By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: दुर्घटना-निवारणाय महत् पदम्, मार्ग-निर्माणस्य प्रत्येकस्मिन् चरणे भविष्यति सुरक्षायाः परीक्षणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > दुर्घटना-निवारणाय महत् पदम्, मार्ग-निर्माणस्य प्रत्येकस्मिन् चरणे भविष्यति सुरक्षायाः परीक्षणम्
हिमाचलवार्ता

दुर्घटना-निवारणाय महत् पदम्, मार्ग-निर्माणस्य प्रत्येकस्मिन् चरणे भविष्यति सुरक्षायाः परीक्षणम्

डॉ मनोज शैल
Last updated: 2026/07/23 at 9:39 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

दुर्घटना-निवारणाय महत् पदम्, मार्ग-निर्माणस्य प्रत्येकस्मिन् चरणे भविष्यति सुरक्षायाः परीक्षणम्

हिमसंस्कृतवार्ता: — शिमला।

वर्ष २०२३ तमस्य वर्षस्य तुलनायां वर्ष २०२४ मध्ये मार्ग-दुर्घ बसटनासु ६.४८ प्रतिशतं (6.48%) यावत् ह्रासे (न्यूनतायाम्) आगते सत्यपि, हिमाचलप्रदेश-सर्वकारेण मार्ग-सुरक्षां इतोऽपि सुदृढां विधातुं दुर्घटनानां न्यूनीकरणाय च उद्देश्येन अन्यः एकः महत्त्वपूर्णः उपायः गृहीतः। मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खू महोदयेन प्रतिपादितं यत् राज्यसर्वकारेण लोकनिर्माणविभागस्य अधीने आगच्छन्तीनां रथ्यानां (सड़कों के) कृते ‘मार्ग-सुरक्षा-परीक्षण-नीतिं’ (Road Safety Audit Policy) प्रवर्त्य अनुमतिः प्रदत्ता, येन मार्ग-सुरक्षा राज्ये मार्गाणां योजनायाः, संरचनायाः (डिजाइन), निर्माणस्य, सञ्चालनस्य, संवर्धनस्य च अभिन्नः भागः विधातुं शक्येत। विशेषरूपेण हिमाचलसदृशे पार्वत्यराज्ये दुर्गम-भूभागे, तीक्ष्ण-वृत्तेषु (मोड़ों पर), प्रतिकूलेषु वातावरण-परिस्थितिषु च अतिरिक्ताः सङ्कटाः उत्पद्यन्ते, येन मार्ग-सुरक्षा एका गम्भीरा सार्वजनिक-चिन्तायाः विषयः संजाता अस्ति। मार्ग-सुरक्षा-सम्बन्धीनां त्रुटीनां क्रमिक-परिचयस्य तासां प्रभाविनः निस्तारणस्य च आवश्यकतां ध्यात्वा राज्यसर्वकारेण ‘भारतीय-मार्ग-काङ्ग्रेस’ (IRC) संस्थायाः दिशानिर्देशानां संस्तुतीनां च अनुरूपम् एका व्यापिका ‘मार्ग-सुरक्षा-परीक्षण-संरचना’ स्वीकृता। अस्याः नीतेः उद्देश्यं मार्ग-अधोसंरचनायां परिष्कार:, दुर्घटनानां सङ्कटस्य न्यूनीकरणं, सर्वेषां मार्ग-उपयोक्तॄणां कृते अधिक-सुरक्षित-मार्ग-सञ्जालस्य विकासश्च अस्ति।

 

