विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा
वार्ताहर: – जगदीश डाभी (महाराष्ट्रम्)
(हिमसंस्कृतवार्ता:)
”गीर्वाणवाणी” इत्यस्य उपक्रमस्य माध्यमेन यथार्थरूपेण “विश्वगुरुत्वं” प्राप्तानां, लोकमान्यटिळकमहाविद्यालयवणी इत्यत्र संस्कृतविभागप्रमुखानां तथा च संतगाडगेबाबाअमरावतीविश्वविद्यालयस्य संस्कृतपाठ्यक्रममण्डलनियामकस्य विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयानां महाराष्ट्रशासनस्य उच्च-तन्त्रशिक्षणविभागेन घोषितः “महाराष्ट्रराज्यमहाकविकालिदाससंस्कृतसाधनापुरस्कारः” तावत् तेभ्यः यावत्पर्यन्तं विश्वतः प्राप्यमाणायां लोकमान्यतायां राजमान्यतायाः राजमुद्रा एव अस्ति। ९६ ग्रन्थाः, ३०ई-पुस्तकानि, ६ पुस्तकानां सम्पादनम्, ६००० वृत्तपत्रेषु लेखाः,५००० व्याख्यान-प्रवचनानि, त्रिंशत्तः अधिकैः मान्यवरसंस्थाभिः प्रदत्ताः पुरस्काराः, लिम्का-बुक-ऑफ-रेकॉर्ड्, नॅशनल-बुक-ऑफ-रेकॉर्ड्, इण्टरनॅशनल-बुक-ऑफ-रेकॉर्ड्, इण्डिया-बुक-ऑफ-रेकॉर्ड् तथा लण्डन-बुक-ऑफ-रेकॉर्ड् इत्येतासु विक्रमपुस्तिकायाम् पञ्चभिः विभिन्नैः उपक्रमैः कृता विक्रम: एष: विस्मयकारिणः कार्यस्य एतद् महान् सम्मानः अस्ति।

’गीर्वाणवाणी’ यूट्यूब्-वाहिन्याः माध्यमेन नीतिशतकम्, मेघदूतम्, अभिज्ञानशाकुन्तलम्, स्वप्नवासवदत्तम, वेदान्तसारः, भारतीयस्वयंशिक्षापद्धतिः, रसास्वादोऽन्योक्तीनाम् इत्यादयः विभिन्ननिरूपणमालिकाः प्रसरन्ति, याभिः सहस्रशः संस्कृतप्रेमिणः लाभान्विताः भवन्ति।
राष्ट्रीयशैक्षणिकसंसाधनस्वयं-इत्यस्य अनुसरणेन तैः एषु विषयेषु निर्मिताः सर्वे ऑनलाईन-निःशुल्क-अभ्यासक्रमाः विश्वतः सहस्रशः संस्कृतप्रेमिणां प्रचुरं प्रतिसादं प्राप्नुवन्ति।
‘दैनिकहिन्दुस्थान’ पत्रे नित्यं प्रकाश्यमाना तेषां रघुवंशमहाकाव्यस्य लेखमाला लण्डन-बुक-ऑफ-रेकॉर्ड् इत्यनेन स्वीकृता अस्ति, शीघ्रमेव एषा मालिका नूतनं विक्रमं स्थापयिष्यति।
महाराष्ट्रशासनेन प्रदत्तः अयं सम्मानः सर्वेषां संस्कृतप्रेमिणां कृते सार्थाभिमानस्य विषयः अस्ति। हिमवार्ता-परिवारस्य पक्षतः डॉ. स्वानंदगजाननपुण्डमहोदयस्य हार्दिकं अभिनन्दनम्!
