेन राष्ट्रिय-स्वास्थ्य-अभियानेन च सम्बद्धैः संस्थानैः १ सितम्बर-तः संशोधित-मानदेयानुसारं कर्मचारिभ्यः धन-प्रदानं सुनिश्चितं कर्तव्यं भविष्यति।
