By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः
संस्कृतगतिविधयः

त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः

डॉ मनोज शैल
Last updated: 2026/07/29 at 9:14 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः

 

हिमसंस्कृतवार्ता: — शिमला।

हिमाचलप्रदेशे गतेषु त्रिषु वर्षेषु खनिजानां दोहनेन प्राप्यमाणे राजस्वे प्रायः ७० प्रतिशतं यावत् वृद्धिः अभिलिखिता। मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खू महोदयेन बुधवासरे राज्यसचिवालये उद्योगविभागस्य अन्तर्गतं खनन-पक्षस्य कार्याणां समीक्षा कृता। अस्मिन् अवसरे तेन राजस्वस्य विवरणेषु सन्तोषं प्रकटयता अवैध-खननस्य पर्यावरण-संरक्षणस्य च विषये अधिकारिभ्यः कठोराः दिशानिर्देशाः प्रसारिताः। अस्यां उच्चस्तरीय-समीक्षा-उपवेशने उद्योगमन्त्री हर्षवर्धनचौहानः, प्रधानसचिवा एम. सुधादेवी, पर्यावरण-विज्ञान-प्रविधि-जलवायुपरिवर्तन-सचिवः डॉ. सुशीलकुमारसिंगला, उद्योगनिदेशकः विवेकभाटिया, हिमकोस्ट-संस्थायाः संयुक्त-सदस्य-सचिवः डॉ. सुरेशचन्दअत्री इत्येतेषां सह अनेके अन्ये वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।

 

खनन-राजस्वं २०० कोटितः वर्धित्वा ३४० कोटिरूप्यकाणि प्राप्तम्

मुख्यमन्त्रिणा समीक्षा-उपवेशने विवरणानि रकटी-कुर्वता ज्ञापितं यत् राज्ये खनन-गतिविधिभिः आयमाने आय-राशौ महती वृद्धिः अभवत्। वित्तवर्षे २०२१-२२ मध्ये मुख्य-लघु-खनिजेभ्यः प्रदेशाय २०० कोटिरूप्यकाणां राजस्वं प्राप्तम् आसीत्। तत्रैव, अधुना २०२५-२६ वर्षस्य कृते एतद् अङ्कं वर्धित्वा ३४० कोटिरूप्यकाणि यावत् प्राप्तः अस्ति, यत् राज्यस्य अर्थव्यवस्थायाः कृते एकं सकारात्मकं पदम् अस्ति।

 

प्रतिवेशि-राज्यैः आरोपिते कर-विषये प्रकटीकृता चिन्ता

राजस्वे वृद्धेः अनन्तरम् अपि, मुख्यमन्त्रिणा सीमावर्ती-राज्यानां नीतिषु चिन्ता प्रकटीकृता। तेन प्रोक्तं यत् प्रतिवेशि-राज्यानि पञ्जाब-हरियाणा-उत्तराखण्ड-प्रभृतयः हिमाचलात् गच्छत्सु लघु-खनिजेषु अतिरिक्तं शुल्कम् आरोपितवन्तः। अस्य कारणेन प्रदेशस्य सीमावर्ती-क्षेत्रेभ्यः खनिजानाम् निर्याते न्यूनीकरणं जातं राजस्व-प्राप्तिश्च प्रभाविता अभवत्। मुख्यमंत्री.-महोदयेन अधिकारिणः निर्दिष्टाः यत् एषः विषयः प्रतिवेशि-राज्यैः सह विधिवत्-रूपेण उत्थापनीयः।

 

केन्द्रसर्वकारात् उत्थापयिष्यते सुधा-प्रस्तरस्य (चूना पत्थर) ‘रॉयल्टी’-विषयः

मुख्यमन्त्रिणा सुक्खू-महोदयेन केन्द्रसर्वकारस्य नीतीनां चर्चां कुर्वन् प्रोक्तं यत् २०१४ वर्षात् केन्द्रसर्वकारेण सुधा-प्रस्तरस्य ‘रॉयल्टी’-दरेषु किमपि संशोधनं न कृतम्। अस्मात् कारणात् राज्यस्य राजस्वे विपरीत-प्रभावः पतन् अस्ति। तेन स्पष्टीकृतं यत् हिमाचलं स्वकीयम् उचितम् अधिकारं प्राप्तुं अस्य विषयस्य केन्द्रसर्वकारस्य सम्मुखे प्रमुखतया उत्थापनं करिष्यति।

 

पर्यावरण-संरक्षणेन सह भविष्यति वैज्ञानिकं खननम्

मुख्यमन्त्रिणा स्पष्टीकृतं यत् विकासः पर्यावरण-संरक्षणं च द्वे अपि सह-सह प्रवर्तेताम्। तेन सम्बद्ध-विभागाः निर्दिष्टाः यत् प्रदेशे खनिजानां दोहनं वैज्ञानिक-पर्यावरणानुकूल-विधिना एव सुनिश्चितं क्रियेत। प्राकृतिक-संसाधनानां दोहनं केवलं निर्धारित-नियमानां मानकानां च अनुरूपं भवेत्। तेन उक्तं यत् हिमाचलस्य पारिस्थैतिकी अतीव कोमला अस्ति, अतः नदीनां, उपनदीनां, वनानां, प्राकृतिक-धरोहराणां च कस्यापि प्रकारस्य क्षतिः न भवेत्।

 

अवैध-खनने ‘जीरो-टॉलरैंस’ निरन्तर-निरीक्षणस्य च दत्ताः निर्देशाः

अवैध-खनने कठोरं पक्षं धरन् मुख्यमन्त्रिणा अधिकारिणः निर्दिष्टाः यत् नियमानां उल्लङ्घनं कुर्वताम् विरुद्धं कठोर-वैधानिकी-कार्याविधि: प्रवर्तितव्या। तेन प्रोक्तं यत् खननं केवलं सर्वकारेण चिह्नितेषु क्षेत्रेषु एव करणीयम्। सम्बद्धाः संस्था: (Agencies) नियमित-रूपेण निरीक्षणं कुर्युः गतिविधीनां निरन्तरं ध्यानं च सुनिश्चितं कुर्युः, येन पर्यावरणाय कापि क्षतिः न भवेत्।

You Might Also Like

जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्

राहुलगान्धी सदनस्य गरिमां पातयित्वा देशं भ्रामयितुं राजनीतिं करोति – अनुरागठाकुर:

कर्मचारिणां वरिष्ठता-प्रकरणे हिमाचल-सर्वकाराय सर्वोच्च-न्यायालयात् प्रत्याघात:, विशेष-अनुमति-याचिका (SLP) निरस्ता

भाजपा-दलस्य राज्यसभा-सांसदेन हर्षमहाजनेन सह गृह मन्त्रिणः अमितशाहस्य शिष्टाचारमेलनम्

ई-टैक्सी-सेवा हेतु आयुसीमा संवर्ध्य ५० वर्षाणि कृता, आवेदनस्य अन्तिमतिथिः अपि १ मासम् यावत् वर्धिता

TAGGED: Cm Sukhu, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, मुख्यमंत्री सुक्खुः, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article कर्मचारिणां वरिष्ठता-प्रकरणे हिमाचल-सर्वकाराय सर्वोच्च-न्यायालयात् प्रत्याघात:, विशेष-अनुमति-याचिका (SLP) निरस्ता
Next Article राहुलगान्धी सदनस्य गरिमां पातयित्वा देशं भ्रामयितुं राजनीतिं करोति – अनुरागठाकुर:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?