By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > बिहारवार्ताः > इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः
बिहारवार्ताः

इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः

डॉ.अमनदीप शर्मा
Last updated: 2026/06/02 at 9:41 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः

​पाटलिपुत्रम्, २ जूनमासः
(ज्येष्ठकृष्णद्वितीया, २०८३ विक्रमीयः)।
प्रेषकः राघव नाथ झा

बिहार-शर्कराशाला-सङ्घस्य (BSMA) एकं प्रतिनिधिमण्डलम् उपमुख्यमन्त्रिणं कृषिमन्त्रिणं च विजयकुमारसिंहमहोदयम् उपगम्य राज्यस्य इक्षुकृषकाणां विविधसमस्याभिः सम्बद्धं ज्ञापनपत्रं समर्पितवत्। प्रतिनिधिमण्डलस्य नेतृत्वं संस्थायाः सचिवः नरेशभट्टः अकरोत्।
​ज्ञापनपत्रे निवेदितं यत् बिहारराज्यस्य दशसु कार्यरतासु शर्कराशालासु प्रायः द्विलक्षपञ्चाशत्सहस्राः (2,50,000) कृषकाः आश्रिताः सन्ति, प्रायः सार्धद्विलक्षहेक्टेयर् (सार्धद्विलक्ष-शतमान-परिमित-भूभागः अथवा सार्धद्विलक्ष-‘हेक्टेयर’) क्षेत्रे इक्षुकृषिः क्रियते। सम्प्रति इक्षोः वर्धनावस्थायां ‘यूरिया’-(सस्योपकारक)-उर्वरकस्य आवश्यकता अधिका वर्तते, किन्तु अनेकेषु क्षेत्रेषु तस्य उपलब्धौ कृषकाः काठिन्यम् अनुभवन्ति। अपरञ्च, क्षेत्रेषु जलप्रवाहस्य (जलावरोधस्य) समस्यया अपि कृषिः प्रभाविता अभवत्।
​विषयस्य गाम्भीर्यं विचार्य कृषिमन्त्री विजयकुमारसिंहः अवदत् यत् राज्ये उर्वरकाणां कापि न्यूनता नास्ति। तेन कृषि विभागस्य प्रधानसचिवः कृषिनिदेशकश्च निर्देशितौ यत् इक्षुकृषकाणां तथा शर्कराशाला-क्षेत्राणां कृते ‘यूरिया’-उर्वरकस्य पर्याप्तोपलब्धिः प्राथमिकतया सुनिश्चितीक्रियताम्, येन कृषकाः कस्यापि प्रकारस्य कष्टं न प्राप्नुयुः।
​मन्त्रिणा कृषकाः मृत्तिकापरीक्षणस्य आधारेण सन्तुलित-उर्वरकप्रयोगं कर्तुं तथा जैविक-प्राकृतिक-खादानां उपयोगं वर्धयितुं प्रेरिताः। तेन उक्तं यत् रासायनिक-उर्वरकेषु अतिनिर्भरता न्यूनीकर्तव्या, प्राकृतिककृषेः दिशि गमनमेव समयस्य आवश्यकता वर्तते।
​जलावरोधस्य (जलजमाव इति) समस्याविषये सः अवदत् यत् लघुजलसंसाधनविभागेन सह समन्वयं स्थापयित्वा जलनिर्गमस्य प्रभावी व्यवस्था कारयिष्यते। अस्य कृते कृषि-, लघुजलसंसाधन- तथा सहकारिता-विभागानां अधिकारिणां संयुक्तोपवेशनं (बैठक) शीघ्रमेव आहूय स्थायिसमाधानस्य उपायाः सुनिश्चिताः भविष्यन्ति।
​विजयकुमारसिंहः उक्तवान्—
​”कृषकाणां समस्यासमाधानम् अस्माकं सर्वोच्चप्राथमिकता अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा मुख्यमन्त्रिणः सम्राट्-चौधरीमहोदयस्य च नेतृत्वे सर्वकारः कृषकहितसंरक्षणाय पूर्णतया प्रतिबद्धः अस्ति। कृषकाः कस्यापि स्तरे पीडिताः न भविष्यन्ति, यूरिया-उपलब्धता तथा जलावरोधादि-समस्याः समयबद्धरूपेण समाधास्यन्ते।”
​प्रतिनिधिमण्डलेन कृषकहितसम्बद्धविषयेषु शीघ्रसंज्ञानग्रहणाय तथा सकारात्मकप्रयासाय कृषिमन्त्रिणं प्रति कृतज्ञता प्रकटीकृता।

You Might Also Like

उपमुख्यमन्त्रिणा विजयकुमारचौधरिणा पञ्चदशाभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदत्तानि

बिहार-राज्ये मुख्यमन्त्री-सम्राट-चौधरी-इत्यस्य नेतृत्वे मन्त्रिमण्डलस्य विस्तारः

प्रतिहारषष्ठी(छठ)पूजासमीक्षा ( पर्वविशेष: )-डा० विमलेशझा

बिहारविधानसभानिर्वाचनस्य तिथयः घोषिताः, मतदानं द्वयोः चरणयोः नवम्बर ६, ११ च दिनाङ्कयो: भविष्यति

बिहारराज्ये मुख्यमन्त्री-महिला-वृत्ति-योजनायाः शुभारम्भं अकरोत् प्रधानमन्त्री नरेन्द्रमोदी

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article आईपीएल’ इत्यस्य प्रथमां स्पर्धां खेलितुं धर्मशालां प्राप्ता ‘गुजरात टाइटंस’ दलम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?