By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ‘विश्वपटले संस्कृतविश्वविद्यालयः स्वकीयं विशिष्टं परिचयं स्थापयेत्’ – डॉ. पंकजचान्देः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > ‘विश्वपटले संस्कृतविश्वविद्यालयः स्वकीयं विशिष्टं परिचयं स्थापयेत्’ – डॉ. पंकजचान्देः
प्रादेशिकवार्ताराष्ट्रीयवार्ताःसंस्कृतगतिविधयः

‘विश्वपटले संस्कृतविश्वविद्यालयः स्वकीयं विशिष्टं परिचयं स्थापयेत्’ – डॉ. पंकजचान्देः

डॉ मनोज शैल
Last updated: 2026/07/15 at 8:02 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

‘विश्वपटले संस्कृतविश्वविद्यालयः स्वकीयं विशिष्टं परिचयं स्थापयेत्’ – डॉ. पंकजचान्देः

‘संस्कृतविद्वांसः भारतस्य बौद्धिकी उत्कृष्टा सम्पत्ति:’ – डॉ. अतुलवैद्यः

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये ‘महाकविकालिदास-संस्कृतव्रती-राष्ट्रीयपुरस्कार-समारोह राष्ट्रे अन्ताराष्ट्रे च ख्यातिप्राप्तानां संस्कृतविदुषां भव्यं सम्मानम्

हिमसंस्कृतवार्ता: — डॉ रेणुका बोकारे, नागपुरम् ।

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयद्वारा प्रतिवर्षं पं. रामनारायण शर्मा वैद्यमहोदयस्य स्मृतौ पं. रामनारायण शर्मा आयुर्वेद-अनुसन्धानप्रतिष्ठानस्य, स्थानीयमण्डलाप्रशासनस्य तथा च महाराष्ट्रपर्यटनविकासमहामण्डलस्य (नागपुरम्) संयुक्ततत्त्वावधाने ‘महाकविकालिदास-संस्कृतव्रती-राष्ट्रीयपुरस्कारः’ प्रदीयते। संस्कृतक्षेत्रे अमूल्यं योगदानं दत्तवन्तः कुल ९ विद्वांसः विश्वविद्यालयद्वारा आयोजिते भव्यसमारोहे १५ जुलाई २०२६ दिनाङ्के रामटेकक्षेत्रे एतेन प्रतिष्ठितेन पुरस्कारेण सम्मानिताः।

पुरस्कारसमारोहस्य अध्यक्षतां विश्वविद्यालयस्य माननीयाः कुलगुरवः डॉ. अतुलवैद्यमहोदयाः विहितवन्तः। कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्थापकाः कुलगुरवः डॉ. पंकजचान्देमहोदयाः मुख्य-अतिथिरूपेण उपस्थिताः आसन्, यदा च आईसीटी विश्वविद्यालयः मुम्बई इत्यस्य पूर्वकुलगुरवः प्रो. गणपतियादवमहोदयाः विशिष्ट-अतिथिरूपेण समारोहे सम्मीलिताः अभवन्। बैद्यनाथसंस्थायाः निदेशकाः डॉ. सुरेशशर्मामहोदयाः तथा च महाराष्ट्रपर्यटनविकासमहामण्डलस्य वरिष्ठाः प्रादेशिकप्रबन्धकाः श्रीदिनेशपाटीलवर्यः विशेष-अतिथिरूपेण उपस्थिताः आसन्। संस्कृत-संस्कृतेतरभाषासङ्कायस्य अधिष्ठात्री प्रो. कविताहोले, रामटेकपरिसरस्य निदेशकाः प्रो. हरेकृष्णअगस्ती तथा च कुलसचिवः डॉ. रोशनअलोने महोदयाः सहितं बहवः गण्याः मान्याः च मञ्चासीनाः आसन्।

कार्यक्रमस्य शुभारम्भः मान्यवरैः दीपप्रज्वालनेन सह अभवत्। स्वागतं प्रास्ताविकं च भाषणम् अधिष्ठात्री प्रो. कविताहोले महोदया प्रस्तुतवती। सा अस्य पुरस्कारस्य गौरवशालिनीं परम्पराम् उल्लिखन्ती अवदत् यत् एतादृशानां प्रतिष्ठितानां विदुषां सम्माननं विश्वविद्यालयस्य कृते अत्यन्तं गौरवस्य सौभाग्यस्य च विषयः वर्तते।

अस्मिन् अवसरे पुरस्कारसमारोहस्य सचित्रे इतिहासे आधारितायाः स्मारिकायाः तथा च विश्वविद्यालयस्य ‘वैदर्भी’ इति वार्तापत्रिकायाः (समाचार पत्रिका) अपि विमोचनं (लोकार्पणं) विहितम्।

