अन्तिमावसरः; ‘दारिद्र्य-रेखात: अधस्तन’ (BPL) सूच्यां समावेशनार्थं योग्याः परिवाराः २० दिनाङ्कं यावत् कुर्वन्तु आवेदनम्
हिमसंस्कृतवार्ता — शिमला।
हिमाचलप्रदेश-सर्वकारस्य ग्रामीण-विकास-विभागेन योग्यानां परिवाराणां चयनार्थम् अन्तिम-चरणस्य प्रारम्भं कर्तुं निर्णयः स्वीकृतः। सर्वकारेण तेभ्यः परिवारैभ्यः एकः अपरः अवसरः प्रदत्तः, ये गतेषु अष्टसु चरणेषु योग्यतया युक्ताः अपि समये आय-प्रमाणपत्रं वा अन्यानि आवश्यक-प्रमाणपत्राणि उपस्थापयितुं नाशक्नुवन्, येन ते चयन-प्रक्रियायां समाविष्टाः न अभवन्।
एतादृशाः परिवाराः अधुना अन्तिमे चरणे आवेदनं कर्तुं शक्ष्यन्ति। सर्वकारेण अस्य कृते आवेदनस्य, प्रमाणीकरणस्य, अन्तिम-सूच्याः प्रकाशनस्य च समय-सीमा अपि निर्धारिता।
ग्रामीण-विकास-विभागस्य सचिवस्य सी. पालरासु-महोदयस्य पक्षतः प्रसारितेन आदेशेन ज्ञायते यत् अन्तिम-चरणे परिवाराणां चयनाय ते एव योग्यता-नियमाः प्रवर्तिष्यन्ते, ये अष्टमे चरणे निर्धारिताः आसन्। अर्थात् यैः परिवारैः पूर्वं निर्धारितानि मानदण्डानि पूरितानि आसन्, किन्तु समये प्रमाणपत्राणाम् अभावात् ते चयन-प्रक्रियायाः बहिः अभवन्, तेभ्यः अधुना स्व-योग्यतां प्रमाणीकर्तुम् अवसरः दीयते।
आय-प्रमाणपत्रस्य विषये अपि महती सहायता
अन्तिमे चरणे आवेदनं कुर्वतां परिवाराणां कृते आय-प्रमाणपत्रम् अधिकृत्य अपि सर्वकारेण सान्त्वना दत्ता। आदेशानुसारं ३१ जुलै २०२५ तः ३१ जुलै २०२६ पर्यन्तं निर्गतानि आय-प्रमाणपत्राणि अपि मान्यानि भविष्यन्ति। अनेन तेषां परिवाराणां साहाय्यं भविष्यति येषां पार्श्वे अस्मिन् काले निर्गतानि प्रमाणपत्राणि सन्ति अन्याः च योग्यता-नियमा: पूरयन्ति।
विभागेन स्पष्टीकृतं यत् केवलं सर्वेक्षणे समावेशनेन वा कस्यचित् परिवारस्य योग्य-प्राप्त्या एव तस्य नाम्ना अन्तिम-सूच्यां स्थानं प्राप्तुम् अधिकारः न लप्स्यते। सर्वेषां परिवाराणां योग्यता-परीक्षणं सर्वकारस्य निर्धारित-नियमानाम् आधारेणैव भविष्यति। अन्तिम-सूची-निर्माण-समये विभागस्य सर्वान् दिशानिर्देशान् निर्धारित-मानदण्डांश्च पालयिष्यन्ति।
त्रिषु स्तरेषु भविष्यति पत्राणां परीक्षणम्
अन्तिमे चरणे प्राप्तानां सर्वेषाम् आवेदनानां परीक्षणं विविध-स्तरेषु भविष्यति। प्रथमं ग्राम-स्तरे आवेदनानां प्रमाणपत्राणां च प्रमाणीकरणं विधास्यते। तदनन्तरं खण्ड-स्तरे मण्डल-स्तरे च परीक्षणं भविष्यति।
प्रमाणीकरणस्य संस्तुतेश्च समग्र-प्रक्रिया पूर्व-निर्धारित-नियमानुसारेण पूर्णा भविष्यति। ग्रामीण-विकास-विभागेन मार्च २०२५ मध्ये प्रसारिताः निर्देशाः तदनन्तरं कृतानि संशोधनानि च अस्यां प्रक्रियायां प्रवर्तिष्यन्ते।
सर्वकारेण अन्तिम-चरणाय समय-सीमा निर्धारिता। योग्याः परिवाराः २० सितम्बर २०२६ पर्यन्तम् आवेदनं कर्तुं शक्ष्यन्ति। एतस्मिन् काले एव आवेदनानां प्रमाणीकरणस्य संस्तुतेश्च कार्यानुष्ठानं पूर्णं भविष्यति। ततः परं विभाग-पक्षतः २५ सितम्बर २०२६ पर्यन्तम् अन्तिमा सूची प्रकाशिता भविष्यति।
योग्याः परिवाराः स्वकीयं प्रार्थनापत्रं ग्राम-पञ्चायते, विकास-खण्ड-कार्यालये, उप-मण्डलाधिकारिणः (नागरिकस्य) कार्यालये वा समर्पयितुं शक्ष्यन्ति। सर्वकारस्य अनेन निर्णयेन तेभ्यः पात्र-परिवारैभ्यः महती सान्त्वना प्राप्स्यते, ये पूर्व-चरणेषु केवलं समये प्रमाणपत्राणाम् अनुपलब्धतायाः कारणात् चयन-प्रक्रियायाः बहिर्भूताः आसन्। एषः तेषां कृते चयन-प्रक्रियायां सम्मेलनाय अन्तिमः अवसरः वर्तते।
