‘विकसित-वाइब्रेंट-विलेज-कार्यक्रम-२०२६’ इत्यस्य सहभागिभिः सह प्रधानमन्त्रिणः संवादः
प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् सामूहिक-सहभागिता सर्वदा भारतस्य सांस्कृतिक-परम्परायाः शक्तिः आसीत्। सः अद्य दूरदृश्य-समीक्षा (वीडियो कॉन्फ्रेंस) माध्यमेन ‘विकसित-वाइब्रेंट-विलेज-कार्यक्रम-२०२६’ इत्यस्य सहभागिभिः सह सम्भाषणं कुर्वन् एताम् उक्तिं कृतवान्। अस्मिन् अन्तराले सर्वेभ्यः राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यः च ४०० अधिकैः युवभिः स्वस्य अनुभवाः साजिताः।प्रधानमन्त्री अकथयत् यत् भारते जनाः सुदीर्घकालात् एकत्र मिलित्वा कार्यं कुर्वन्तः गीतानि गायन्ति स्म। अनेन परस्परम् एकता सुदृढा भवति तथा च सामूहिक-प्रयासाः अधिकाः आनन्ददायकाः तनावमुक्ताः च भवन्ति। सः अकथयत् यत् सर्वकारः तान् जनान् विकासस्य मुख्यधारायाः सह योजयितुं निरन्तरं प्रयासम् करोति, ये अद्यावधि इतः वञ्चिताः आसन्।प्रधानमन्त्री अकथयत् यत् अनेके युवानः अस्यां यात्रायाम् एकाकिनः निर्गताः आसन्, किन्तु ‘माई भारत’ (My Bharat) उपक्रमस्य माध्यमेन ते एकः परिवारः भूत्वा प्रतिनिवृत्ताः। सः एतां कार्यक्रमस्य महतीम् उपलब्धिं कथयन् अकथयत् यत् अनेन व्यक्तिगत-अनुभवाः राष्ट्रिय-एकतायाम् अपनत्वस्य भावनायां च परिवर्तिताः।स्वतन्त्र-रूपेण अस्यां यात्रायां सम्मीलितानां युवतीनाम् उल्लेखं कुर्वन् प्रधानमन्त्री अकथयत् यत् तासां सहभागिता भारतस्य पुत्रीणां आत्मविश्वासस्य साहसस्य च प्रतीकम् अस्ति। सः अकथयत् यत् सर्वकारः प्रत्येकं युवकं, विशेषतः देशस्य पुत्रीः आत्मविश्वासेन दृढ-सङ्कल्पेन च अग्रे नेतुं प्रतिबद्धः अस्ति।’विकसित-वाइब्रेंट-विलेज-कार्यक्रम’ इत्यस्य अन्तर्गते सहभागिनः सीमावर्ती-क्षेत्राणां सामाजिक-आर्थिक-स्थितेः, सांस्कृतिक-परम्परायाः विकास-सम्भावनानां च समीपेन ज्ञानस्य अवसरम् प्राप्नुवन्ति। एषः कार्यक्रमः सामुदायिक-सहभागितायाः, राष्ट्रिय-एकतायाः सीमावर्ती-ग्रामैः सह सम्बद्धस्य कार्यनीतिक-महत्त्वस्य च प्रति जागरुकतायाः वर्धनस्य अपि प्रयासम् करोति।
‘विकसित-वाइब्रेंट-विलेज-कार्यक्रम-२०२६’ इत्यस्य सहभागिभिः सह प्रधानमन्त्रिणः संवादः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
