By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राघवचड्ढा वर्येण आम-आदमी-पक्षस्य (आप) कार्यं बाधितम्, परिवर्तितं समीकरणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राघवचड्ढा वर्येण आम-आदमी-पक्षस्य (आप) कार्यं बाधितम्, परिवर्तितं समीकरणम्
राष्ट्रीयवार्ताःराजनैतिकवार्ता

राघवचड्ढा वर्येण आम-आदमी-पक्षस्य (आप) कार्यं बाधितम्, परिवर्तितं समीकरणम्

डॉ.अमनदीप शर्मा
Last updated: 2026/04/25 at 6:34 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

राघवचड्ढा वर्येण आम-आदमी-पक्षस्य (आप) कार्यं बाधितम्, भाजपा-पक्षे विलीनीकरणस्य निर्णयेन राज्यसभायाम् समीकरणं परिवर्तितम्
राघवचड्ढस्य नेतृत्वे आम-आदमी-पक्षस्य सप्त-सांसदानां भारतीय-जनता-पक्षे (भाजपा) सम्मिलितस्य निर्णयान्तः राज्यसभायां संख्याबलं पूर्णतया परिवर्तितम्। उल्लेखनीयं वर्तते यत् आप-पक्षस्य प्रमुखनेतृषु अन्यतमः राघवचड्ढः स्वस्य द्वाभ्यां सहचर-सांसदाभ्यां सह भाजपा-पक्षं प्रविष्टवान्। चड्ढा पुष्टिं कृतवान् यत् आप-पक्षस्य आहत्य सप्त सांसदाः तेन सह सन्ति, येषु भूतपूर्वः अन्ताराष्ट्रिय-क्रिकेटक्रीडकः हरभजनसिंहः अपि सम्मिलितः अस्ति। अस्मात् घटनाक्रमात् परं उच्चसदने राजनैतिकस्थितिः पूर्णतया परिवर्तिता, भाजपा-पक्षः च स्वबलेन बहुमतस्य अत्यन्तं समीपम् आगतः।

राघवचड्ढानुसारम्, आप-पक्षस्य दश-सांसदेषु सप्त सांसदाः भाजपा-पक्षे गन्तुं निर्णयं कृतवन्तः। एषः परिवर्तनः दल-परिवर्तन-विरोधी-अधिनियमस्य (दशम-अनुसूच्याः) द्वितीयांश-बहुमतस्य नियमं पूरयति, अतः एतेषु सांसदेषु कापि अयोग्यता न प्रवर्तिष्यते। फलतः भाजपा-पक्षस्य वर्तमान-सांसदानां संख्यायां साक्षात् सप्त-सांसदानां वृद्धिः भविष्यति, येन राज्यसभायां कस्यापि विधेयकस्य पारणम् इदानीं सुलभं भविष्यति।

भाजपा-पक्षस्य संख्यायां वृद्धिः
आप-पक्षस्य सप्त-सांसदानां भाजपा-पक्षे प्रवेशात् परं सदने दलस्य सदस्यसंख्या १०६ तः वर्धित्वा ११३ भविष्यति। अनेन सदने सर्वकारस्य स्थितिः सुदृढा भविष्यति। भाजपा-पक्षे सम्मिलिताः सांसदाः सन्ति— राघवचड्ढः (पञ्जाबः), हरभजनसिंहः (पञ्जाबः), सन्दीपपाठकः (पञ्जाबः), अशोकमिथलः (पञ्जाबः), रजिन्दरगुप्तः (पञ्जाबः), विक्रमसहनी (पञ्जाबः) तथा स्वातीमालीवालः (देहली)।

राज्यसभायाम् आप-पक्षस्य स्थितिः दुर्बला
एतेभ्यः परिवर्तनेभ्यः परं राज्यसभायाम् आप-पक्षस्य स्थितिः अत्यन्तं दुर्बला भविष्यति। अधुना सदने पक्षस्य पार्श्वे केवलं त्रयः सांसदाः शेषाः सन्ति— सञ्जयसिंहः (देहली), एन.डी. गुप्तः (देहली) तथा बलबीरसिंह-सीचेवालः (पञ्जाबः)।

पञ्जाब-राजनीति-क्षेत्रे साक्षात् प्रभावः
भाजपा-पक्षं गतेषु सप्त-सांसदेषु षट् सांसदाः पञ्जाब-राज्यस्य सन्ति, अतः अस्य साक्षात् प्रभावः राज्यस्य राजनीति-क्षेत्रे दृश्यते। विशेषतः २०२७ तमस्य वर्षस्य विधानसभा-निर्वाचनं दृष्ट्वा एषः आप-पक्षस्य कृते महान् आघातः मन्यते।

अद्य सप्त गताः, श्वः पञ्चाशत् अपि गन्तुं शक्नुवन्ति
पञ्जाब-काङ्ग्रेस-अध्यक्षः अमरिन्दरसिंह-राजा-वडिंगः आम-आदमी-पक्षं सचेतयन् अवदत् यत् पक्षः सावधानः भवतु, यतः शीघ्रमेव तस्य ५० विधायकाः अपि भाजपा-पक्षे सम्मिलिताः भवेयुः। आप-पक्षेण धनं दृष्ट्वा राज्यसभा-सदस्यत्वं प्रदत्तम्, तेषां कापि विचारधारा नासीत्। एवं तु भवितव्यमेव आसीत्। यथा ते धनं दृष्ट्वा आगताः, तथैव गताः। मम तु भयं वर्तते यत् ५० विधायकाः अपि एवं न गच्छेयुः।

कुत्र स्थातव्यं, कुत्र गन्तव्यम्— इति वैयक्तिकं निर्णयम्
समाजसेवी अन्ना-हजारे उक्तवान् यत् लोकतन्त्रे कुत्र गन्तव्यं कुत्र स्थातव्यम् इति प्रत्येकस्य जनस्य स्वकीयमते निर्भरं भवति। केनपि सह बलात् व्यवहारः न करणीयः। विचारेषु मतभेदः स्वाभाविकः अस्ति, प्रायः विचारेषु असहमतिः एव तेषां पक्षत्यागस्य कारणं जातम्।

केजरीवालः कदा प्रत्यागमिष्यति, इति प्रेक्षणीयम्
छत्तीसगढ़स्य पूर्वमुख्यमन्त्री भूपेशबघेलः अवदत् यत् आम-आदमी-पक्षः भाजपा-पक्षस्य ‘बी-टीम’ अस्ति। एते जनाः अधुना स्वस्य मूलपक्षं प्रति गच्छन्तः सन्ति। आप-भाजपा-पक्षयोः कोऽपि भेदः नास्ति। इदानीं द्रष्टव्यं वर्तते यत् केजरीवालः कदा मुख्यधारायां प्रत्यागच्छति।

You Might Also Like

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

विपक्ष-नेतुः जयराम-ठाकुरस्य गर्जनम् — हिमकेयर-योजनायाः अन्वेषणं कलङ्कयितुं केवलं नाटकम्; २०२७ तमे वर्षे भाजपा-दलस्य भविष्यति सर्वकारः

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article कामेश्वरसिंह- दरभंगा- संस्कृत- विश्वविद्यालये सर्वासां समस्याणां समाधानं भविष्यति- महामहिमः
Next Article जयपुरस्य राजकीया खगोलीय-ऐतिह्यम्-: सप्तदशशताब्द्याः विशालं ‘एस्ट्रोलेब’ यन्त्रं लण्डन-नगरे नीलामी-प्रक्रियायै सज्जम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?