अस्मिन् समारोहे वर्ष २०२३, २०२४ तथा २०२५ तमाय वर्षाय चयनं प्राप्ताः कुल ९ विद्वांसः मान्यवराणां करकमलैः सम्मानिताः कृताः। पुरस्काराः तिसृषु श्रेणीषु—अन्तर्राष्ट्रियसंस्कृतविद्वान्, वरिष्ठसंस्कृतविद्वान् तथा च युवासंस्कृतविद्वान्—इति प्रदिष्टाः। सम्मानपत्राणां वाचनं पुरस्कारसमारोहस्य संयोजिका डॉ. रेणुकाबोकारे, प्रो. राधादेशकरः, अथर्वभारद्वाजः तथा च डॉ. सिमरनठाकुरा इत्येतैः कृतम्।

अन्तर्राष्ट्रियसंस्कृतविद्वच्छ्रेण्यां संस्कृत-शिक्षाशास्त्रयोः अन्तर्राष्ट्रियख्यातिप्राप्तविद्वान् प्रो. चान्दकिरणसलूजामहोदयः महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कारेण सम्मानितः कृतः। संस्कृतव्याकरणस्य प्राच्यविद्यायाश्च अन्तर्राष्ट्रियस्तरस्य प्रतिष्ठिता विदुषी प्रो. सरोजा भाटे (पुणे) तथा च संस्कृतव्याकरण-भाषाविज्ञान-संस्कृतप्राकृतभाषाणां प्रख्याताः विशेषाज्ञाः मिशिगनविश्वविद्यालयस्य पूर्वप्राध्यापकाः प्रो. माधव देशपांडे (कैलिफोर्निया, अमेरिका) अस्वस्थताकारणात् समारोहे उपस्थातुं न शक्नुवन्। तयोः स्थाने क्रमशः प्रो. कविताहोले तथा च प्रो. देशपांडेमहोदयस्य भगिनी डॉ. माणिकठाकरा पुरस्कारं गृहीतवत्यौ।

वरिष्ठसंस्कृतविद्वच्छ्रेण्यां संस्कृतपत्रकारिता-भारतीयज्ञानपरम्परा-प्राच्यविद्याक्षेत्रेषु अतुलनीययोगदानाय प्रख्याताः संस्कृतविद्वांसः श्रीनन्दकिशोरपत्तरकिने महोदयाः, संस्कृतस्य सुप्रसिद्धाः विद्वांसः प्रो. कालुरी हनुमंत राव (सिकन्दराबादः) तथा च भारतीयदर्शनशास्त्रस्य विशेषाज्ञाः प्रो. कृष्णकांतशर्मा महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कारेण सम्मानिताः अभवन्।

युवासंस्कृतविद्वच्छ्रेण्यां प्रख्याताः युवाविद्वांसः डॉ. रामकृष्णपेजत्ताय (चाणक्यविश्वविद्यालयः, बेङ्गलूरु), विख्याताः वेदभाष्यकाराः भारतीयदर्शनशास्त्रस्य मर्मज्ञाः पूर्णप्रज्ञपाठशाला बेङ्गलूरु इत्यस्याः निदेशकाः प्रो. वीरनारायणपांडुरंगी, तथा च संस्कृतप्रचारप्रसारस्य अग्रणी कार्यकर्त्तारः ‘संभाषणसंदेशः’ पत्रिकायाः सम्पादकाः डॉ. सचिनकठाळे (नागपुरम्) महोदयाः महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कारं प्रापन्।

अस्य पुरस्कारस्य अन्तर्गतम् अन्तर्राष्ट्रियसंस्कृतविद्वच्छ्रेण्याः तथा वरिष्ठसंस्कृतविद्वच्छ्रेण्याः प्रत्येकस्मै पुरस्कारविजेत्रे ₹५०,००० (पञ्चाशत्सहस्ररूप्यकाणि) पुरस्कारराशिः, सम्मानपत्रं, शालवस्त्रं, श्रीफलं च प्रत्तं, यदा च युवासंस्कृतविद्वच्छ्रेण्याः प्रत्येकस्मै पुरस्कारविजेत्रे ₹२५,००० (पञ्चविंशतिसहस्ररूप्यकाणि) पुरस्कारराशिः, सम्मानपत्रं, शालवस्त्रं, श्रीफलं च प्रदाय पुरस्कृतं कृतम्।

पुरस्कारप्राप्तेषु विद्वत्सु श्रीनन्दकिशोरपत्तरकिने, डॉ. माणिकठाकरा, प्रो. कृष्णकांतशर्मा, आचार्यवीरनारायणपांडुरंगी तथा च डॉ. रामकृष्णपेजत्ताय महोदयाः स्वकीयान् विचारान् प्रकटितवन्तः।