पञ्चसु महत्त्वपूर्णेषु चरणेषु भविष्यति मार्ग-सुरक्षा-परीक्षणम्

अस्याः नीतेः अन्तर्गतं कस्यापि मार्ग-परियोजनायाः पञ्चसु महत्त्वपूर्णेषु चरणेषु मार्ग-सुरक्षा-परीक्षणं विधास्यते। एतेषु व्यवहार्यता अथवा प्रारम्भिक-संरचना-चरणम् (Feasibility Stage), विस्तृत-परियोजना-प्रतिवेदन-चरणम् (DPR Stage), निर्माण-चरणम्, मार्गं यातायाताय उद्घाटनात पूर्वस्य चरणम्, पूर्वमेव निर्मितानां मार्गाणां परीक्षणं च समाविष्टम् अस्ति। व्यवहार्यता-चरणे परीक्षकाः (Auditors) मार्ग-चयनस्य, मार्ग-संरेखणस्य (Alignment), चौराहा-क्षेत्राणां, क्रॉस-सेक्शन-क्षेत्राणां, विद्यमान-मार्ग-सञ्जालस्य च सम्पर्कस्य परीक्षणं करिष्यन्ति। विस्तृत-संरचना-चरणे ज्यामितीय-संरचनायाः, मार्ग-संकेतकानां, मार्ग-चिह्नाङ्कनस्य, प्रकाश-व्यवस्थायाः, संवेदनशील-मार्ग-उपयोक्तॄणां (यथा पदचारिणां चक्रचालकानां च) कृते सुविधानां, मार्ग-पार्श्व-सुरक्षा-प्रावधानस्य च विस्तृता समीक्षा विधास्यते।

 

परीक्षण-परामर्शाणाम् अनुपालनस्य भविष्यति समीक्षा

निर्माण-चरणस्य अवधौ परीक्षणे कार्यस्थल-सुरक्षायाः, यातायात-प्रबन्ध-योजनायाः, श्रमिकाणां सुरक्षायाः, पूर्वं प्रदत्तानां परीक्षण-परामर्शाणाम् अनुपालनस्य च समीक्षा विधास्यते। मार्गं यातायाताय उद्घाटनात् पूर्वं दिवानिशयोः (दिन एवं रात) द्वयोः समययोः विस्तृतं निरीक्षणं भविष्यति। एतदतिरिच्य पूर्वमेव निर्मितानां मार्गाणां काले काले परीक्षणं विधास्यते येन उद्भवतां सङ्कटानां सुरक्षा-सम्बन्धीनां त्रुटीनां च परिचयं कृत्वा समयतः तासां समाधानं विधातुं शक्येत। नीत्यनुसारं मार्ग-सुरक्षा-परीक्षणं केवलं ‘भारतीय-मार्ग-काङ्ग्रेस’ (IRC) पक्षतः प्रमाणीकृताः ‘रोड-सेफ्टी-ऑडिटर’ अथवा तादृशाः विभागीय-अधिकारिणः कर्मचारिणश्च करिष्यन्ति यैः १५ दिवसीयं मार्ग-सुरक्षा-परीक्षण-प्रशिक्षणं सफलतापूर्वेण पूर्णं कृतं स्यात् पार्वत्य-मार्गाणां निर्माणस्य च कमपि १० वर्षाणाम् अनुभवः भवेत्। साकमेव एतदपि अनिवार्यं कृतं यत् परीक्षकाः स्वतन्त्राः भवेयुः यस्याश्च परियोजनायाः परीक्षणं कुर्वन्तः सन्ति, तस्याः निर्माणेन, कार्यान्वयनेन सञ्चालनेन वा तेषां कश्चिद् प्रत्यक्षः सम्बन्धः न भवेत्।

 

समर्पितः ‘मार्गसुरक्षाप्रकोष्ठ:’ स्थापयिष्यते

संस्थागत-व्यवस्थां इतोऽपि सुदृढां विधातुं लोकनिर्माणविभागस्य मुख्याकार्यालयस्य अन्तः एकः समर्पितः मार्गसुरक्षाप्रकोष्ठ:’ स्थापयिष्यते। एषः प्रकोष्ठ: (Cell) मार्ग-सुरक्षा-परीक्षण-कार्यक्रमस्य कार्यान्वयनस्य निरीक्षणं विधास्यति, प्रगतेः आकलनं करिष्यति, योग्यानाम् परीक्षकाणां ‘पैनल’ इति रचयिष्यति, अनुपालन-प्रतिवेदनानं समीक्षां करिष्यति तथा च अभियन्तॄणां (Engineers) अन्येषाम् हितधारकाणां च कृते प्रशिक्षण-जनजागरूकता-कार्यक्रमाणाम् आयोजनं विधास्यति। नीतौ एतदपि प्रावधानं विहितं यत् विभागस्य ‘अभियन्तृ-प्रमुखेन’ (Engineer-in-Chief) प्रत्येकस्मिन् त्रैमासे (Quarterly) कार्यक्रमस्य समीक्षा विधास्यते, येन अस्य प्रभावशीलता सुनिश्चिता भवेत् आवश्यकाः परिष्काराश्च कर्तुं शक्येरन्।

