राघवचड्ढा वर्येण आम-आदमी-पक्षस्य (आप) कार्यं बाधितम्, भाजपा-पक्षे विलीनीकरणस्य निर्णयेन राज्यसभायाम् समीकरणं परिवर्तितम्
राघवचड्ढस्य नेतृत्वे आम-आदमी-पक्षस्य सप्त-सांसदानां भारतीय-जनता-पक्षे (भाजपा) सम्मिलितस्य निर्णयान्तः राज्यसभायां संख्याबलं पूर्णतया परिवर्तितम्। उल्लेखनीयं वर्तते यत् आप-पक्षस्य प्रमुखनेतृषु अन्यतमः राघवचड्ढः स्वस्य द्वाभ्यां सहचर-सांसदाभ्यां सह भाजपा-पक्षं प्रविष्टवान्। चड्ढा पुष्टिं कृतवान् यत् आप-पक्षस्य आहत्य सप्त सांसदाः तेन सह सन्ति, येषु भूतपूर्वः अन्ताराष्ट्रिय-क्रिकेटक्रीडकः हरभजनसिंहः अपि सम्मिलितः अस्ति। अस्मात् घटनाक्रमात् परं उच्चसदने राजनैतिकस्थितिः पूर्णतया परिवर्तिता, भाजपा-पक्षः च स्वबलेन बहुमतस्य अत्यन्तं समीपम् आगतः।
राघवचड्ढानुसारम्, आप-पक्षस्य दश-सांसदेषु सप्त सांसदाः भाजपा-पक्षे गन्तुं निर्णयं कृतवन्तः। एषः परिवर्तनः दल-परिवर्तन-विरोधी-अधिनियमस्य (दशम-अनुसूच्याः) द्वितीयांश-बहुमतस्य नियमं पूरयति, अतः एतेषु सांसदेषु कापि अयोग्यता न प्रवर्तिष्यते। फलतः भाजपा-पक्षस्य वर्तमान-सांसदानां संख्यायां साक्षात् सप्त-सांसदानां वृद्धिः भविष्यति, येन राज्यसभायां कस्यापि विधेयकस्य पारणम् इदानीं सुलभं भविष्यति।
भाजपा-पक्षस्य संख्यायां वृद्धिः
आप-पक्षस्य सप्त-सांसदानां भाजपा-पक्षे प्रवेशात् परं सदने दलस्य सदस्यसंख्या १०६ तः वर्धित्वा ११३ भविष्यति। अनेन सदने सर्वकारस्य स्थितिः सुदृढा भविष्यति। भाजपा-पक्षे सम्मिलिताः सांसदाः सन्ति— राघवचड्ढः (पञ्जाबः), हरभजनसिंहः (पञ्जाबः), सन्दीपपाठकः (पञ्जाबः), अशोकमिथलः (पञ्जाबः), रजिन्दरगुप्तः (पञ्जाबः), विक्रमसहनी (पञ्जाबः) तथा स्वातीमालीवालः (देहली)।
राज्यसभायाम् आप-पक्षस्य स्थितिः दुर्बला
एतेभ्यः परिवर्तनेभ्यः परं राज्यसभायाम् आप-पक्षस्य स्थितिः अत्यन्तं दुर्बला भविष्यति। अधुना सदने पक्षस्य पार्श्वे केवलं त्रयः सांसदाः शेषाः सन्ति— सञ्जयसिंहः (देहली), एन.डी. गुप्तः (देहली) तथा बलबीरसिंह-सीचेवालः (पञ्जाबः)।
पञ्जाब-राजनीति-क्षेत्रे साक्षात् प्रभावः
भाजपा-पक्षं गतेषु सप्त-सांसदेषु षट् सांसदाः पञ्जाब-राज्यस्य सन्ति, अतः अस्य साक्षात् प्रभावः राज्यस्य राजनीति-क्षेत्रे दृश्यते। विशेषतः २०२७ तमस्य वर्षस्य विधानसभा-निर्वाचनं दृष्ट्वा एषः आप-पक्षस्य कृते महान् आघातः मन्यते।
अद्य सप्त गताः, श्वः पञ्चाशत् अपि गन्तुं शक्नुवन्ति
पञ्जाब-काङ्ग्रेस-अध्यक्षः अमरिन्दरसिंह-राजा-वडिंगः आम-आदमी-पक्षं सचेतयन् अवदत् यत् पक्षः सावधानः भवतु, यतः शीघ्रमेव तस्य ५० विधायकाः अपि भाजपा-पक्षे सम्मिलिताः भवेयुः। आप-पक्षेण धनं दृष्ट्वा राज्यसभा-सदस्यत्वं प्रदत्तम्, तेषां कापि विचारधारा नासीत्। एवं तु भवितव्यमेव आसीत्। यथा ते धनं दृष्ट्वा आगताः, तथैव गताः। मम तु भयं वर्तते यत् ५० विधायकाः अपि एवं न गच्छेयुः।
कुत्र स्थातव्यं, कुत्र गन्तव्यम्— इति वैयक्तिकं निर्णयम्
समाजसेवी अन्ना-हजारे उक्तवान् यत् लोकतन्त्रे कुत्र गन्तव्यं कुत्र स्थातव्यम् इति प्रत्येकस्य जनस्य स्वकीयमते निर्भरं भवति। केनपि सह बलात् व्यवहारः न करणीयः। विचारेषु मतभेदः स्वाभाविकः अस्ति, प्रायः विचारेषु असहमतिः एव तेषां पक्षत्यागस्य कारणं जातम्।
केजरीवालः कदा प्रत्यागमिष्यति, इति प्रेक्षणीयम्
छत्तीसगढ़स्य पूर्वमुख्यमन्त्री भूपेशबघेलः अवदत् यत् आम-आदमी-पक्षः भाजपा-पक्षस्य ‘बी-टीम’ अस्ति। एते जनाः अधुना स्वस्य मूलपक्षं प्रति गच्छन्तः सन्ति। आप-भाजपा-पक्षयोः कोऽपि भेदः नास्ति। इदानीं द्रष्टव्यं वर्तते यत् केजरीवालः कदा मुख्यधारायां प्रत्यागच्छति।
