By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कर्मचारिणां वरिष्ठता-प्रकरणे हिमाचल-सर्वकाराय सर्वोच्च-न्यायालयात् प्रत्याघात:, विशेष-अनुमति-याचिका (SLP) निरस्ता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > कर्मचारिणां वरिष्ठता-प्रकरणे हिमाचल-सर्वकाराय सर्वोच्च-न्यायालयात् प्रत्याघात:, विशेष-अनुमति-याचिका (SLP) निरस्ता
प्रादेशिकवार्ताहिमाचलवार्ता

कर्मचारिणां वरिष्ठता-प्रकरणे हिमाचल-सर्वकाराय सर्वोच्च-न्यायालयात् प्रत्याघात:, विशेष-अनुमति-याचिका (SLP) निरस्ता

डॉ मनोज शैल
Last updated: 2026/07/29 at 9:11 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

कर्मचारिणां वरिष्ठता-प्रकरणे हिमाचल-सर्वकाराय सर्वोच्च-न्यायालयात् प्रत्याघात:, विशेष-अनुमति-याचिका (SLP) निरस्ता

हिमसंस्कृतवार्ता: — शिमला ।

सर्वोच्च-न्यायालयेन हिमाचलप्रदेश-उच्चन्यायालयस्य तं निर्णयं स्थिरीकृतम् यस्मिन् राज्यसर्वकारस्य पक्षतः २०२४ तमे वर्षे पारितं ‘हिमाचलप्रदेश-सरकारी-कर्मचारी (भर्ती-सेवा-शर्ताः) अधिनियमम्’ पूर्णतया अस्वीकृत्य निरस्तं कृतम् आसीत्। सर्वोच्च-न्यायालयस्य न्यायाधीशस्य विक्रमनाथस्य न्यायाधीशस्य संदीपमेहतायाश्च खण्डपीठेन स्पष्टीकृतं यत् सा उच्चन्यायालयस्य निर्णये हस्तक्षेपं कर्तुं न इच्छति। यद्यपि, राज्यसर्वकारस्य पक्षतः उपस्थितस्य महाधिवक्तुः अनुरोधे सर्वोच्च-न्यायालयेन साहाय्यतां यच्छता उच्चन्यायालयस्य आदेशानाम् अनुपालनाय ४ मासानाम् अतिरिक्तः समयः प्रदत्तम्। शीर्ष-न्यायालयस्य अस्य निर्णयस्य परं प्रदेशसर्वकाराय अधुना सर्वथा कर्मचारिणां वरिष्ठता, अवशिष्टांश; तथा च आर्थिक-लाभाः प्रसारणीयाः भविष्यन्ति।

उल्लेखनीयम् अस्ति यत् उच्चन्यायालयस्य न्यायाधीशस्य विवेकसिंहठाकुरस्य न्यायाधीशस्य रोमेशवर्मणश्च खण्डपीठेन २५ अप्रैल २०२६ दिनाङ्के राज्यसर्वकारस्य एतं अधिनियमम् असंवैधानिकं घोषयित्वा पूर्णतया निरस्तं कृतम् आसीत्। उच्चन्यायालयस्य अस्य निर्णयस्य विरुद्धं प्रदेशसर्वकारेण सर्वोच्च-न्यायालये एस.एल.पी. (SLP) पञ्जीकृता आसीत्। परन्तु ततः अपि प्रदेशसर्वकाराय कापि साहाय्यता न प्राप्ता। हिमाचलप्रदेश-उच्चन्यायालये कर्मचारिभिः सम्बद्धाः सहस्रशः विषयाः (मामले) प्रतिदिनं श्रवणाय लगन्ति। हिमाचलप्रदेश-उच्चन्यायालयः अस्य नियमस्य आधारे कर्मचारिभ्यः दीयमानान् लाभान् प्रत्याहर्तुं, वरिष्ठतां हर्तुं न्यूनतां वा कर्तुं सम्बद्धान् सर्वान् सर्वकारीय-निर्णयान् अस्वीकृति-पत्राणि च निरस्तवान्।

 