 

नीतौ अस्य महत्त्वपूर्णस्य प्रावधानस्य समावेशः

नीतेः एकं महत्त्वपूर्णं प्रावधानम् एतत् अस्ति यत् एककोटिलक्ष-रूप्यकाणि (1 Crore) यावत् व्यययुक्तायां प्रत्येकस्यां मार्ग-परियोजनायां मार्ग-सुरक्षा-परीक्षणाय परियोजना-व्ययस्य एकं प्रतिशतं (1%) अनिवार्यरूपेण निर्धारितं भविष्यति। एतदतिरिच्य, मार्ग-संकेतकानां, मार्ग-चिह्नाङ्कनस्य, यातायात-शान्ततायाः उपायानां, कार्यस्थल-प्रबन्धनस्य, पदचारि-सुविधानां, चक्र-मार्गाणां (Cycle Track), पार्वत्य-मार्गाणां, सुरक्षा-अवरोधकानां, चौराहा-क्षेत्राणां, ज्यामितीय-संरचनायाश्च सम्बद्धानां ‘भारतीय-मार्ग-काङ्ग्रेस’ इत्यस्याः विविधानां मानकानां मार्गदर्शिकानां च पालनम् अपि अनिवार्यं भविष्यति। अनेन एतत् सुनिश्चितं भविष्यति यत् हिमाचलप्रदेशे निर्मिताः मार्गाः सर्वोच्च-सुरक्षा-मानकानाम् अनुरूपाः भवेयुः सर्वेभ्यः मार्ग-उपयोक्तृभ्यश्च सुरक्षितां यात्राम् उपलब्धं कारयेयुः।

 

मार्ग-सञ्जालं अधिक-सुरक्षितं, सक्षमं, सुदृढं च विधातुं कटिबद्धाः स्मः — मुख्यमन्त्री

मुख्यमन्त्रिणा प्रतिपादितं यत् राज्यसर्वकारः हिमाचलप्रदेशस्य मार्ग-सञ्जालं (Road Network) अधिक-सुरक्षितं, अधिक-सक्षमं, अधिक-सुदृढं च विधातुं कटिबद्धः अस्ति। प्रत्येकस्यां मार्ग-परियोजनायां मानवजीवनस्य सुरक्षायाश्च सर्वोच्चा प्राथमिकता दीयेत। मार्ग-सुरक्षा-परीक्षण-नीतिः विकासस्य प्रत्येकस्मिन् चरणे सम्भाव्यानां सङ्कटानां परिचयं कृत्वा समयतः आवश्यकानां परिष्कारात्मकानाम् उपायानां निश्चयं विधास्यति। सुरक्षिताः मार्गाः न केवलं दुर्घटनाः रोधयन्ति जनानां जीवनं च रक्षन्ति, अपितु राज्ये आर्थिक-विकासम् उत्तम-सम्पर्क-व्यवस्थां च प्रोत्साहयन्ति।

You Might Also Like

नीट्-प्रश्नपत्र-रहस्योद्घाटन-विवादस्य मध्ये हिमाचलस्य सर्वकारीय-विद्यालयेषु बृहत्-निर्णयः

HP NEWS – निजी-विद्यालयेषु गणवेश-टाई-उपानहानां विक्रये कृते निरंस्यते मान्यता, शिक्षा-निदेशालयेन प्रसारिताः आदेशाः

नीट-प्रकरणे कठोरा कार्यविधि: अभवत्, हिमाचलसर्वकारेण प्रश्नपत्र-प्रकटनस्य दोषिणः पुरस्कृताः – जयरामठाकुरः

नीट-विषये (NEET) केन्द्रसर्वकारः चर्चायै सज्जः, विरोधाभासे विपक्षे दृश्यते भेदः

HP NEWS – निर्धनपरिवारेभ्यः ३०० यूनिट् परिमिता निःशुल्का विद्युत् प्राप्स्यते

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP NEWS – निजी-विद्यालयेषु गणवेश-टाई-उपानहानां विक्रये कृते निरंस्यते मान्यता, शिक्षा-निदेशालयेन प्रसारिताः आदेशाः
Next Article नीट्-प्रश्नपत्र-रहस्योद्घाटन-विवादस्य मध्ये हिमाचलस्य सर्वकारीय-विद्यालयेषु बृहत्-निर्णयः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?