विशिष्ट-अतिथिः प्रो. गणपतियादवः स्वकीये आशीर्वचने अवदत् यत् कालिदासदिवसस्य उपलक्षणे एतादृशैः प्रतिष्ठितैः विद्वद्भिः सह एकत्र मेलनम् तस्य कृते अत्यन्तं हर्षस्य विषयः अस्ति। तेन परामर्शः दत्तः यत् विदुषाम् इव एषः प्रतिष्ठितः पुरस्कारः युवकविभ्यः अपि प्रारब्धव्याः।

मुख्यअतिथिः डॉ. पंकजचान्दे अवदत् यत् कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः तत्कालीन-जिलाधिकारी-श्रीमनुकुमारश्रीवास्तवस्य तथा च बैद्यनाथसंस्थायाः डॉ. सुरेशशर्मा महोदयस्य सहयोगात् आर्थिकसमर्थनात् च अस्य पुरस्कारस्य आरम्भं कृतवान् आसीत्। तेन प्रोक्तं यत् अद्य एतेषां नवानां विदुषां सम्माननं कुर्वन् विश्वविद्यालयः स्वयमेव धन्यताम् अनुभवति। तेन सर्वान् संस्कृतविश्वविद्यालयान आग्रहितं यत् ते वैदेशिक-छात्रेभ्यः आङ्ग्लमाध्यमेन (अंग्रेजी माध्यम से) संस्कृतशिक्षणं प्रारभन्ताम्, येन संस्कृतम् अध्येतुम् इच्छुकानां वैदेशिकविद्यर्थिनाम् आकर्षणं संस्कृतविश्वविद्यालयान् प्रति वर्धेत। यदि संस्कृतं वैश्विकस्तरे परिचयं प्रापयितुं मार्गः प्रशस्तः करणीयः, तर्हि संस्कृतशिक्षकेषु आङ्ग्लमाध्यमेन अध्यापनस्य क्षमता विकसिता करणीया भविष्यति अस्यां दिशि च सर्वैः संस्कृतविश्वविद्यालयैः गम्भीराः प्रचेष्टाः करणीयाः।

अध्यक्षीयोद्बोधने कुलगुरवः डॉ. अतुलवैद्यमहोदयाः प्रतिपादितवन्तः यत् तेषाम् इच्छा वर्तते यत् कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः वैश्विकस्तरे एकः प्रतिष्ठितः संस्थानरूपेण स्थापितः भवेत् तथा च वारङ्गापरिसरः पुनः नालन्दा इव गौरवशालिन्याः शैक्षणिकपरम्परायाः केन्द्रं जायेत। तेन प्रोक्तं यत् अस्य उद्देश्यस्य पूर्तये विश्वविद्यालयः निरन्तरं प्रयतते। तेन एतदपि कथितं यत् अद्य सम्मानिताः सर्वे विद्वांसः भारतस्य अमूल्या बौद्धिकी निधिः सन्ति तेषां सम्माननं च विश्वविद्यालयस्य कृते गौरवस्य सौभाग्यस्य च विषयः अस्ति। प्रत्येकं विद्वान् स्व-स्वशास्त्रस्य प्रकाण्डज्ञाता वर्तते तथा च भारतीयज्ञानपरम्परायाः संवर्धने तेषां योगदानम् अत्यन्तं महत्त्वपूर्णं प्रेरणादायि च अस्ति। ते सर्वान् पुरस्कारविजेतॄन् हार्दाः वर्धापनाः वितरितवन्तः।

कार्यक्रमस्य प्रभावी विद्वत्तापूर्णञ्च सञ्चालनं डॉ. सुमितकठाळे महोदयेन विहितं कुलसचिवेन डॉ. रोशनअलोने महोदयेन च सर्वेषाम् आभारः प्रकटितः।

You Might Also Like

आकस्मिक-जलप्लावेन (फ्लैश फ्लड) मलिनावशेषेण च उत्पन्ने सङ्कटे हिमाचल-उच्चन्यायालयः दृढः, किन्नौर-मण्डलस्य उपायुक्तः वैयक्तिकरूपेण न्यायालयं प्रति आक्षिप्तः

मुख्यमन्त्री सुक्खूः अवदत् – निर्धनानां भूमिहीनानां च जनानाम् अतिक्रमण-प्रकरणेषु शिथिलतार्थं निर्मास्यामः नीतिम्

MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता

‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा

अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritam, Himsanskritnews, himsanskritnews headlines, KKSU, KKSU Ramtek, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, संस्कृत विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता
Next Article मुख्यमन्त्री सुक्खूः अवदत् – निर्धनानां भूमिहीनानां च जनानाम् अतिक्रमण-प्रकरणेषु शिथिलतार्थं निर्मास्यामः नीतिम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?