होर्मुज-जलमार्गे अमेरिका-देशाय तीव्रः आघातः, अपाचे-हेलिकॉप्टर-विमानं दुर्घटनाग्रस्तम्
वाशिंगटनम्। पश्चिम-एशिया-क्षेत्रे वर्तमानेन तनावेन सह अमेरिका-देशाय कश्चन महान् आघातः प्राप्तः अस्ति। सूचना प्राप्ता यत् होर्मुज-जलमार्गस्य समीपे अमेरिकादेशस्य सैन्य-हेलिकॉप्टर-‘अपाचे’-विमानं दुर्घटनाग्रस्तं (क्रैश) जातम्। तथापि चालकद्वयं (द्वौ पायलटौ) सुरक्षितं बहिः निष्कासितम्। अपाचे-हेलिकॉप्टर-विमानस्य एषा दुर्घटना केवलं कश्चित् सयोगः अस्ति उत कस्यापि सुचिन्तिता योजना, इति विषये अधुना यावत् किमपि ज्ञातं नाभवत्।’न्यूयार्क टाइम्स’ इत्यस्य एकस्य विवरणस्य (रिपोर्ट) अनुसारं, दुर्घटनायाः अव्यवहितोत्तरमेव उद्धारकार्यं (रेस्क्यू ऑपरेशन) आरब्धम्, चालकद्वयं च सुरक्षितं बहिः आनीतम्। उल्लेखनीयं यत् इयं दुर्घटना तादृशे समये घटिता, यदा इजरायल-ईरान-देशयोः मध्ये पुनः युद्धं प्रवृत्तम् अस्ति। ईरान-इजरायल-देशयोः मध्ये निरन्तरं आक्रमणानि भवन्ति, क्षेत्रे च परिस्थितिः अतीव संवेदनशीला वर्तते।
होर्मुज-जलमार्गे अमेरिका-देशाय तीव्रः आघातः, अपाचे-हेलिकॉप्टर-विमानं दुर्घटनाग्रस्तम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