उच्चन्यायालयेन सक्षमेभ्यः अधिकारिभ्यः ३ मासाभ्यन्तरे सेवा-लाभान् प्रदातुं दत्तः आदेशः

उच्चन्यायालयेन सक्षमेभ्यः अधिकारिभ्यः आदेशः दत्तः आसीत् यत् ते न्यायिक-निर्णयानां संवैधानिक-प्रावधानानां च अन्तर्गतं पात्रेभ्यः कर्मचारिभ्यः ३ मासाभ्यन्तरे तेषां सेवा-लाभान् प्रयच्छन्तु। उच्चन्यायालयेन स्वकीये ऐतिहासिक-निर्णये स्पष्टीकृतं यत् राज्य-विधानमण्डलस्य पार्श्वे न्यायालयैः दत्तान् निर्णयान् परिवर्तयितुं प्रभावहीनान् वा विधातुं कश्चिद् अधिकारः नास्ति। उच्चन्यायालयः एतं नियमं शक्तीनाम् पृथक्कीकरणस्य, नियमस्य शासनस्य तथा च संविधानस्य १४ १६ च अनुच्छेदयोः (समानतायाः अधिकारः) उल्लङ्घनं मेने। न्यायालयेन टिप्पणीं कुर्वता प्रोक्तं यत् सर्वकारेण न्यायालयानाम् ऐतिहासिक-निर्णयान् (यथा ताज-मोहम्मद-प्रकरणम्) प्रभावहीनान् विधातुं नियमं रचयित्वा न्यायिक-शक्तिषु अतिक्रमणं कृतम्।

संविधानस्य ३०९ अनुच्छेदाय राज्यं लोकसेवानां नियमान् रचयितुं शक्तिं यच्छति, परन्तु तादृशं किमपि नियमं रचयितुं अनुमतिं न यच्छति यत् संवैधानिक-संरचनायाः न्यायिक-आदेशानां च विपरीतं भवेत्। उच्चन्यायालयेन रेखाङ्कितं यत् राज्यसर्वकारेण १२ दिसम्बर २००३ दिनाङ्कात् पूर्वं नियुक्तेभ्यः अनुबन्ध-कर्मचारिभ्यः न्यायालयस्य आदेशानाम् अन्तर्गतं लाभाः दत्ताः, यदा च १२ दिसम्बर २००३ दिनाङ्कात् परं आर-एण्ड-पी (R&P) नियमानाम् अन्तर्गतं पूर्ण-पारदर्शक-प्रक्रियया चिह्नितेभ्यः कर्मचारिभ्यः लाभेभ्यः वञ्चितं कर्तुं प्रयासः कृतः। एषा द्विमुखी नीतिः १४ अनुच्छेदस्य प्रत्यक्षम् उल्लङ्घनम् ऐच्छिकं च पदम् अस्ति।

You Might Also Like

जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्

राहुलगान्धी सदनस्य गरिमां पातयित्वा देशं भ्रामयितुं राजनीतिं करोति – अनुरागठाकुर:

त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः

भाजपा-दलस्य राज्यसभा-सांसदेन हर्षमहाजनेन सह गृह मन्त्रिणः अमितशाहस्य शिष्टाचारमेलनम्

ई-टैक्सी-सेवा हेतु आयुसीमा संवर्ध्य ५० वर्षाणि कृता, आवेदनस्य अन्तिमतिथिः अपि १ मासम् यावत् वर्धिता

TAGGED: High court, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, Supreme court, अन्तर्राष्ट्रीय समाचार, उच्चतम: न्यायालय:, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, सर्वोच्च न्यायालय, सर्वोच्चन्यायालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल उच्च न्यायालय, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ऊनाजनपदे डोहगीस्थे सनातनधर्म-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमा-महोत्सवस्य भव्यायोजनम्
Next Article त्रिषु वर्षेषु खनिजेभ्यः प्राप्ते राजस्वे ७०% वृद्धि:, मुख्यमंत्रिणा सुक्खुना अवैध-खनने शून्य-सहनशीलतायै निर्देशाः दत्ताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?